Book Title: Nandanvan Kalpataru 2000 00 SrNo 03 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 8
________________ · हन्त ! एवं सति सनामग्राहं ब्रूमहे महामरुप्राये संस्कृतसज्जनसाहित्यवाङ्मयमये प्रपञ्चेऽस्मिन् दुर्लभत्वकृतमहिम्नि लभ्यमानं मधुरपानीयोत्सं खजूरफलच्छायाश्रयं गुर्जरजनपदे कर्णावतीनगरोपकर्णे कर्णपथमवतीर्णं नन्दनवनकल्पतरूं एकम् - येयं संस्कृत-प्राकृतमयी पत्रिका आयनिकी सूर्यस्येव उभयतो गतिमती कीर्तित्रय्या प्रकाशिता ''नन्दनवनकल्पतरुः" इति। कल्पतरोः परिसरपरिवारेषु मित्रेषु चिन्तामणिः कामधेनुः इत्यादयोऽपि सन्ति खलुः तत्र धर्म-कल्याण-रत्नाख्यं नन्दनवनकल्पतरोः मित्रं नामाक्षरदर्शनेन दृष्टम् । अस्य तरोः शाखासु द्वितीयशाखायां उपशाखाः वृन्तानि पत्राणि पल्लवानि पुष्पाणि नानाविधानि फलानि च, तेषां भोकृवर्गः पक्षिगणः, सन्दर्शकवर्गो देवगणः, द्रुवर्गे च वयं इति इयत्यपि जगति स्वर्ग इव किञ्चित् सन्तोषस्थानं दृष्टम्। दृष्टं परामृष्टं च यथाः - जैनी वागपि जननी नन्दनवनकल्पतरुसमानानाम्। रत्नाकर इव लक्ष्मी हृदि सर्वेषां दधातु दयमानानाम्॥ घेप्पिअहिअओ हं दिवअ नन्दनवनकल्पतरुमहग्घफलम्। सव्वो करेदु पुण्णं भारअजणपुट्टजणपअम्मि अळम् ॥ 25-12-1999 एवं सक्कद-पाउअकइन्द असो गिरिन्दवासो हम्। कित्तित्तिअअं सगुरुं णमोत्ति वाआ करेमि मुणिणाहम् ।। प्रेष्यतां प्रथमा शाखा द्वितीयापि तृतीयका। यथावकाशं नन्दनवनकल्पतरोरिति अर्थना श्रीरामशर्मणो रामानुजदासस्य विलासः - पञ्चभाषाकवितावल्लभः उभयन्यायवेदान्तालङ्कारः श्रीराम शर्मा प्राशुपाल : सर्वकारीयसंस्कृतकालेज मेलुकोटे,मण्डयजिल्ला कर्णाटराज्यम्-571431 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 102