Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 461
________________ विमला अपगतमिथ्याज्ञानत्वरूपमला मतिकिरणा मतिरश्मयः ते कर्ममलिनान् कर्मतमोमलीमसान् असुमतो विमलयन्ति विमलीकुर्वन्ति । स जगवान् महावीरो वर्धमानस्वामी मे मम संसारजयजीतस्य शरणं परित्राणहेतुः, नान्य इति ॥५५॥ ५॥ कर्मप्रपञ्चं जगतोऽनुबन्धक्केशावहं वीक्ष्य कृपापरीतः । याय तस्योपदिदेश रत्नत्रयं स जीयाङिनवर्धमानः ॥१॥ निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् । नित्योदयं नमस्कुर्मो जैनसिद्धान्तनास्करम् ॥२॥ पूर्वान्तर्गतकर्मप्रकृतिप्रातृतसमुद्धृता येन । कर्मप्रकृतिरियमतः श्रुतकेवलिगम्यत्नावार्था ॥३॥युग्मम् ततः क्व चैषा विषमार्थयुक्ता व चाट्पशास्त्रार्थकृतश्रमोऽहम् । तथापि सम्यग्गुरुसंप्रदायात् किश्चित्स्फुटार्था विवृता मयैषाध कर्मप्रकृतिनिधानं बह्वर्थ येन मादृशां योग्यम् । चक्रे परोपकृतये श्रीचूर्णिकृते नमस्तस्मै ॥५॥ एनामतिगजीरां कर्मप्रकृति विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाचतां लोकः॥६॥ अईन्तो मंगलं मे स्युः सिघाश्च मम मंगलम् । मंगलं साधवः सम्यग् जैनो धर्मश्च मंगलम् ॥७॥ ॥ इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका ॥ -%EOXXX Puplished by Sheth Naginbhai Ghelabhai, Javeri Bazar, and Printed by R. Y. Shedge at the Nirnaya-Sagar Press, 23, Kolbhat Lane, Bombay. JanEducationational For Private & Personal use only braryong

Loading...

Page Navigation
1 ... 459 460 461 462