________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कौशलं विशदयति टिप्पणीकृताम् । अवच्छेदकधर्मदर्शनानां तत्तन्निश्रयानुत्तरतद्वत्ताबुदिं प्रति तत्तनिश्चयत्वेन प्रतिबन्धकत्वम् , न तु ज्ञानविशिष्टज्ञानत्वेनेति मतनिरासावसरे उत्तरत्वघटकतया मूले प्रस्तावप्रस्तुतस्य प्रागभावस्य व्यवस्थापने पूर्वपक्षसमाधानैरालोकोपस्करणं प्रकाशस्य प्रकाशावहमेव । एवं तृतीये "न च प्रथमान्तमुख्यकत्वमेवासिद्धम् , 'ते विभक्त्यन्ताः पदम्' इति गौतमसूत्रे 'क्रिया प्रधानमाख्यातं यथा पचति' इति न्यायवार्तिककारवचनात् , 'भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि' इति यास्कवचनाच्च क्रियाप्रधानस्यैव स्वरसतः सिद्धत्वात् । एवं कर्तुः प्राधान्ये पश्य मृगो धावति, शृणु कूजति कोकिल इत्यादे दर्शनाद्यन्वयानुपपत्तेश्च तस्य कर्तृत्वविशेषणत्वादिति वाच्यम्” इति शङ्कामुत्थाप्य प्रपञ्चेन तत्स्थापनम् । अन्ते "वस्तुतस्तु नैयायिकमते सर्वत्र प्रथमान्तमुख्यविशेष्यक एव बोध इति न नियमः, कैरप्यभियुक्तैस्तथाऽलिखनादनिर्वाहाच, किन्तु यथासम्भवं तत्तद्विशेष्यक एव" इति निगमनञ्च सर्वथा समञ्जसमेव । यद्यपि अथवेत्यादिना प्रथमान्तपदासमभिव्याहारे उक्तरीतिरेव, तत्समभिव्याहारे च सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एवेति कल्पान्तरमनुस्रियते, तथाप्यत्रैव टिप्पणीकृतां स्वारस्यमिति मन्यामहे, अन्यथा प्रयासाधिक्यात् ।
___ इदमपि विद्यते किञ्चिदत्र वक्तव्यम् । यदयं ग्रन्थो यथावकाशं विशोधनीय इति मत्सकाशे श्रीशास्तृशर्मभिनिवेदितमासीत् । निरङकुशविचारसारवादप्रस्थानान्तर्गतत्वादेष मनोविनोद इति, एतत्कर्तारोऽस्माकं सन्ततप्रत्यासन्नाः परमोत्तमाः सुहृद इति, आप्तजनेषु मुख्यतमा इति, मान्येषु मूर्धन्या इति, मत्पूर्वगुरूणामपि प्रीतिबहुमत्योः पूर्णपात्रतां प्राप्ता इति हेतुभिर्बहुभिस्तां निवेदनांसपरितोषमुरर्यकर्षाम । वाचनलेखनचर्चासु च तदा तदा यथापेक्षं साहाय्यमादधातु शिष्यवयों श्रीरामन्नम्पियार् रामवारियरमहाशयौ स्वीयां सन्नद्धता सकौतुकमावेदयंश्च । परन्तु ग्रन्थस्याव. लोकने संशोधने च तेषामपि सान्निध्यमभिलषन्तो द्वयोरावयोः कार्यान्तरव्यग्रतारहितमवसरं प्रतीक्षमाणाः कञ्चन कालमवर्तिष्महि । अत्रान्तरे विधिबलात्तेषां ब्रह्मभूयप्राप्त्या हन्त ! अस्माकं मनोरथः फलेग्रहि भूत् । एवमप्यभ्युपगतं कृत्यं कथञ्चन निर्वोदुमेव निश्चिन्वानास्तत्र प्रावर्तिष्महि सहायाभ्याम् । अहो ! गभीरमिमं ग्रन्थमहाह्रदमवगाह्य परितः प्रहितदृष्टयः किं किं नापश्याम ! कियन्तमानन्दं नानुभवाम ! स्मृत्युपनीतानां ग्रन्थकर्तृणामग्रतोऽस्माकं पाणी मुकुलीभावमभजताम् । एतावान् ग्रन्थपरिचयः, एतादृशी सूक्ष्मनिरीक्षणदक्षता, ईदृशं कल्पनाकौशलम् , एवम्भूतश्चानुगमपाटवं न कुत्रचिदन्यत्रादर्शि, दृश्यते वा । तेषु महानुभावेषु प्रागेव प्राप्तप्रतिष्ठा अस्माकं गौरवधी: शतगुणाधिका समैधत | एवंविधपण्डितप्रकाण्डनिर्मितस्य ग्रन्थस्य शोधनावश्यकतामपश्यन्त आत्मनस्तत्राईतां सन्दिहानाश्च नवनवविषयोपक्षेपतत्परीक्षानेपुणनिरीक्षणाकाङ्क्षया केवलं समनं ग्रन्थमवालोकयाम तदा तु क्वचित्क्वचिदीषद्वयत्ययकरणं शोभनतया प्रतिभाति स्म, यथामति तन्निरवहाम च । क्वचिदेकत्र स्थितानि वाक्यानि प्रकरणानुगुण्यमभिसन्धायान्यत्रायोज्यन्त, क्वचिदर्थवैशद्याय वाक्यानां पदानाञ्च व्यत्ययोऽप्यकारि, क्वचित्पुनर्विशेषप्रतिपत्यनुपयोगितया वाक्यानि कानिचन त्यक्तानि, क्वचित्तदुपयोगिताधिया योजितानि च । न चैतत्सर्वे स्वप्रतिभामात्रं प्रमाणीकृत्याकरवाम, किन्तु ग्रन्थकारमुख्यशिष्यैरालोकटिप्पणीकृद्भिः समं समालोच्य तेषां संवादपूर्वमेव । किञ्च इह वाक्यानां तत्प्रतिपादितविषयाणाञ्च ग्राह्यत्याज्यविवेको विशोधनावसरे कार्य इत्युक्त
For Private And Personal Use Only