Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुहूर्त कालं यावद्वरूं । ततो ज्येष्ठस्थितौ नरकेऽप्रतिष्ठानानिधाने नरके जातः । तत्र च सता तेन तत् वैक्रियैकादशकं त्रयस्त्रिंशत्सागरोपमाणि यावत् विपाकतः संक्रमतश्च यथायोगमनुभूतं । ततो नरकाडुद्धृत्य तिर्यक्पञ्चेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च वैक्रियैकादशकस्य नूयोऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् । तत एकेन्द्रियो जातः । स च तक्रियैकादशकं चिरोघलनया उघलयितुं लग्नः । चिरोलनया चोलयतः सतो यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु दिसमयमात्रावस्थाना शेषीभवति तदा तस्य वैक्रियैकादशकस्य जघन्यं प्रदेशसत्कर्म ॥ ४२॥ मण्यगुच्चागोए सुदुमखणबद्धगेसु सुदुमतसे । तियराहारत अप्पाबंधिया सुचिरं ॥ ४३ ॥
मयत - मनुष्यधिकमुच्चैगत्रं च पूर्व सूक्ष्मत्रसेन क्षपितकर्माशेनोऽलितं । ततः सुदुमखणबगेसु ति' सूदोष सूक्ष्मै केन्द्रियेण पृथिव्यादिना सता क्षणमन्तर्मुहूर्तकालं यावत् नूयोऽपि बद्धं । ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नः । तत्र च चिरोघलनया उलयितुं लग्नः । उषलयतश्च यदा तेषामेका स्थितिर्धिसमयमात्रावस्थाना शेषीनवति तदा तयोर्मनुष्य धिकोच्चैर्गोत्रयोः सूक्ष्मकणवयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकर नाम 'अप्पा बंधिय त्ति'
पं कालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वका केवली जातः । ततः 'सुचिरं ति' प्रभूतं कालं देशोनपूर्वकोटिरूपं यावत् केवलिपर्यायं परिपाट्यायोगिकेवलिनः सतः क्षपितकर्मांशस्य चरमसमये वर्तमानस्य तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये तु ब्रुवते - तीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययोगिना प्रथमसमये या लता बा सा जघन्यं प्रदेशसत्कर्म | 'आहारतणु त्ति' श्राहारकतनूपलक्षितमाहारकसप्तकं । 'अप्पा बंधिय त्ति' अस्पकालं
Jain Educationonal
For Private & Personal Use Only.
helibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462