Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ २०४ ॥
कान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत एवेति कृत्वा उजयीषामपि यत्स्थितिः तुझ्या । यश्च यासां प्रकृतीनां उत्कृष्टां स्थितिं बध्नाति यश्च यासूत्कृष्टां स्थितिं संक्रमयति, स तासामुत्कृष्ट स्थिति सत्कर्मस्वामी ॥ १८ ॥ तदेवमुक्तमुत्कृष्ट स्थितिसत्कर्मस्वामित्वं, संप्रति जघन्य स्थितिसत्कर्मस्वामित्वमाद
| संजलप तिगे सत्तसु य नोकसाएसु संकमजन्नो। सेसा विई एगा डुसमयकाला अणुदयाणं ॥ १९५॥ संजल तिगे त्ति-संज्वलन त्रिकस्य क्रोधमानमायारूपस्य सप्तानां च नोकषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्यस्थितिसत्कर्म जघन्य स्थितिसंक्रमो वेदितव्यः । एता हि प्रकृतयो बन्धे उदये च व्यवचिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते, तेन कारणेन एतासां य एव चरमसंक्रमः स एव जघन्यं स्थितिसत्कर्म । उक्तं च - "हासाइपुरिसकोहादि तिन्नि संजलए जेण बंधुदये । वोनि संकमइ तेण इदं संकमो चरिमो ॥ १ ॥ " जघन्यं स्थितिसत्कर्मेति संबन्धः । शेषाणां पुनरुदयवतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयवेदक सम्यक्त्वसंज्वलन लोनायुश्चतुष्टयनपुंसकवेदस्त्री वेदसातासातवेदनी योच्चैर्गोत्रमनुजगतिपञ्चेन्द्रियजातित्रसवादरपर्याप्त सुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतुस्त्रिंशत्संख्यानां स्वस्वक्ष्यपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्यं स्थितिसत्कर्म । अनुदयवतीनां पुनः प्रकृतीनां स्वस्वक्ष्योपान्त्यसमये या स्वरूपापेक्षया समयमात्रा स्थितिरन्यथा तु विसमयमात्रकाला, सा जघन्यं स्थिति| सत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति । तत्स्वरूपेण चानुभवति । तेन चरमसमये तासां दलिकं स्वरूपेण न प्राप्यते, किं तु पररूपेण । छात उक्तं 'उपान्त्य समये स्वरूपापेक्ष्या समयमात्रा
Jain Education national
For Private & Personal Use Only
प्रकृतिः
॥२०४ |
elibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462