SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ॥ २०४ ॥ कान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत एवेति कृत्वा उजयीषामपि यत्स्थितिः तुझ्या । यश्च यासां प्रकृतीनां उत्कृष्टां स्थितिं बध्नाति यश्च यासूत्कृष्टां स्थितिं संक्रमयति, स तासामुत्कृष्ट स्थिति सत्कर्मस्वामी ॥ १८ ॥ तदेवमुक्तमुत्कृष्ट स्थितिसत्कर्मस्वामित्वं, संप्रति जघन्य स्थितिसत्कर्मस्वामित्वमाद | संजलप तिगे सत्तसु य नोकसाएसु संकमजन्नो। सेसा विई एगा डुसमयकाला अणुदयाणं ॥ १९५॥ संजल तिगे त्ति-संज्वलन त्रिकस्य क्रोधमानमायारूपस्य सप्तानां च नोकषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्यस्थितिसत्कर्म जघन्य स्थितिसंक्रमो वेदितव्यः । एता हि प्रकृतयो बन्धे उदये च व्यवचिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते, तेन कारणेन एतासां य एव चरमसंक्रमः स एव जघन्यं स्थितिसत्कर्म । उक्तं च - "हासाइपुरिसकोहादि तिन्नि संजलए जेण बंधुदये । वोनि संकमइ तेण इदं संकमो चरिमो ॥ १ ॥ " जघन्यं स्थितिसत्कर्मेति संबन्धः । शेषाणां पुनरुदयवतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयवेदक सम्यक्त्वसंज्वलन लोनायुश्चतुष्टयनपुंसकवेदस्त्री वेदसातासातवेदनी योच्चैर्गोत्रमनुजगतिपञ्चेन्द्रियजातित्रसवादरपर्याप्त सुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतुस्त्रिंशत्संख्यानां स्वस्वक्ष्यपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्यं स्थितिसत्कर्म । अनुदयवतीनां पुनः प्रकृतीनां स्वस्वक्ष्योपान्त्यसमये या स्वरूपापेक्षया समयमात्रा स्थितिरन्यथा तु विसमयमात्रकाला, सा जघन्यं स्थिति| सत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति । तत्स्वरूपेण चानुभवति । तेन चरमसमये तासां दलिकं स्वरूपेण न प्राप्यते, किं तु पररूपेण । छात उक्तं 'उपान्त्य समये स्वरूपापेक्ष्या समयमात्रा Jain Education national For Private & Personal Use Only प्रकृतिः ॥२०४ | elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy