Book Title: Nandanvan Kalpataru 2000 00 SrNo 03
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 13
________________ प्रास्ताविकम Jain Education International NGOL परमपूज्यपाद-परमदयालु-सङ्घनायकाऽऽचार्यवर्यश्रीविजयनन्दनसूरिभगवतां जन्मशतीवर्षे परमपूज्यगुरुभगवतां श्रीशीलचन्द्रसूरीश्वराणां सत्प्रेरणया कृपया चाऽऽरब्धस्याऽस्य गीर्वाणभाषासामयिकस्य 'श्रीनन्दनवनकल्पतरोः' तृतीयां शाखां प्रकाशयन्तो वयं हर्षानुभूतिं कुर्महे । अस्मदीयोऽयं प्रयत्नलेशो दाक्षिणात्यैर्विद्वद्वरेण्यैः सज्जनैः सोल्लासं सानन्दं सत्कृतः प्रोत्साहितश्चाऽपि । तत्तु तेषां प्रतिभावपत्रेष्वेव दरीदृश्यते । एतदर्थं वयं तान् प्रति कृतज्ञताप्लाविताः स्मः। अथैतस्य सर्वस्याऽप्युपरिष्टात् पूज्यगुरुभगवतां प्रोत्साहिका सत्प्रेरणैवाऽस्मिन् कार्येऽसाधारणं कारणमस्ति । स्वकीयेन साहित्येनाऽपि तैः पूज्यैरेषा शाखा समृद्धीकृताऽस्ति । विद्वज्जगत ईदृक्प्रोत्साहनं सदैव लभ्येतेत्याशासमाना नन्दनवनतीर्थं फाल्गुन शुक्ला पञ्चमी For Private & Personal Use Only कीर्तित्रयी www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102