________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ज )
चिदमी ग्रन्थकृतः प्रकृतं विस्मृत्य ग्रन्थकार मर्यादामतिक्रममागा विचारमार्गे सुदूरं चरन्तीति । परन्तु ग्रन्थकर्तृणामभिसन्धौ यथावदवगम्यमाने नूनमिदन्न दूषणं ते मन्येरन् प्रत्युत भूषणमेव । यतः स्वयं परिशीलितेयसंख्येयेषु पूर्वाचार्यग्रन्थेषु तत्र तत्रोपलब्धानां स्वयं सन्निहितेषु बहुषु विद्वत्सदस्सु विचारप्रचारे प्रक्रान्तानाञ्च प्रयत्नतः सम्भृतानामुच्चावचानामपूर्वतत्त्वरहस्यानां नानानिबन्धनावलोकनादिप्रयासमन्तरा प्रतिपत्त्यर्थमेकत्र समाहारे हि नैर्भर्यमेतन्निबन्धनकाराणाम्, न तु प्रगल्भलक्षगविवरणमात्रे । विवरणं हि स्वाभिमतपूरणायाश्रितं व्याजमात्रम् । मूलमात्रेण न स्वाभिमतं कार्त्स्न्येन पूरितं भवेदितीदमपि निदानं मन्यामहे स्वकृतस्य स्वेनैव व्याख्याकरणे । अत एव केषाञ्चन विवक्षितविषयाणामनतिप्रसक्तावपि कथञ्चन प्रसक्तिसम्पादनम्, विषयवैविध्यवैपुल्याद्यनुरोधेन ग्रन्थविस्तरश्चापरिहार्यतामगमताम् । वस्तुस्थितास्यामवबुद्धायां न खल्वनवधानम्, प्रकृतविस्मरणम्, पाण्डित्यप्रौढिप्रकाशनाभिनिवेशम् ग्रन्थकृन्मर्यादातिक्रमणं वा कश्विदुद्भावयेदिहाभिशः । सर्वथापीदमत्र निस्सन्देहं ब्रूमहे यन्यायशास्त्रे व्युत्पत्सूनां व्युत्पन्नानामपि सदसि वादविनोदकुतूहलिनाञ्च महाननुग्रह एवायं सव्याख्यो महनीय ग्रन्थ इति ।
"
अस्ति चैतद्ग्रन्थकाराणां गिरा तदीयमुख्यशिष्यैः पण्डितराजविरुदधारिभिः श्रीरामननम्पियार- श्रीरामवारियर्- श्री अच्युतपोतुवालू इत्येतैर्महाशयैर्विलिखिता कापि टिप्पणी नूतनालोकस्यालोकप्रकाशाभिधा, या चात्र संयोजिता चकास्ति । मूलकृतामन्तेवासित्वस्यानुरूपमेवैते विवरणकृत्ये विचारसरणौ च व्यापृता इति वक्तुं महानस्माकं प्रमोदः । अप्रामाण्यज्ञानानास्कन्दितत्वसंशयान्यत्वविशिष्टावच्छेदकधर्मदर्शनानां प्रतिबन्धकीभूतानां नैकविधानुगमनमेकमेवालं तेषां कुशलधियामनुगमनपाटवं विशदयितुम् । क्वचिदालोकेनाप्रकाशितान् रत्नमालिका निगूढनूनभावानपि प्रकाशयन्ती मूलेन व्याख्यानेन वा क्वाप्यस्पृष्टान् विषयानपि विशदीकृत्य परिपूरयन्ती सा साराविष्करणसम्भाविताशङ्कानिराकरणप्रतिपक्षप्रतिक्षेपादिभिर्व्याख्यानधर्मैः परिकर्मिता नितरामुपकरोति तत्त्वबुभुत्सुनामित्यत्र न विशयलेशावकाशः । प्रथमप्रकाशे " न च वाच्यम् " “ यद्यपि तथापि " इत्यादिपदघटितस्थळे तत्तत्पदार्थप्रदर्शनपूर्वकं वाक्यार्थत्रोधवर्णनं परमसुलभमेत्र। भिन्नविषयकप्रत्यक्षत्वस्यानुगमयितुं शक्यत्वेऽपि बहुविधोत्तेजकानामननुगमादनुगतशाब्दसामग्रीप्रतिबध्यतावच्छेददुर्भिक्षं तत्रैव प्रदर्शितं सङ्गतमेव । एवं द्वितीये आरोपार्थविचारःस्तदादित्वविचारश्च टिप्पणीकाराणां विचारने पुर्णी विशदयति । प्रकारताया एव सम्बन्धावच्छिन्नत्वं तत्र तत्र ग्रन्थकारैर्विलिखितं दृश्यते न तु विशेष्यतायाः घटोsवृत्तिरिति बुद्धिं प्रति घटवत्तानिश्वrer araar विशेष्यतामनन्तर्भाव्य घटवानिति निर्धर्मितावच्छेदकनिश्चयसाधारणघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वस्य कल्पनीयतया प्रकारतायां तत्सिद्धिः एवच प्रमाणाभावान्न विशेष्यतायास्तथात्वमिति चेदेवंविधलाघवमन्यत्रापि सुवचम् सर्व समवायेन घटावृत्तिरित्यादिबुद्धिं प्रति प्रकारतामनन्तर्भाग्य समवायावच्छिन्नघटत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव रूपवान् घट इत्यादिनिश्चयानां प्रतिबन्धकत्वस्य लाघवेन कल्पनीयत्वात् । एवं स्थिते प्रकारताया एव सम्बन्धावच्छिन्नत्वमन्यत्र तदवच्छिन्नत्वस्वीकारे दोषोद्भावनपुरस्सरं स्थापयतीति युक्ततरम् । घटो गगनाभाववदभाववत्काली नगगनाभाववानिति निश्चयस्य गगनवत्ताबुद्धिं प्रति विशिष्टविषयकत्वेन प्रतिबन्धकत्वान्तरं न कल्पनीयमिति निगमने पर्यवसानं विषयपरिशोधन
,
For Private And Personal Use Only