________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निवेशः कर्तव्य इति विचारोऽत्र प्रौढतरं क्रियते । अथ च स्वरूपसम्बन्धलपसाध्यवत्ताज्ञानत्वावछिनत्वनिरासः, विविधसामग्रीघटकतया साध्याभावप्रमामादाय दोषोडायनतन्निरसनानि, तव सामग्रीप्रतिबन्धकतावच्छेदकरूपविचिन्तनञ्च विशेषतो विदुषां प्रतिपत्तिमर्हन्ति । संशयोत्तरप्रत्यक्षं प्रति विशेषदर्शनस्य हेतुत्वमुत्तेजकत्वं वा नावश्यकमिति व्यवस्थापनं प्रसङ्गागतमत्र परं सङ्गच्छते । उभयाभावमादायातिव्याप्त्यादिवारणं परं दुर्घटम् । पर्याप्तिनिवेशे प्रत्येकापर्यातस्य समुदायापर्यातत्वमिति न्यायेन तद्दोषतादवस्थ्यम् । व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वनिवेशे तत्रायुभयाभावमादाय पुनरपि तद्दोषः प्रसज्येत । तदिदं प्रायशो दृश्यमानं वैषम्यं निपुणतरमनेकधा निवारितं ग्रन्थकारैः । अथ च “यत्समानाधिकरणसाध्याभावनिष्ठप्रमीयप्रकारतानिरूपितहेतुमनिष्ठविशेष्यतासामान्ये स्वावच्छेदकावच्छिन्नविशेष्यताकसमध्यवत्ताज्ञानसामान्यप्रतिबन्धकतावच्छेदकत्वाभावः कुतो नेह विवक्षितः" इति शङ्कामुत्थाप्य तत्प्रतिक्षेपेण लघुलक्षणपरित्यागानौचित्यं परिहृत्य, स्थलविशेषे केषाञ्चिदतिव्याप्तिशङ्काम् , मध्ये संशयत्वनिर्वचनं भगवज्जानस्य प्रतिबन्धकत्वव्यवस्थापनञ्च पटुतरं कृत्वा परिहरन्तः पण्डितसार्वभौमाः प्रौढतमं ग्रन्थमिभं समापयन्ति ।
एक्माहत्य द्वयूनशतेन पूर्वपक्षकोटिभिस्तावतीभिरुत्तरपक्षकोटिभिश्च यथोचितं सन्निवेशिताभिनिष्पादितमिदं दार्शनिकममूल्यं महाभाल्यम् । दुर्घटानुगमानां विशेषणादीनामनुगमांश्च तत्र तत्र निरायासमत्र निफ्यूढाः। प्रमायां प्रदत्तविशेषणस्यानुगमनमेवात्र प्रबलमुदाहरणं भवति । एतावता सुगम स्यादेव क्रोडपत्रप्रक्रियां भूयसा विडम्बयत्येषा व्याक्रियेति ।
___अस्ति च नचरत्नमालिकायास्तत्कर्तु रेव कृतिः कापि विस्तृता विवृतिः "नूतनालोकाभिधाना। सापीह पुस्तके समायोजिता च । विवृतावस्यां प्रवितता बहुमुखा विचाराः सारेषु सारतरान् , सूक्ष्मेषु चातिसूक्ष्मान् पूर्वविषयानाविष्कुर्वाणा ग्रन्थस्य प्रौढतां व्युत्पादकताञ्च सम्पउहयन्ति । तत्र च प्रथमालोके एकदेशान्वयनियामकविचारः, धर्मिपारतन्त्र्येण भानस्य स्वरूपविमर्शनमित्यादयः, सामान्यधर्मावच्छिन्नाधिकरणताया अतिरिक्तत्वव्यवस्थापने पूर्वोत्तरपक्षमलोपबृंहणञ्च विशेषतः सारज्ञतां विज्ञापयन्ति ग्रन्थकृताम् । एवं द्वितीये ज्ञाननिष्ठसमानाकारकत्वस्य पक्षभेदान् प्रक्षिप्यानुगमनेन निर्वचन् , तत्त्वज्ञानस्य कर्मनाशकत्वविचारश्च परं श्रद्धेय एव । अत्रानाहार्यत्वविचारः प्रौढो विस्तृतश्च विशिष्य व्युत्पादक एव । विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकं विशिष्टवैशिष्टयावगाहिबोधत्वं परं दुर्वचम् । तृतीये समर्थमेतन्निर्वचनं कृतमितीदं वैदग्थ्यमेव ग्रन्थकृताम् ।
- गहनेषु वादप्रस्थानारूढेषु तेषु तेषु विषयेषु इहापरामृष्टा विवेचनवैदग्ध्येन सुग्रहतामप्रापिता . असत्कल्पा इति सुवचमतिशयोक्तिस्पर्शमन्तरेणैव । श्रद्धावतां जिज्ञासूनामुपकृतिकामनया ग्रन्थ
निर्मिती व्यापूतानामेषां पण्डितवरेण्यानां विवक्षितवचनस्वातन्त्र्यं नियन्त्रयितुं नाभूप्रभावो "विस्तरभीतेः, नाप्यप्रकृतत्वाशङ्कायाः। कचन प्रकरणेषु हि अनतिप्रसक्ता अपि केचन विषयाः कथचन प्रसक्त्युत्थापनेन निरूप्यता प्रापय्यात्र निरूपिता वर्तन्ते । अतश्च केषाञ्चन प्रतीतिदियात् , अनवधानेन वा, प्रकृतविस्मरणेन वा, स्वपाण्डित्यप्रौदिप्रकाशनाभिनिवेशेन वा कदा
For Private And Personal Use Only