Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ज ) चिदमी ग्रन्थकृतः प्रकृतं विस्मृत्य ग्रन्थकार मर्यादामतिक्रममागा विचारमार्गे सुदूरं चरन्तीति । परन्तु ग्रन्थकर्तृणामभिसन्धौ यथावदवगम्यमाने नूनमिदन्न दूषणं ते मन्येरन् प्रत्युत भूषणमेव । यतः स्वयं परिशीलितेयसंख्येयेषु पूर्वाचार्यग्रन्थेषु तत्र तत्रोपलब्धानां स्वयं सन्निहितेषु बहुषु विद्वत्सदस्सु विचारप्रचारे प्रक्रान्तानाञ्च प्रयत्नतः सम्भृतानामुच्चावचानामपूर्वतत्त्वरहस्यानां नानानिबन्धनावलोकनादिप्रयासमन्तरा प्रतिपत्त्यर्थमेकत्र समाहारे हि नैर्भर्यमेतन्निबन्धनकाराणाम्, न तु प्रगल्भलक्षगविवरणमात्रे । विवरणं हि स्वाभिमतपूरणायाश्रितं व्याजमात्रम् । मूलमात्रेण न स्वाभिमतं कार्त्स्न्येन पूरितं भवेदितीदमपि निदानं मन्यामहे स्वकृतस्य स्वेनैव व्याख्याकरणे । अत एव केषाञ्चन विवक्षितविषयाणामनतिप्रसक्तावपि कथञ्चन प्रसक्तिसम्पादनम्, विषयवैविध्यवैपुल्याद्यनुरोधेन ग्रन्थविस्तरश्चापरिहार्यतामगमताम् । वस्तुस्थितास्यामवबुद्धायां न खल्वनवधानम्, प्रकृतविस्मरणम्, पाण्डित्यप्रौढिप्रकाशनाभिनिवेशम् ग्रन्थकृन्मर्यादातिक्रमणं वा कश्विदुद्भावयेदिहाभिशः । सर्वथापीदमत्र निस्सन्देहं ब्रूमहे यन्यायशास्त्रे व्युत्पत्सूनां व्युत्पन्नानामपि सदसि वादविनोदकुतूहलिनाञ्च महाननुग्रह एवायं सव्याख्यो महनीय ग्रन्थ इति । " अस्ति चैतद्ग्रन्थकाराणां गिरा तदीयमुख्यशिष्यैः पण्डितराजविरुदधारिभिः श्रीरामननम्पियार- श्रीरामवारियर्- श्री अच्युतपोतुवालू इत्येतैर्महाशयैर्विलिखिता कापि टिप्पणी नूतनालोकस्यालोकप्रकाशाभिधा, या चात्र संयोजिता चकास्ति । मूलकृतामन्तेवासित्वस्यानुरूपमेवैते विवरणकृत्ये विचारसरणौ च व्यापृता इति वक्तुं महानस्माकं प्रमोदः । अप्रामाण्यज्ञानानास्कन्दितत्वसंशयान्यत्वविशिष्टावच्छेदकधर्मदर्शनानां प्रतिबन्धकीभूतानां नैकविधानुगमनमेकमेवालं तेषां कुशलधियामनुगमनपाटवं विशदयितुम् । क्वचिदालोकेनाप्रकाशितान् रत्नमालिका निगूढनूनभावानपि प्रकाशयन्ती मूलेन व्याख्यानेन वा क्वाप्यस्पृष्टान् विषयानपि विशदीकृत्य परिपूरयन्ती सा साराविष्करणसम्भाविताशङ्कानिराकरणप्रतिपक्षप्रतिक्षेपादिभिर्व्याख्यानधर्मैः परिकर्मिता नितरामुपकरोति तत्त्वबुभुत्सुनामित्यत्र न विशयलेशावकाशः । प्रथमप्रकाशे " न च वाच्यम् " “ यद्यपि तथापि " इत्यादिपदघटितस्थळे तत्तत्पदार्थप्रदर्शनपूर्वकं वाक्यार्थत्रोधवर्णनं परमसुलभमेत्र। भिन्नविषयकप्रत्यक्षत्वस्यानुगमयितुं शक्यत्वेऽपि बहुविधोत्तेजकानामननुगमादनुगतशाब्दसामग्रीप्रतिबध्यतावच्छेददुर्भिक्षं तत्रैव प्रदर्शितं सङ्गतमेव । एवं द्वितीये आरोपार्थविचारःस्तदादित्वविचारश्च टिप्पणीकाराणां विचारने पुर्णी विशदयति । प्रकारताया एव सम्बन्धावच्छिन्नत्वं तत्र तत्र ग्रन्थकारैर्विलिखितं दृश्यते न तु विशेष्यतायाः घटोsवृत्तिरिति बुद्धिं प्रति घटवत्तानिश्वrer araar विशेष्यतामनन्तर्भाव्य घटवानिति निर्धर्मितावच्छेदकनिश्चयसाधारणघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया प्रकारतायां तत्सिद्धिः एवच प्रमाणाभावान्न विशेष्यतायास्तथात्वमिति चेदेवंविधलाघवमन्यत्रापि सुवचम् सर्व समवायेन घटावृत्तिरित्यादिबुद्धिं प्रति प्रकारतामनन्तर्भाग्य समवायावच्छिन्नघटत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव रूपवान् घट इत्यादिनिश्चयानां प्रतिबन्धकत्वस्य लाघवेन कल्पनीयत्वात् । एवं स्थिते प्रकारताया एव सम्बन्धावच्छिन्नत्वमन्यत्र तदवच्छिन्नत्वस्वीकारे दोषोद्भावनपुरस्सरं स्थापयतीति युक्ततरम् । घटो गगनाभाववदभाववत्काली नगगनाभाववानिति निश्चयस्य गगनवत्ताबुद्धिं प्रति विशिष्टविषयकत्वेन प्रतिबन्धकत्वान्तरं न कल्पनीयमिति निगमने पर्यवसानं विषयपरिशोधन , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 215