Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
वरं दवाऽश्योऽभूत् । इति सुखसुप्ता राज्ञी स्वप्नं दृष्ट्वा मधुरगिरा बोधिताय राज्ञे प्रोवाच । राजापि "भास्करभास्टरः सुतस्ते भावी पर बिम्बान्त सरताहेतुं न वेद्मि" इति जगाद । तावतो शंखध्वनिना सर्वपुरमापूर्य मङ्गलपाठकः पपाठकिश्चिद्धसरविम्बोऽपि द्युतिभिर्योत्तयन् दिशः । यः कमात्कान्तिमबिम्बो भावी सोऽको मुदे तु वः ॥१॥ ___अथ तत्स्वप्नफलं तां चोपश्रुति श्रुत्वा प्रमोदमेदुरा राजपत्नी शकुनग्रन्थि बद्ध्वा पूर्ववत् पुण्यानि कुधेती काले भव्यवेलायां सकललक्षणं पुत्रं प्रसूता । अपुत्रस्य पुत्रोत्पत्तिः प्रमोदहेतुविशेषतो महाराजस्य, इत्यनेके महोत्सवा जाता। सूतकशुद्धेरनु स्वप्नानुसारेण 'कामदेव" इति नाम मातापितृभ्यां दत्तम् ।
स च शुक्लपक्षे शशीव नन्दनवने कल्पद्रुम इव प्रतिदिन प्रवर्द्धमानः, कमलेषु राजहंस इवानेकक्षितिपालोत्संगेषु क्रीडमानः, कस्य नाम मुदं नाकार्षीत् । यावता पञ्चवर्षातिक्रमे कामदेवं नरदेवः सोत्सव
लेखशालायां मुमोच । तावता विपक्षपक्षपीडयमानान् निजदेशान् ज्ञात्वा भभावादनपूर्व सन्नह्य सारसैन्यः M स्वयं देशरक्षार्थमघालीत् । कुमारश्च पण्डितेन यथोचितताडनया भाण्यमानोऽपि पूर्वकृतकर्मवशादक्षरमात्र
मपि न बुबोध । एवं षोडशवर्षाणि व्यतिक्रान्तानि । अथ राजा वैरिणो विद्राव्य देशस्वास्थ्यमुत्पाद्य परराष्ट्रेष्वपि निजामाज्ञा संस्थाप्य जितकाशी निजपुरमागात् ।
कुमारोऽपि पश्चपताकातोरणादिना नगरमलंकार्य संमुख गत्वा भूतलमिलभालो भूपालं ननाम ।
AAS
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52