Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामपमादे शास्त्रसंवादे. विधीयमानेषु कारणिकै राज्यसारेषु व्यवहारेषु, सत्याप्यमानासु नियोगिभिलेखका दिचिन्तासु समानीतस्तत्र बालहारैरुदारसारशृङ्गारः श्रीराजहंसः कुमारः।तं च पश्चवार्षिक मरालवालमिव
सकलभूपालोत्सङ्गकमलेषु संचरन्त निरीक्ष्य महामोहोन्नुह्यमाने मानसे चिन्तितवान्महीपतिः श्रीकामदेव:& "अहो । कोऽयम्, कस्य सुतः, को वेत्ति, कुतः समेतः, क्व यास्यति ततः कोऽनेन सम्बन्धः। केवलं वृथैवासी * सर्वस्नेहसम्यन्धः____एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे १॥ किश्च
एगो मे सासओ अप्या नाणदंसणसंजुओ। सेसा मे याहिरा भावा सम्वे संजोगलक्खणा ॥१॥
संजोगमूला जीवेण पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्यं भावेण वोसिरे ॥ २ ॥ इत्योधेकत्वभावनां भावयन् भूमीपतिः क्षपकश्रेणीमारूढः क्षीणेषु चतुष्वपि कर्मसु केवलज्ञानमवाप । ततो "जयतु समुत्पन्नकेवलज्ञानश्रीकामदेवराजर्षिः" इत्याकाशवाणीमुच्चरन्त्या शासनदेवतया दत्तो वेषः श्रीकामदेवमहामुनिः केवलानन्दमहोत्सवान्तरमहो किमेतदिति साश्चर्यै राजसहस्रैरनुगम्यमानो महीमण्डले चिरं विहत्यानेकलोकान्मतिबोध्य महोदयपदं भेजे।
भRESOUS55
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52