Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SARASWARASHTRA
सागरोपमकोटीकोटीप्रमाणां सकसामपि सम्यक्त्वे उदयावसिकात उपरि संक्रमयति । ततोऽन्तर्मुहूर्तान एवोत्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते, न च संक्रमकाखे उदयोऽस्ति, तासां संक्रमकालेऽनुदयानां तावदेव पूर्वोक्तं स्थितिसत्कर्म समयोनमवगन्तव्यं, श्रावलिकाधिकहीनोत्कृष्टस्थितिसमागम श्रावलिकया सहितः समयोनस्तासामुत्कृष्टं स्थितिसत्कर्मेत्यर्थः। तथाहि-कश्चिन्मनुष्य उस्कृष्टसंक्लेशवशाउत्कृष्टां नरकगतिस्थिति बद्धा परिणामपरावर्तनेन देवगति बद्धमारब्धवान् । तस्यां च देवगतौ बध्यमानायामावसिकाया उपरि नरकस्थिति बन्धावलिकातीतां उदयावलिकाया उपरितनी सकसामपि विंशतिसागरोपमकोटीकोटीप्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति । ततस्तया समयमात्रया स्थित्या ऊन श्रावलिकयाऽज्यधिक आवखिकाधिकहीनोत्कृष्टस्थितिसमागमो देवगतरुत्कृष्टं स्थितिसत्कर्म । एवं वित्रिचतुरिन्जियजात्याहारकसप्तकमनुजानुपूर्वीदेवानुपूर्वीसूक्ष्मापर्याप्तसाधारणतीर्थकराख्यानामपि पोमशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म जावनीयं । सम्यडियथ्यात्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम श्रावलिकयाऽज्यधिकसमयोन उस्कृष्टं स्थितिसत्कर्म वाच्यं । तच्च सम्यक्त्वोक्तनावनानुसारेण नावनीयं । 'उन्नयासिं जहिई तुह्यत्ति उजयीषामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाखे यस्थितिः सर्वा स्थितिस्तुल्या। यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमणोदयवतीषु संक्रम्यमाणापि दखिकरहिता विद्यते एव । न हि कालः संक्रमयितुं शक्यते, किं तु तत्स्थं दखिकमेव । ततः प्रथमस्थितिगतदखिकसं
Jain Educati
o
nal
For Private & Personal Use Only
library.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462