________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मादा य” इत्यादि । “नापि. द्वितीयः, प्रकारताविशेष्यतयोरिव आधारत्वाचेयत्वयोरपि परस्परं निरूप्यनिरूपकभावसत्त्वेन वह्निमान् धूमादित्यादौ धूमादिनिष्ठाधेयतानिरूपकीभूता या पर्वतादिनिष्ठाधिकरणता, तनिष्ठसाध्याभावमादाय" इत्यादि च । एवमेतादृशदूषणोडावनार्थ "धूमाधिकरणताभिन्नत्वे साध्ये धूमाधिकरणत्वधूमाधिकरणत्वनिष्ठाधेयत्वैतदन्यतरस्मिन् हेतावित्यादिस्थलविशेषप्रदर्शनं बहुरात्रजागरणफलमिति बादं ब्रूमः। एवं प्रतियोगितानुयोगितादीनामपि आधेयतादिनिरूपितत्वनिरूपकत्वे उपादाय दोषोत्थापनं विस्मयावहमेव विदुषाम् । तदुपरि पुनर्गन्धकाराणां विज्ञानवैपुल्यं विषयविचारचातुर्यञ्चावगमयन्ती पूर्वान्तरपक्षाणां निश्श्रेणिरत्र सम्मुखीना भवति । सा च कं नाम धिषणाशालिनं विस्मयस्तिमितमस्तमितान्यभावमानन्द मन्दञ्चन कुर्वीत । ग्रन्थस्य न च रत्नमालिकेति नाम कृतवद्भिग्रन्थकृन्द्रिः संसूचितश्च सुचिन्तितानामाक्षेपतत्प्रतिक्षेपकोटीनामिह बाहुल्यम् । रीतिरियमापरिसमाप्ति ग्रन्थस्य समादृता दरीदृश्यते ।
आवलित्रयवत्यामस्या मालिकायां प्रथमावली नचरत्नानामेकोनविंशत्या गुम्झिता । यत्र व “केचित्तु सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वाद्वह्निमान् धूमादित्यादौ धूमनिष्ठद्रव्यत्यावच्छिन्नाधेयतानिरूपितद्रव्यत्वाद्यवच्छिन्नाधिकरणतावत्वं हृदस्यापीत्यव्याप्त्यापश्या" इत्यादिना व्युत्पत्तिवादसंगृहीतं सामान्यधर्मावच्छिन्नाधारत्वाधेयत्वयोरतिरिक्तत्वं व्यवस्थापितम् ।
द्वितीया च पञ्चविंशत्या, या च हेत्वधिकरणनिष्ठत्वं किं रूपमिति पूर्वोक्तरीत्या त्रेधा विकल्प्य प्रत्येकं दूषणेनारभ्यते। तादृशनिष्ठत्वं केन सम्बन्धेनेति विचारावसरे भावाभावसाधारणः स्वरूपसम्बन्धो व्यवस्थापितः। ततश्च व्यधिकरणधर्मावच्छिन्नप्रतियोगितायाः प्रसङ्गात् सम्बन्धविशेषावच्छिन्नत्वमपि सयुक्तिक व्यवस्थापितम् । अथ च यत्समानाधिकरणसाध्याभावप्रमेत्यत्र प्रमापदेन समूहालम्बनासमूहालम्बनरूपान् विचित्राकृतीन् प्रमाभेदानुपादायाव्याप्त्याशङ्कनम् , तत्परिहारानुरूपविशेषणोपादानम् धर्मविशिष्टत्वेन तदनुगमनञ्च ग्रन्थकृतां सूक्ष्मेक्षिकापाट वमवगमयति । अत्र च तद्वत्ताबुद्धौ तदभाववत्तानिश्चयादेनं निश्चयत्वादिना प्रतिबन्धकत्वम् , जन्यज्ञानमात्रस्यान्याय वृत्तितया तदभाववत्तानिश्चयकालेऽपि तदभावसत्त्वेन तद्वत्ताबुद्धयापत्तेरवारणात् । अतः समवायेन विशिष्टबुद्धिं प्रति बाधनिश्चयविशिष्टत्वेनैव प्रतिबन्धकत्वं वक्तव्यम् , वैशिष्टयञ्च सामानाधिकरण्यसम्बन्धेन । तथा च बाधनिश्चयकालेऽन्यावच्छेदेन तदभावसत्त्वेऽपि न तद्विशिष्टस्याभावः । व्याप्यवृत्तरपि सामानाधिकरण्येन तद्विशिष्टत्वादिति सूक्ष्मदर्शिनां केषाञ्चिन्मतम् । एवञ्च प्रकृतलक्षमस्प प्रतिबन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशेन तादृशप्रतिबन्धकत्वाप्रसिद्ध था. असम्भवः, निश्चये प्रतिबन्धकताघटित हेत्वाभासादिसामान्यलक्षणमयसम्भवग्रासेन व्याहन्येत, मतमेतदाक्षेपसमाधानः प्रदW स दोषो ज्ञानवैशिष्टयानवच्छिन्नेत्यनेन विषयतानिष्ठस्वनिरूपकज्ञानवैशिष्टयावच्छिन्नावच्छेदकत्वानिरूपकत्वस्य विवक्षणेन निपुणतरं निवारितः। मतमेतन दूषितमपि तु परिहता एव सर्वानुपपत्तयः। अतो ग्रन्थकतृणामत्रैव स्वारस्यमिति मन्यामहे । हेत्वाभासादिसामान्यलक्षणानामेतत्पक्षे दोषपरिहारस्तु सुधीभिरूह्यः ।
तृतीया च चतुष्पञ्चाशता । सा च "अथ संयोगसमवायादिनानासंसर्गकसाध्यवत्ताज्ञानत्वव्यापिका कामिनीजिज्ञासादि प्रतिबध्यतैव । तदनिरूपकत्वञ्च साध्याभावप्रमासामान्यस्वेत्यतिव्याप्तिः" इत्याशङ्कया प्रक्रमते । प्रतिबध्यतायाः प्रतिबध्यस्वरूपत्वे प्रसक्तमसम्भवं निवारवितुं कथं ना
For Private And Personal Use Only