Book Title: Nandanvan Kalpataru 2000 00 SrNo 03 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ दशध्वजिसमा वेश्या, दशवेश्यासमो नृपः ।।" सन्ति नृपाः स्वर्गताः । ते हि भूमौ नामावशेषं नष्टा एव । राजा राज्ञी गर्भदास इति इस्पेटाख्येषु ईचपेटापत्रेषु केवलं चित्ररूपास्ते द्रष्टव्या अवशिष्टाः । किन्तु प्रतिदिनं प्रतिग्राम प्रतिपत्तनं प्रतिराज्यं प्रतिराष्ट्रं च द्रष्टव्याः एते हि एकैकशोऽपि दशनृपसमाः। हन्त! हन्त! सर्वत्र कलिः, कलिः, कलिः । समाजघातुकानां हिंसाणां हि विषये श्लोकोऽयं प्रवृत्तः। हन्त ! सर्वत्र राष्ट्रे गोवधः सर्वकारप्रवर्तित एव।"ध्वजिनी वाहिनी सेना, सेनायां समवेता ये सैन्यास्ते सैनिकाचते।" सैनिकास्तु सौनिकैरिव धूर्तेः राजकीयैः स्ववशे प्रवर्त्यन्ते। तेषामेवार्थे सर्वत्र राष्ट्रेषु सर्वकारेषु धनादीनां अधिको व्ययः भवति। हन्त! "कलौ मृत्यर्गृहे गृहे" इति संविधानं समायातम् न बन्धुत्वम्, न मातापितृत्वम्, न पत्नीत्वम्, न पुत्रत्वं, न भ्रातृत्वं, न मित्रत्वं; किं पुनर्गुरुत्वम् । न किमप्येतत् समाजे परस्परोपकाराय सम्पन्नम् । धनम्, धनम्, धनम्; अधिकारः, अधिकारः अधिकारः, सुखं, सुखं, सुखम्, अहं, अहं, अहम्; अलमलमेतावतासाम्राज्येन स्वतंत्रेण स्वसुखा-यमानेन । मास्तु धर्मस्य, मास्तु परलोकस्य, मास्तु वरमस्य सुखस्य। स्वतंत्रभारतस्य आंग्लानुकरणसम्पन्ना स्थितिः एवं अतिगभीरा गहना च । बहिर्विश्वं अचिन्तयन्त एव समुद्रान्तर्जलपातालप्रवाळसस्यवनगहनकुहरकोणजीविनः कीटा इव जनाः कथंचित् निश्शक्जीवन्ति । एवं स्थिते कः उन्नतः स्वर्गलोकः ! किं नन्दनम् ! नन्दयतीति हि नन्दनम्। पुण्यशालिनां कल्याणबुद्धीनां किमस्ति नन्दनं भूमौ ! न खलु, न खलु, न किमपि, न किमपि नन्दनम्। १.स्वस्ति यादवशैलाग्राद रामशर्मेति कश्चन। कीर्तित्रयं प्रणम्याद्य विज्ञापयति साम्प्रतम् ॥१॥ भवत्पत्रं अनुप्राप्तं दृष्टं हृष्टं च धर्मतः । सन्तोष जनयेत् प्राज्ञ: न देवेश्वरपूजनम्॥२॥ गुरुभ्योऽस्मत्प्रणामोऽसौ भवद्भिर्विज्ञाप्यतामिति । अथ पत्रे त्वीचपेटाक्रीडा या प्रस्तुता मया ।।३।। सा त्रिपञ्चाशत्पत्रमिता द्यूतेषु विनियोज्यते । आंग्लै: कार्डस् इति सा प्रोक्ता तत्र किंग क्वीन् च जोकि च ॥४|| इति राजा च राज्ञी च गर्भदासस्तु सेवकः । इति त्रीणि तु पत्राणि स्युश्चतुर्ध्वपि कोटिषु ||५|| इस्पेट् आटीन कलावर् च डैमण्ड् इति चतुष्टयी। पत्राणां जातिरस्त्यत्र तत्तत्संख्यांकशालिनी।।६।। संख्याहीना तु जातिर्या सा राजादिकनामिनी। गञ्जीफापत्रवचैतत् पत्रं क्रीडाविनोदनम् ॥७॥ इति विज्ञाप्यतेत्यल्पं लज्जयेव मुनिष्विदम् । क्षाम्यन्तु क्षुद्रसन्दर्भ मुनयो वीतकल्मषाः ।।८।। ई लक्ष्मीस्तु महामाया पत्रक्रीडासु वित्तदा । पत्राणि तु चपेटाख्यहस्तक्षेप्याणि तत्र तु ॥९॥ इस्पेट इत्यांग्लशब्दस्त ईचपेट इतीरित: । गर्भदासो नाम हिन्द्यां गुलाम इति हि पठ्यते॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 102