Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 448
________________ 宦 ॥ २१३ ॥ कामात्रेण कालेन निरवशेषं संक्रमयति । तथा च सत्यावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी जवति । दिचरमसमयवेदकेन यद्वद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रमयति । श्रावलिकायाश्चरमसमयेअकर्मी जवति । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारज्य द्वितीयावलिकाचरमसमयेऽकर्मी नवति । तथा च सति बन्धाद्यभावप्रश्रमसमये समयघयोनावलिकाधिकमेव सत्प्राप्यते, न शेषं । तथाहि - तत्त्वतोऽसंख्यातसमयात्मिकाप्यावलिका किलासत्कल्पनया चतुःसमयात्मिका कप्यते । ततो बन्धादिव्यवच्छेदचरमसमयादर्वा अष्टमे समये यद्वयं तद्बन्धावलिकायां चतुःसमयात्मिकायामतीतायां श्रन्यया चतुःसमयात्मिकया श्रवलिकया अन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदसमयरूपे सर्वथा स्वरूपेण न प्राप्यते, अन्यत्र सर्वात्मना संक्रमितत्वात् । सप्तमे समये यद्वद्धं तच्चतुःसमयात्मिकायामावलिकायामतिक्रान्तायामन्यया चतुःसम - यात्मिकया अन्यत्र संक्रम्यमाणं बन्धादिव्यवच्छेदानन्तरसमये स्वरूपेण न प्राप्यते, सर्वात्मनाऽन्यत्र संक्रमितत्वात् । शेषषष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ व्यवचिन्ने सति अनन्तरसमये समययोनावलिकाधिकबन्धमेव सत् प्राप्यते । नान्यदिति । तत्र बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्वद्धं तस्य बन्धावलिकायामतीतायामन्यया श्रावलिकयाsन्यत्र संक्रम्यमाणस्य चरमसमये यत् संक्रमयिष्यति न तावत्संक्रमयति तत् संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानं । एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यद्वद्धं तस्यापि दलिकं चरमसमये द्वितीयं प्रदेशसत्कर्मस्थानं । एवं तावद्वाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यद्वद्धं तस्य 1 Jain Education International For Private & Personal Use Only प्रकृतिः ॥ २१३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462