Book Title: Mahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Author(s): Mahavir Jain Vidyalaya Mumbai
Publisher: Mahavir Jain Vidyalay
View full book text
________________
42 : SHRI MAHAVIRA JAINA VIDYALAYA GOLDEN JUBILEE VOLUME
भवति पौष्टिककार्य स्वगृहे परगृहे वा भगवतस्तथागतस्यार्यावलोकितेश्वरस्य च मन्त्रदेवतायाश्चाग्रतः सर्वबुद्धबोधिसत्वेभ्यो नमस्कृत्वा शुभे स्थाने कोशे कोष्टागारे वा चन्दनेन चतुरस्रमण्डलं कृत्वा त्रीन् वारान् आवर्तयन्। ततो गृहपते कुलपुत्रस्य वा कुलदुहितुर्वा महापुरुषमात्रया वसुधारया गृहं परिपूरयति सर्वधनधान्यहिरण्यसुवर्णरलैः सर्वोपकरणैश्च सर्वोपद्रवांश्च नाशयति । तेन हि त्वं गृहपते उद्गृहीष्वेमां वसुधारा नाम धारिणीं धारय वाचय देशय उग्राहय पर्यवाप्नुहि प्रवर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय तद भविष्यति दीर्घरात्रं अर्थाय हिताय सुभिक्षाय क्षेमाय योगसम्भाराय चेति ।
साधु भगवन्निति सुचन्द्रो गृहपतिः भगवतोऽन्तिका दिमां वसुधारा10 नाम धारिणी11 श्रुत्वा हृष्ट:12 तुष्ट उदग्र आत्तमनाः प्रमुदित:14 प्रीतिसौमनस्यजातो15 भगवतश्विरणयोर्निपत्य कृतकरपुटो भूत्वा भगवन्तमेतदवोचत् । उद्गृहीता मे18 भगवन् इयं वसुधारा नाम धारिणी20 प्रकीर्तिता21 धारिता वाचिता पर्यवाप्ता अनुमोदिता मनसानुपरिचिंतिता22 च परेभ्यश्च विस्तरेण इदानी सम्प्रकाशयिष्यामीति23 ।
___ अथ तत्क्षणमात्रेण सुचन्द्रो नाम गृहपति[:] 24परिपूर्णकोशकोष्टागारो बभूव । अथ खलु सुचन्द्रो गृहपतिः24 भगवन्तं अनेकशतसहस्रकृत्व:25 प्रदक्षिणीकृत्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं अनेकशः पुनः पुनरवलोक्य भगवतोऽन्तिकात् प्रक्रान्तः27 ।
अथ28 खलु भगवानायुष्मन्त आनन्दं आमन्त्रयते स्म। गच्छ त्वं आनंद सुचन्द्रस्य गृहपतेरगारं गत्वा च29 परिपूर्ण पश्य सर्वधनधान्यहिरण्यरत्नसुवर्णैः सर्वोपकरणैर्महाकोशकोष्टागाराणि च परिपूर्णानि ।
अथ खल्वायुष्मान् आनंदो भगवतः प्रतिश्रुत्य येन कोशाम्बी महानगरी येन सुचन्द्रस्य गृहपतेरगारं31 तेनोपसंक्रान्तः 132 उपसंक्रम्याभ्यन्तरं प्रविश्याद्राक्षीत् तत् परिपूर्ण सर्वधनधान्यहिरण्यसुवर्णै:34 सर्वोपकरणैश्च
1 BC आवर्तयेत् । 2 Not in C. 3 B-मात्रं या। 4 BC -हिरण्यरत्नसुवर्णैः । 5 A -पति। B -पते । Not in C. 6 B -हीस्वेमां। C ग्रहीस्वेमां । 7 BC धारणीं। 8 A पर्यु-| BC पर्य-। 9 A -पति। BC-पतिः । 10 BC -धारा। 11 BC -धारणीं। 12 BC हृष्ट । 13 A उदगृह । BC उदय । 14 B-ताः। C-तो। 15 B-यातो। 16 C-बतो श्च- । 17 C -श्चरणयो निपत्य ।
18 Not in B. 19 C-धारां। 20 C धारिणीं। 21 AB प्रकीर्तता। C प्रकीकृता। 22 BC मनसा सुपरिचिंतिता। 23 C संप्रशविष्यामीति । 24-24 Not in A but occurs in BC. 25 A -कृत । C-कृत्वा । 26 A -अवलोके। BC -लोक्य । 27 B-न्त । 28 C अत्र। 29 Not in C. 30 Not in c. 31 C-रागारं। 32 C-क्रान्त। 33 C परिपूर्णसर्व-। 34 C-सुवर्णाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org