Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
Catalog link: https://jainqq.org/explore/020434/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww ॥ श्री हेमचन्द्राचार्यग्रन्थावली नं १८ ॥ ___ श्रीमदाचार्य श्रीमेरुतुंगसूरिविरचिता श्रुतज्ञानाराधनविराधनफलप्रदर्शिका कामदेवनपतिकथा श्रीपट्टनस्थफोफलीयापाटकवास्तव्य- शाह बापुलाल मूलचन्द द्रव्यसहायेनपट्टनस्यश्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी " शाह जगजीवन उत्तमचन्द शाह लहेरुभाइ भोगीलालभ्या" प्रकाशिता श्रावकपण्डित वीरचन्द्र-प्रभुदासाभ्यां च संशोधिता 6666666666666666666660 श्री अहमदाबाद घीकांटाबाडो अन्तर्गत जैन एडवोकेट मुद्रणालये “ शा वाडीलाल बापुलाल " इत्यनेन मुद्रिता विक्रम सं १९८४ वीर सं २४५४ सन १९२८ WW पाटण मूल्यम .-६-. प्रतयः ३०० MI WOWWorymshimship smsfy to timoto sim to flm simamimmissiwww xiswwwwwwwwwwwwwwwww For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || ओं अर्हम् ॥ ॥ श्रीमदाचार्य श्रीमेरुतुङ्गसूरिविरचिता श्रुतज्ञानाराधनविराधनफलप्रदर्शिका कामदेव नृपति कथा ॥ जयति का तिपूर्तिसुरद्रुमः, सुरनरोरगनाथनतक्रमः । कुशलपद्मविकाशदिनेश्वरः सुमतिपारगतः परमेश्वरः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir इह किल सकलसामग्रीसंपूर्ण मानुषं भवमवाप्य भुक्तिमुक्तिसुख सिद्धये पुण्यमेव विधेयम् । पुण्यं च ज्ञानात्, ज्ञानं च गुरूपदेशात्, गुरूपदेशश्च शास्त्रात्, शास्त्रस्य च पुस्तकाधारः । अतः सर्वक्षेत्रे पुस्तक मेव प्रधानं पुण्यक्षेत्रम् | यदुक्तम्- सर्वक्षेत्रेषु पुण्यस्य पुस्तकक्षेत्रमुत्तमम् । यदन्यसर्वपुण्यानां जायतेऽस्माद्व्यवस्थितिः ॥ १ ॥ किञ्च पञ्चानामपि ज्ञानानां मध्ये श्रुतज्ञानमेव देव-दानव-मानवप्रतिबोधकारित्वान्मुरव्यम्, तच पुस्तकगजाधिरूढमेव राजलीलामनुभवज्जगति विजयते । उक्तं च 1 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 195 कामदेव नृपति ॥१॥ SIN- कथा “जाता पञ्च मतिश्रुतावधिमनःकैवल्यपुत्राः प्रभोः, तन्मध्ये श्रुतनन्दनो भगवता संस्थापितः स्वे पदे। अङ्गोपाङ्गयुतश्च पुस्तकगजाध्यारोहलब्धोदयः, सिद्धान्ताभिधभूपतिर्गणधरामात्यश्चिरं नन्दतात् ॥१॥" अतो ज्ञानस्य पुस्तकस्य च यथाशक्ति भक्तिः कार्या । यथाऽमुत्र परत्र च सर्वसौख्यसंपत्तिः स्यात् । सकलकलाश्च विलसन्ति । यश्च ज्ञानपुस्तकयोराशातनां करोति,स निबिडज्ञानावरणीयकर्म बद्ध्वाऽनेकदुःखवि भागी महामूर्खश्च जायते, यथा कामदेवः । यदि च पश्चादपि ज्ञान पुस्तकयोभक्तिं करोति, तदा सुखी भोगी विद्वांश्च भवति, यथा स एव कामदेवः पश्चात्प्रौढराज्य-प्रताप-विद्या-कला-पात्रं जातः । तथा यदि कोऽपिजीवो जन्मतोऽपि यावजीवं सर्वप्रकारानमाराधयति, तदा सर्वदेव स सर्वसौख्यपात्रं स्यात् महाप्राज्ञहूँ श्च, यथा कामदेवस्यैव भार्याऽभङ्गुरभाग्या सौभाग्यमञ्जरी । तथाहि अत्रैव जम्बूद्वीपे भरतक्षेत्रे श्रीपञ्चमतीर्थकरश्रीसुमतिनाथवारकेऽयोध्या नाम नगरी वर्तते । पूर्व प्रभुश्रीऋषभस्य राज्य-प्राज्यप्रतिष्ठासमये निरीक्ष्य । विनीतलोकान् भरते विनीते-त्यारव्यां पुरी स्थापितवान् हरिर्याम् ॥१॥ असंख्यकालेऽतिगते विपक्ष-लक्षरयोध्यस्फुटवीरकोटेः। निवासभावादथ साप्ययोध्ये-त्याख्या क्षितौ लक्षणया प्रपेदे ॥१॥ तस्यामयोध्यानगर्या वर्या शुजालदेदीप्यमानभालः प्रबलपराक्रमाकान्तभूपाला प्रत्यर्थिसार्थिकालः BAPESHABC RECOR For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir समुज्ज्वलाशेषगुणविशाल: श्रीसूरदेवनामा महीपालः प्राज्यं साम्राज्यं भुङ्क्ते। यस्य प्रतापतपनः स्फुटभासुरश्रीः, संपूर्णमण्डलयशःशशभृच्च सौम्यः । द्वौ संगताविह तिरस्कुरुतस्तमांसि, नित्यं जगत्सु किल कस्य न चित्रमेतत् ॥१॥ तस्य च कान्ता सहजनिर्मलस्वान्ता पापमार्गचलनं प्रति परिश्रान्ता शीतलशीलच्छायातरुतलविश्रा. न्ता पट्टदेवी सूरकान्ता । सा च भत्तः प्रसादेन सकलसंसारसुखानि भुञ्जानापि पूर्वकृतकर्मवशादपत्यसुखं न पाप । अन्यदा मनोमुदा क्रीडा) निजावासद्वारिकयाऽशोकवनिकामध्यं गत्वा अशोक-पुनाग-नाग-प्रिया-पाटला-सहकारसारवृक्षलक्ष्मी विलोकमाना प्रौढप्रासादमध्ये कामदेवप्रतिमां प्रणम्य गवाक्षे शीतला. निलपानायोपविष्टा। अथ दृष्टाऽनया गवाक्षविवरेण विलोकमानया तरतले निजबालकान् खेलयन्ती कुक्कुटी । तद्यथाचरणग्गेणं भूमि विलिहन्ती बालए पलोयंती । पक्खेहिं च्छायंती पिट्ठीए पुणोवि रोवंती॥१॥ मुहमज्झे निययमुहं पक्खिविय पुणो पुणो चुणिं दिती । कुकुकुरवं कुव्वती कीलंती कुक्कुडी दिहा॥२॥ ___ अथ राज्ञी निजबालैः क्रीडन्तीं कुक्कुटीं दृष्ट्वाऽनपत्यतादुःखं स्मृत्वा महादुःखार्ता मनस्येवं चि-3 न्तयामास । धन्याऽसौ तिरश्च्यपि कुक्कुटी, या सदा निजापत्य क्रीडासुखमनुभवति । यतः ते धन्ना जाण घरगणम्मि दीसंति धूलिधवलाई । उठेंत पडत रडत चेव दोतिन्नि डिभाई ॥१॥ CAREERSAAS GIRCRACK For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कामदेव ॥२॥ नृपति कथा. BIRBALHASHA AMREKADASTRAMROHIB अथवा-यत्र नास्ति गुणगौरवपूजा, यत्र न स्वजनसङ्गतिरुच्चैः। यत्र नो लघुलधूनि शिशूनि, हन्त तान्यपि गृहाणि गृहाणि ॥२॥ किश्च-अपुत्रस्य गृहं शून्य, दिशः शून्या ह्यबान्धवाः। मूर्खस्य हृदयं शून्यं, सर्वशून्य दरिद्रता ॥३॥ तोयं विना तटाकः, सुरेन्द्र विना नाकः, न्यायं विना भूमान, दानं विना श्रीमान्, विनयं विना शिष्यः, पत्र-पुष्प-फलानि विना वृक्षः, प्रज्ञां विना छात्रः, जीवं विना गात्रम्, घ्राणं विना यथा न शोभते वदनं, तथा पुत्रं विना सदनम् । अतः सर्वथा मन्दभाग्याऽहम्, याऽनेकभूपालप्रणतपादारविन्दमहानरेश्वरप्रसादपात्रमपि भूत्वा चिन्तितमात्रोपस्थितसकलवस्तूनि लभमानाऽपि मनागपि नापत्यसुखं प्राप्नोमि । ततः किं कार्य प्राज्येन राज्येन, किं कार्यमनेकसारनिवेशेन महादेशेन, किं कार्य मनोहारेण नगरेण, किं कार्य सवसुन्दरस्वरूपेण रूपेण, किं कार्य कल्पद्रुमानुवादेन महाराजप्रसादेन, किं कार्यमुदारैः शृङ्गारैः, किं कार्यमनु कूलैः दुकुलैः, किं कार्य सर्वरागमूलैस्ताम्बूलैः, कि कार्यमपरैरपि स्फाररलंकारः, किं कार्य स्नेहगेहेन देहेन. हा कि कार्य भव्येनापि जीवितव्येन, सर्वथा न शक्नोमि क्वापि स्थातुम्, पक्ववालुकमिव स्फुटति मे हृदयं है महादःखेन, किं करोमि, क्व गच्छामि, कस्याग्रे कथयामि । हा मातः! किमहं जाता हा पितः! पालिताऽस्मि किम् । हा भर्तः ! परिणीता किं यदेव दुःखिताऽभवम् ॥१॥ झोली ध्रुटी कि न मूह किन हुअ छारह पुंज । न सहत जिम हूं एवंडी दूष दवामल गुंज ॥२॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org -3GRA LAKER इत्यादिमहाशोकसंकुलचिता चिन्ताकल्लोललोलितजीविता महाऽऽत्तध्यानपतिता भूमिकानिवेशितदृष्टिः करतलन्यस्तमुखी पादाङ्गष्ठेन पृथिवीं खनन्ती दी?ष्णनिःश्वासरोष्ठसंपुट धमन्ती स्थूलस्थूलाश्रुधाराभिभू तलं सिञ्चन्ती यावता सूरकान्ता राज्ञी महादुःखमनुभवति, तावता तस्याः परिवारमुखेन तत्पट्टमहादेवीदुःख : ६ विज्ञाय विच्छायवदनः समुत्सुकमनाः सूरदेवो राजा झटिति सिंहासनं मुक्तवा त्वरितत्वरितपदैस्तत्र समागतो दुःखपूरपूरितचित्तामधोमुखी देवी निरीक्ष्य करे धृत्वा पुरः स्थित्वा हा देवि ! कस्मादकस्मादसावेतावान् शोकः क्रियमाणोऽस्ति इत्यवादीत् । राज्ञी च महादुःखचिन्तासंकुचितलोचने सहसोन्मील्य पुरःस्थितं प्राणप्रियं विलोक्य हा ? पादावधा. रितः पृथ्वीपतिरपि न ज्ञातः शून्यतया, न च कुलस्त्रीसमुचितोऽभ्युत्थानादिविनयः सत्यापितः, इति दग्धो परि स्फोटकतुल्यं दुःखोपरि दुःख बिभ्रती सहसाभ्युत्थाय प्राणप्रियपादयोलॊचने दत्वा सूर्यास्ते कमलिनीवर मुकुलितमुखी पूर्ववदेवास्तोकशोकक्लेशमनुभवन्ती योजिताञ्जलिः पुरतः पाञ्चालिकेव निश्चलाऽतिष्ठत् । ___अथ राजा निजवस्त्राञ्चलेन राज्ञीनेत्रे प्रमाय स्नेहसारया सुधामधुरया वाचा प्रोवाच-“देवि ! कोऽयमाक- | स्मिकः शोकः, न पश्यामि खलु मनागपि शोकहेतुम् । यतस्तव पितुहे कुशलिनी मातापितरौ, विजयिनो बान्धवाः, सुखवान् सकलस्वजनलोकः । अत्रापि मयि सुप्रसन्ने को नाम किङ्कर इव तवादेश नो कुरुते, को नाम मनसाऽपि त्वयि वैरूप्यं चिन्तयति, के नाम मनोरथास्तव न पूर्यन्ते। एवं सति वद देवि ! किं ते दुखम् ? %C15454 49-65. For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कामदेव ॥ ३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवं बाष्पतदर्पण इव दृश्यते विच्छायवदनम्, जलक्लिन्नवस्त्रादिव गलन्ति नेत्रद्वयादविन्दवः, दवानलालिष्टकाष्ठमिव दह्यते हृदयम्, ग्रीष्मातपतप्तवालुका इव जाज्वल्यन्तेऽङ्गानि निद्रां गतस्येव धत्ते शून्यतां मनः, तदाशु मुञ्च मौनम्, ब्रूहि शोककारणम् ।" इत्येवं महाग्रहपूर्वकं पुनः पुनः पृच्छति पृथ्वीनाथे निःश्वस्य गद्गदस्वरं कथमप्युवाच देवी- " हा निष्पुत्राऽहं मन्दभाग्या " इति । तच्च श्रुत्वा निर्मलदर्पणतले पुरःस्थपदावत् तत्कालं हृदये संक्रान्त सकल दुःख श्रीसूरदेवः सुचिरं विमृश्य स्नेहलया दृशा दुग्धधारयेव सिञ्चनुवाच " देवि ! प्राणप्रिये ! अहमपि जाने आत्मीये महाशल्यमेतत् । यतः- कुलदीपकमेकं नन्दनं विना मूलतोstच्छद्यन्ते सर्वे धर्मकर्ममार्गाः । प्रलीयन्ते वर्धमानोत्तरोत्तरमनोरथाः । नश्यन्ति पूर्वजपुण्यप्रबन्धाः । परं किं क्रियते ? न कोपि प्रतिमल्लः कर्मणाम् । यदुक्तम् द्यावद्याशयेन कृतं कर्म शुभाशुभम् । तत्तानन्त्तादृशं कर्म फलत्येव न संशयः ॥ १ ॥ किचउदयति यदि भानुः पश्चिमायां कदाचित् प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां । न च भवति हि मिथ्या भाविनी कर्मरेखा ॥ २ ॥ अपिच, यद्भाव्यं तद्भवत्येव, नाभाव्यं तु भवेत्क्वचित् । वल्मिकादिन्द्रचापः स्यान्न तु रत्नाकरादपि ॥ ३ ॥ ततो देवि ! मा रोदी:, धीरा भव, मनःप्रसत्तिं भज, सर्व भव्यं भावि, " । इति राज्ञोवचनं श्रुत्वा किंचित्सा रोषेव जगाद देवी - " नाथ ! मैवमुदासीनं वचोऽवोचः । नहि विचक्षणेन भवितव्यैकचित्तेन भाव्यम् । किन्तु कार्य For Private and Personal Use Only नृपति कथा ॥ ३ Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra छ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धि वाञ्छता यथोचितोपक्रमः कार्यः । उक्तं च उपक्रमादेव हि कार्यसिद्धिरुपक्रमादेव कुटुम्बवृद्धिः । उपक्रमादेव हि कष्टभङ्ग उपक्रमादेव हितार्थसङ्गः ॥ १ ॥ ततो महाराज ! नैमित्तकान् पृच्छ, तीर्थानि गच्छ, दानानि यच्छ, तपांसि तप्यस्व, मन्त्रान् जञ्जयस्व, कुलदेवतामाराधय, विद्याः साधय, यथा विलीयन्तेऽन्तरायाः, क्षीयन्ते दुष्टकृता माया, उज्झम्भन्ते कल्याणकथाः, सिध्यन्ति सर्वे मनोरथाः । इति श्रुत्वा जगाद राजा "देवि ! युक्तमुक्तम्, तथोपक्रमो करिष्यते सर्वमनोरथसिद्धिर्भविष्यति” इत्येवं वदति भूपालेऽना हतगम्भीरदुन्दुभिध्वनिरारामदेशोपरि बभूव । तं च श्रुत्वातीव हृष्टमना महीपतिः नूनमस्मादाकस्मिकशकुनादस्मन्मनोरथसिद्धिर्भविष्यति । इति चिन्तयन् यावदूर्ध्वमालोकयति, तावत्पश्यत्युदञ्चन्मरीचिवीचिभिर्गगनतलमापूरयन्ति चलत्पताकाभिः प्रनृत्यन्ति बाह्यारामं प्रत्यवतरन्ति देवविमानानि । “किमेतद्” इति विचारयन्नरेशः शीघ्रमेव सभामागत्य यावन्निविष्टस्तावदारामपालकः प्रणम्य विज्ञप्तवान् - " हे देव ! केवलज्ञानी कोऽपि मुनीश्वरः संप्रति तव पुरारामभूमौ समवसृत्य देवतानिर्मितकनककमलमलञ्चकार । विमानाधिरूढः सुरसमूहोऽवततार ” । राजापि तस्य पारितोषिकदानं दत्त्वाऽहो दिष्टया केवलिनं नत्वा " निष्पापाः निःसंदेहाः सिद्धसाध्याश्च भवामः " इति सानन्दं वदन् सान्तःपुरपरीवारो महत्या ऋद्ध्या वनमध्ये गत्वा, विधिना केवलिनं नुत्वा नत्वा च यथोचिक्षितिपीठे निविष्टवान् । ततः केवली सुधामुचा वाचा धर्मदेशनां प्रारेभे For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नृपति कथा कामदेव सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरंपरा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥१॥ तथा--यहोर्भाग्यमनाथता विकलता नीचे कुले जन्मता दारिद्रयं स्वजनाच्च यत्परिभवो दौस्थ्यं परप्रेष्यता। पुत्राप्राप्तिरनिवृत्तिः कुशयनं कुस्त्री कुभुक्तं रुजः सर्व पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥२॥ इत्यादि । ततश्चैतां देशनां श्रुत्वा महीपालो मुनीश्वरं नत्वाऽमाक्षीत्-" भगवन् ! केन कर्मणा मम देव्याश्वानपत्यता दुःखम् ।" केवली प्रोवाच--" राजन् ! अत्रैव दीपेऽत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको ४ विक्रमदेवी भार्या, तयोरपत्यानि प्रातिवेश्मिकब्राह्मणबालैः सह क्रीडन्ति । अन्यदा निष्पन्न कृषिकर्मयो क्षणाय तौ क्षेत्रं गतौ। निजबालैः सह विप्रवालान् फलिकाचिर्भटादि भक्षयतो दृष्ट्वा महाकोपादूचतु:-- * रे रे ! दुराचाराः केनाकारिता भवन्तः, सर्वमपि क्षेत्रं भक्षितम्, यत्क्रियते युष्माकं तत्सर्वमपि स्तोकम्, 5 परं किं क्रियते ? प्रातिवेश्मिकत्वदाक्षिण्यं महत्, रक्षकस्यापि प्रतिवेश्मिकापत्यानि भवन्ति, इति॥" पु नः पुनर्भणनात्सन्तानान्तरायकर्म बद्धम् । अज्ञानभावान्न पश्चातापः कृतो न चालोचितम् । ततो गृहं गताभ्यां ताभ्यां कदाचिन्मासोपवासिमुनेतसिना संयुतं पायसं भावभक्त्या दत्वा भोगफलं कर्मोपार्जितम् । तेनेदं युवाभ्यां राज्यं प्राप्तम्, सन्तानान्तरायकर्मणा चानपत्यतादुःखमिति ।" केवलिवचसा निजं पूर्वभवं ४ श्रुत्वा राजा राज्ञी चाहो अज्ञानभावात्कथं जीवा लीलयैव कर्मबन्धं कृत्वाऽऽत्मानं क्लेशसागरे पातयन्ति ।धिग् MARRIA BALASHUGUS यक्रियते भवन्ति, इतिता For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir STARRIERSEASEX धिग आवाभ्याम्, कीवर दुष्टु भाषितम् । नातः परं मनसापिकस्याप्युपरि विरूपं चिन्तयिष्याव: । प्रभो ! प्रसाद कुरु, प्रायश्चित्तं देहि, अस्मान्महापापानिस्तारय, इति पुनःपुनर्वदन्ती मनाशुद्धयाऽऽत्मानं निन्दन्ती टू केवलिनं प्रणेमतुः। केवल्यप्यवोचत् मुखेन बध्यते कर्म, तद्विपाकस्तु दुस्तरः। हसन्ती गर्भमादत्ते. रुदन्ती तं विमुञ्चति ॥१॥ न किश्च-स्पृष्ट-बद्ध-निद्धत्त-निकाचितभेदाच्चतुर्विधमिदं कर्म तत्र यथा सूचिकापुञ्जः पृथिव्यां मुक्तार परस्परं स्पृष्टस्तावदेव पिण्डितस्तिष्ठति, यावत्कस्य करः क्रमो वा न लगति, तस्मिन् पुनर्लग्ने विशरारुभावं भजते । एवं यत्कर्म सोपयोगस्यापि सहसाकारेण लग्नमालोचनामात्रेणापि निलीयते तत्स्पृष्टमुच्यते । स एव शुचीराशिर्दवरकबद्धः करांहिस्पर्शेऽपि न पृथग्भावं याति, किन्तु बन्धे छोटिते सति । एवं कथादिप्रमादाजातप्राणातिपातादिदोषैनिंबई यत्कर्मालोचनाप्रतिक्रमणाभ्यां क्षीयते तद् बद्धमुच्यते । स एव शूचीसमुदायो बन्धबद्धो यथा यथा चिरं तिष्ठति तथा तथा तासां काडून मिथो बद्ध इव जातो बन्धे छोटितेऽपि नहि पार्थक्यं प्राप्नोति, किन्तु तैलम्रक्षणाग्नितापलोष्टघर्षणादिबहूपक्रमेण । एवं गत् कर्म धावन वल्गनादिदर्पणो. पेत्य करणरूपाकुहिकया वोपार्जितं चिरमनालोचितत्वाज्जीवप्रदेशः सह गाढं निबद्ध तीव्रपकात्तापनिन्दागुरुदत्तघोरषाण्मासादिकादितपसा प्रलीयते तनिधत्तमभिधीयते । तथा स एव सूचीकलापोऽग्निमातो लोहघनकुहितो लोहमयपिण्डभावं प्रासो बहुनाऽप्युपक्रमेण पृथक्त्वं नैव याति, किन्तु यथा लोहपिण्डः कृतस्त For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कामदेव ( ॥ ५ ॥ द www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir था चेद् भक्तवां भक्त्वा नवीना घटयन्ते तदा ताः पृथक् पृथक् सूचयः स्युः, एवं यत्कर्म जानता जीवेनाकुकिया कृतं महादुष्टभावेन च भव्यमेतच्चक्रे पुनरपीत्थमेव विधास्यामि, इति पुनः पुनः सन्ततमनुमोदितं मनागप्यनालोचितत्वाज्जीवप्रदेशैः सह गाढैकत्वं प्राप्तम्, तच्च यथा कृनं तथैव चेदनेन घोरतपसा वा क्षीयते नान्यथा, इत्येतन्निकाचितं कथ्यते । भवद्भ्यां च पूर्वभवे " रक्षकस्यापि प्रातिवेश्मिकापत्यानि भवन्ति " इति दुष्टपापवाक्यानां पुनः पुननात्तदनु कदाचिदनालोचितत्वान्निकाचितप्रायमपत्यान्तरायं कर्म बद्धम् । एतच्च बहुतरमेतावत्कालं स्वयमनुभवनादधुना च निन्दागदिपूर्वमालोचनात्कियन्मात्रं क्षीणं शेषं च दशविधप्रायश्चित्तान्तर्गतषष्ठभेदविशिष्टतपोरूपप्रायश्चित्तेन क्षयं यास्यति । तपः प्रायश्चितं च श्रीआदिदेववारके उत्कृष्टं द्वादशमासिकम्, मध्यमद्वाविंशतितीर्थकरवारकेऽष्टमासिकम्, अपश्चिमजिनश्रीवीरवारके षाण्मासिकम् । " तवसा निकाइI या विकम्माण खओ हवइ नियमा " इति हि सर्वज्ञकेवलिवचः । अनुज्ञातं चेदं तपः कर्मनिर्जरार्थम् । "नो इह लोग पाए तब हिद्विज्जा, नो परलोगट्ट्याए तब महिद्विज्जा, नो कित्तिवन्नसहसिलो गट्टयाए तवमहिद्विज्जा, तन्नन्थ निजयाए तब महिङिज्जा । " ततोऽवशिष्टदुष्टान्तरायकर्मनिर्जरार्थमष्टोत्तरशताचाम्लरूपं तपः प्रायश्वितं युवयोर्वदते । तच्च सम्यत्तत्वमूलद्वादशश्राव्रतधारिणामतीव सफलं स्यात, इति सर्वं सम्य तत्वस्वरूपं द्वादशव्रतविचारं भगवान् व्याख्यातवान् । For Private and Personal Use Only नृपति कथा ॥५॥ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir SAARCBIRHABAR अथ च पृथिवीपतिः सपत्नीकोऽपि महता संवेगरङ्गेण पूर्वभवाचीर्ण स्वकीयदुश्चरितं सर्व सम्यगालोच्या तादृशेभ्यः पापेभ्योऽपुनःकरणेन निज मनः संकोच्य केवलिप्रोक्तं प्रायश्चित्तं प्रतिपद्य सद्यः सम्यत्तवालङ्कृतं श्रावकधर्म स्वीकृत्य महाभक्त्या भगवन्तं नमस्कृत्य यावत्पुरं प्रति प्रचलति, तावत्पुरः प्रादुर्भूतः प्रभूतभूषणभरभासूरः कोऽपि सूरः। सच व्यस्य ! पश्य पश्य कीदृशः श्रीपञ्चपरमेष्टिमहामंत्रस्य प्रभावः, कस्य नाम नाश्चर्य कुरुते विविध मे चरित्रम्, तदागच्छ स्वच्छमते ! भगवन्तमेव पृच्छ, अनपत्यतादुःखस्य जलाञ्जलिं यच्छ। भास्वति सन्धिकारतिरस्कारं कुर्वति कोऽर्थः प्रदीपेन, इति भूपति बाहौ धृत्वा श्रीकेवलिनः प्रदक्षिणात्रयं दवा भूतलमिलभालं भत्तया भगवन्तं प्रणम्य सम्यग् योजिताअलिप्रपच्छ निजपूर्वभवोदन्तम् । केवली पाह"अत्रैव जम्बूद्वीपे भरतक्षेत्रेऽयोध्यायां प्रथमतीर्थकरश्रीऋषभपुत्रः श्रीभरतश्चक्रवर्ती बभूव । स चान्यदा श्राद्धानाकार्याचप्रभृति मदावासे भोज्यं नित्यम्, धर्मध्यानं कार्यम् । “जितो भवान्, वर्द्धते भयं, तस्मान्माहन, मा हन इत्यादि ममादर्श रूपं पश्यतोऽग्रे पठनीयम्" इत्यादिशत् । तेषु च तथा कुर्वत्सु प्रत्यहं भो. तारो वर्द्धन्ते. ततस्तेषां संख्या न लभ्यते, अतो वयं किं कुर्म इति सूपकारैविज्ञप्तः सम्यग्धर्म परीक्षां कृत्वा शुद्धश्राद्धानां हृदये काकिणीरत्नेन रेखात्रयं चक्री चक्रे । तत्पठनार्थमार्यवेदान् विधाय षट्क्षण्मासातिक८ मेषु परीक्षा चाकरोत् । भरतेऽथ मोक्ष प्राप्ते तस्याष्टसंतानिभिरादित्ययशोमुख्यैर्भरताई भुक्तम् । ते श्रा SUHABAR For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir नृपति ४ द्धाश्च तथैव भोजिताः ततोऽपरैरपि तदंश्यैः श्रीअजितनाथं यावत् श्राद्धा गौरविताःते च मा हन मा हन कामदेवल इति पाठात्काले ब्राह्मणा इति आख्याताः। तेषां वंशेऽसंख्ये काले गते तव पूर्वभवे तव प्राप्तिवैश्मिकः ॥६॥ सोमशर्मवाश्मणोऽभूत् । यस्य वाला क्षेत्रे भवद्भ्यां पूर्वभवे शप्ताः । स च विप्रः क्रियावानपि कुसंसगों न्मांसलुब्धः स्वभार्या प्रोचे-" नित्यं मत्कृते मांसं प्रक्तव्यम् ।" सा च तथा करोति । अन्यदा रात्री संस्कृतमयूरमांसे मार्जारभक्षितेऽन्यमांसालाभेनाथवालं मृतं संस्कृत्य ददौ। विप्रश्चापूर्वस्वादात्तज्ज्ञात्वा महामांसलुब्धः प्रत्यहं बालं घ्नन् राज्ञा निर्वासितोऽरण्ये पलादो जातः । एकदा पथि गच्छतः साधून हन्तुं धावितः । साधुभिश्च परमेष्ठिपाठात् स्तम्भितः प्रबोधितो नमस्कारं पाठितच, हिंसा मुत्तवा गिरिगुहायां | स्थितो लोकात्वा हतः परमेष्ठिमंत्रध्यानात्स्वर्ग च गतः, सोऽयम् । ममैषा कुतो देवद्धिरिति ज्ञानोपयोगानमस्कारफलं ज्ञात्वाऽत्रास्मान्नन्तुमागतः । त्वां प्राग्भवमित्रं निरीक्ष्य नमस्कारमाहात्म्यज्ञापनार्थ स्वपूर्वभवमस्मानप्राक्षीत् । अथ श्रीसूरदेवो राजा केवलिमुखादिति श्रुत्वा चमत्कृतचित्तोऽचिन्तयत्-"अहो श्रीनमस्कारस्य महिमा, यद् ध्यानादेवंविधो बालहत्याकारकोऽपि स्वर्ग गतः । तदेतदेव ध्यायते ।" इति विचिन्त्य नमस्कारस्य स्वरूप-फल-जापविधीन् प्रपच्छ केवली प्राह रागबोसकसाए इदियाणि य पचवि । परीसहे उवसग्गे नामयंता नमोऽरिहा ॥ ARSAAHE AWARUPECTOBAE%E For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादि नमस्कारस्वरूपम् । तथा-इह लोइ अस्थकामा आरुग्ग अभिरई अनिष्फत्ती । सिद्धी असरण सुकुलप्पञ्चायाई अपरलोए॥ इत्यादि फलं चोत्तवा जापविधि स्माह-“यः किल पुमान् पवित्रदेहवस्त्रास्त्रिसन्ध्यं विधिना जिनं पूजयित्वा तदने.सुखासननिविष्ठः सुश्लिष्टौष्ठपुटो नासाग्रन्यस्तदृष्टिदन्तरस्पृष्टदन्तः प्रसन्नवदनोऽप्रमत्तः स्थिरचित्तस्त्रिशुद्धिपालितशीलो विशिष्टतपोनिष्ठोऽखण्डोज्वलपालकस्ताक्षतस्त्रिाकृत्वाष्टोत्तरशतं नमस्कारान् | जपति, स आस्ता स्वर्गादि सम्पद्, परिणामनर्मल्यवशात्तीर्थकृदगोत्रमप्युपार्जयति । यथानया नियन्त्रण या स्मर्तु न शक्नोति सोऽपि यथासंपनयुक्त्या लक्षजापं कृत्वा यदि लक्षाक्षतान् देवस्य ढोकयति तदा Pनिर्मलसम्यग्दृष्टित्वं लभते । घोरपापकर्मापि यः पापनिवृत्तः कोटिजापादनु कोटितन्दुलान् ढोकयति, सो. 18 ऽपि सर्वपापनिमुक्तः सप्ताष्दभवान्तः सिध्यति, परं मनःस्थैर्यानुसारेण सर्वत्र फलमिति । तदुपायो भण्य ते-इह जापत्रिधा पूर्वानुपूा पश्चानुपूर्त्या अनानुपूल च । तत्र यथोक्तपदाना क्रमात्पाठः पूर्वानुपूर्वी । अनया च जापो मनास्थैर्यार्थ कमलबन्धेन कार्यः । स चैवम् नाभिदेशोद्भवन्नाले ब्रह्मरन्द्र प्रतिष्ठिते । ध्यातमष्टदले पद्मे तत्वमेतत्फलप्रदम् ॥१॥ तत्राद्यपदोचारे पद्मस्य कर्णिकायामष्टप्रातिहायों पेताः श्वेतवर्णा अर्हन्तो ध्येयाः। द्वितीयपदोच्चारे ललाटोपरिस्थदले सिद्धासनोपविष्टा रक्तवर्णाः सिद्धाः तृतीयपदोच्चारे दक्षिणकोपरिस्थदले प्रवचनमुद्रया AAAAECREASE NUMॐAASH For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir SUSA सूरिमंत्रं स्मरन्तः सुवर्णवर्णा सूरयः । चतुर्थपदोच्चारे ग्रीवोपरिस्थपश्चिमदले शिष्यानागमं पाठयन्तो नीलव-P. मदेवार उपाध्यायाः । पञ्चमपदोच्चारे वामकर्णोपरिस्थदले कायोत्सर्गस्थाः श्यामवर्णाः साधवः । पदि वा पश्चापि नृपति कथा परमेष्ठिनः प्रोक्तपद्मस्थानेषु स्फटिकवर्णा ध्याताः सर्वकर्मक्षयाय सर्वव्याधिक्षयाय भवन्ति । इति केलिव4: श्रत्वा राजा विधिना नमस्कारलक्षजापं विधास्यानि,इति निश्चित्य केवलिनं नमस्कृत्य "साधु त्वया कृतं सदहं परमेष्ठितवं जापिता, प्रत्युपकारकोटीभिरपि तथानृणो न भवामि" इति प्रीतिगिरा मित्रदेवं विसज्य & पुरान्तः समेत्य देशान्तरमायुद्घोषणा कारयित्वा स्वरथचित्तीभूय सपत्नीकः परमेष्ठिमन्त्रस्य यथोक्तविधिना लक्षजापं प्रारेभे । स चैवम् प्रातः स्तोकजलस्नानः शुचिश्वेताव्यङ्गवासाः कृताचाम्लतपाः श्रीसर्वज्ञं पूजयित्वाऽखण्डशीलोऽखण्डाक्षतेश्चतुर्विशत्यधिकं शतनयं जपति, इत्थं मध्याह्ने सन्ध्यायां च । एवं चाष्टोत्तरशताचाम्लैः साधिके लक्षजापे पूर्ण क्षीणमशेषमन्तरायकर्म । ततः पारणकदिने सर्वजिनचैत्येषु महापूजां कारयित्वा, दीनादीनामचिन्तदानं दत्वा, सारस्निग्धाशनेर्धार्मिकान् भोजयित्वा, साधून शुद्धाहारैः प्रतिलाभ्य, सितातपायसाटिना पारणं कृत्वा, सर्वसंसारव्यवहारान् सत्याप्य, सुखं सुष्वाप। इतश्च कमिश्चित्पुण्यवति जीवे गर्भ प्राप्ते कामदेवः समेत्य प्रभाभरेण सर्वां दिशो द्योतयन्तमपि कि चिदन्तसरबिम्ब शनैः शनैः सर्वतो दीप्तमण्डलं भास्करं ममोदरे प्रतिष्ठाप्य ईदृशं पुत्रं लभस्व ।। इति For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir % वरं दवाऽश्योऽभूत् । इति सुखसुप्ता राज्ञी स्वप्नं दृष्ट्वा मधुरगिरा बोधिताय राज्ञे प्रोवाच । राजापि "भास्करभास्टरः सुतस्ते भावी पर बिम्बान्त सरताहेतुं न वेद्मि" इति जगाद । तावतो शंखध्वनिना सर्वपुरमापूर्य मङ्गलपाठकः पपाठकिश्चिद्धसरविम्बोऽपि द्युतिभिर्योत्तयन् दिशः । यः कमात्कान्तिमबिम्बो भावी सोऽको मुदे तु वः ॥१॥ ___अथ तत्स्वप्नफलं तां चोपश्रुति श्रुत्वा प्रमोदमेदुरा राजपत्नी शकुनग्रन्थि बद्ध्वा पूर्ववत् पुण्यानि कुधेती काले भव्यवेलायां सकललक्षणं पुत्रं प्रसूता । अपुत्रस्य पुत्रोत्पत्तिः प्रमोदहेतुविशेषतो महाराजस्य, इत्यनेके महोत्सवा जाता। सूतकशुद्धेरनु स्वप्नानुसारेण 'कामदेव" इति नाम मातापितृभ्यां दत्तम् । स च शुक्लपक्षे शशीव नन्दनवने कल्पद्रुम इव प्रतिदिन प्रवर्द्धमानः, कमलेषु राजहंस इवानेकक्षितिपालोत्संगेषु क्रीडमानः, कस्य नाम मुदं नाकार्षीत् । यावता पञ्चवर्षातिक्रमे कामदेवं नरदेवः सोत्सव लेखशालायां मुमोच । तावता विपक्षपक्षपीडयमानान् निजदेशान् ज्ञात्वा भभावादनपूर्व सन्नह्य सारसैन्यः M स्वयं देशरक्षार्थमघालीत् । कुमारश्च पण्डितेन यथोचितताडनया भाण्यमानोऽपि पूर्वकृतकर्मवशादक्षरमात्र मपि न बुबोध । एवं षोडशवर्षाणि व्यतिक्रान्तानि । अथ राजा वैरिणो विद्राव्य देशस्वास्थ्यमुत्पाद्य परराष्ट्रेष्वपि निजामाज्ञा संस्थाप्य जितकाशी निजपुरमागात् । कुमारोऽपि पश्चपताकातोरणादिना नगरमलंकार्य संमुख गत्वा भूतलमिलभालो भूपालं ननाम । AAS For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कामदेव राजा प्रतिपदं जायमानापूर्वापूर्वोत्सवैः पुरान्तः प्रविश्य सिंहद्वारे सिंधुरादुत्तीर्य सर्वोत्तमवेलायां सौधान्तः सिंहासनमलंकृत्योपविष्टः । प्रणामवं पुरो निविष्टं स्पष्टराजलक्षणलक्षराजमानं प्रभूतभासा भासमानं टानुपति ॥८॥ रूपनिर्जितदेवं कामदेवं सुतं वीक्ष्य " सर्वगुणसंपूर्णोऽसौ मे पुत्रो यौवनं प्राप्तः, का नाम सा कन्या धन्या कथा यस्याः पाणिग्रहणमसौ कार्यते।" इति यावच्चिन्तयति, तावत्प्रतीहारनिवेदितः कोऽपि दूतः सभामध्ये स. मेत्य भूपालं प्रणिपत्य निजागमनहेतुं प्रोवाच- "राजन् ! वाराणस्यां नगाँ सकलशत्रुसिन्धुरवित्राससिंहः श्रीवैरिसिंहः पृथिवीपालः प्रजाः पालपति । तस्य चान्तःपुरीरत्नं शीलकृतयत्नं प्रभूतगुणगुणावली । तयोः पुत्री निरुपमरूप--लावण्य-शील-कान्ति-मति-प्रज्ञाप्रमुखगुणपात्रं सौभाग्यतरुमअरी सौभाग्यमञ्जरी। सा च सकलकलाः कलथित्वा नवतत्त्वादिजिनोक्तविचारावगमाद्यदा सम्यक्तवदृढा जाता, तदा कलाचार्येण राजपाश्वमानीता,राजा च निजोत्संगे तां निवेश्य परीक्षार्थ किं किं जानात्येषेति पण्डितं पप्रच्छ ! पण्डितेनोक्तम् महाराज ! स्वयं परीक्षा करोतु । राजा-वत्से ! दत्से पृच्छोत्तरम् ? कन्या-तातस्य गुरोश्चादेशात् । राजा-प६ ण्डित ! प्रश्न विधेहि । पण्डितः-वत्से ! सावधानीभूयोत्तरं देहि । कन्या-पण्डित! यथारुचि प्रश्नय । अथ कथं प्र. नोत्तराणि भविष्यन्तीति सर्वस्मिन् सभालोके साश्चर्ये लक्षण-साहित्य-छन्दोऽलङ्कारादिविषयप्रश्नानामुत्तरेषु कल्पनया दत्तेषु पण्डितः प्रमाणविद्यापरीक्षार्थ पूर्वपक्षमकार्षीत् "वत्से ! अस्मिन्नसारे संसारे लक्ष्मीरेव सारं सर्वप्रकार्यसाधकत्वात् । तथाहि सर्वधर्मार्थकामा ववव SHAR For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नां लक्ष्मीः सिद्धिनिबन्धनम् ।न तां विना यदेकोऽपि निर्मातुं शक्यते क्वचित्॥१॥"आस्तां सर्वकार्यप्रसाधकत्वम्, अस्याः प्रसादेन सर्वे दोषा अपि गुणा एव स्युः । यदुक्तम्कोपस्तेज इति ग्रहः स्थितिरिति क्रीडेति दुश्चेष्टितं, मायित्वं व्यवहारकौशलमिति स्वच्छत्वमित्यज्ञता। दौजन्यं स्फुटवादितेति धनिनामग्रे बुधैर्यशाद्, दोषेऽपि व्यपदिश्यते गुणतया तस्यै नमोऽस्तु श्रिये ॥१॥ धननिष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनन्निस्तरन्ति धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यजयध्वं धनान्यजयध्वम् ॥२॥ बुभुक्षिाकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते । न छन्दसा केनचिदुद्धृतं कुल, हिरण्यमेवाजय निष्फलाः कलाः ॥७॥" इति पण्डितेनोक्त कोकिलावत्कलरवं कुर्वती कन्या स्माह--" पण्डितराज ! मैवं बोचः। मदुक्तमवधारय । अस्मिन्नसारे संसारे सारं भगवती सरस्वती, सर्वकार्यसाधकत्वात् । तथाहि धर्मार्थकामसिद्धीनां मुख्यबीजं सरस्वती । ज्ञानं विना यदेकोऽपि न कर्तुं शक्यते क्वचित् ॥१॥ तथा लक्ष्मीप्रसादादोषाणां यो गुणव्यपदेशः स कृत्रिमः। परं सरस्वत्याः प्रसादादोषा गुणीभवन्तीति सत्यमेव तथाहिहै कोप-कदाग्रह-दुश्चेष्टितानि दोर्जन्य-मान-लोभायाः । ज्ञानप्रसादतोऽमी दोषाः क्षणतो भवन्ति गुणाः ॥२॥ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कामदेव ॥ ९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir afroकुलीना इत्यादि यदुक्तं तदपि कृत्रिमम् । परं - ज्ञानाद्भवेत्कुलीनत्वं ज्ञानान्मुच्यते पातकात् । ज्ञानात्परं न हि श्रेष्ठं ज्ञानमर्जय तत्सखे ! ॥ ३ ॥ इदं सत्यम् । बुभुक्षितैर्व्याकरणमित्याद्यपि न सात्त्विकम् । यद्गुरुप्रसादाप्तज्ञानलेशो लीलयापि सुवर्णकोटीरुपार्जयति । ज्ञानं च विना पशुपक्षिवृक्षा हेमकोटिभिरपि किं साध्यं साधयन्ति । तथा लक्ष्मीः सुवर्णरूपापि हस्तपादावलम्बिनी । भूषयन्त्यन्तरात्मानं वर्णरूपापि भारती ॥ ४ ॥ " इति कन्योक्तं श्रुत्वा पण्डितोऽवोचत् -" राजकुमारि ! विचारय मद्रचः - वयोवृद्धास्तपोवृडा ये च वृद्धा बहुश्रुताः । सव ते धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः ? 11 "" अथ कन्या, "अवधारयन्तु भाग्यलभ्या सभ्याः ! लक्ष्मीवांस्तातः, सरस्वतीवान् पण्डितः, यदि लक्ष्मीरेव सारतया मान्या, तर्हि पण्डितः समुत्थाय राजानं प्रणमतु, नो चेत् ? सरस्वती मान्या ।" इति कन्यावाचमाकर्ण्य रा जानं कथं नमति ? इति । विद्वानपि पण्डितो विलक्षमुखोऽधो वीक्षामास ।" अहो ! कुमार्या बुद्धि:, पण्डितो - sपि कथं जितः इति सभ्यैर्घोषितेऽतीव संतुष्टो नरेशो” वत्से ! वरं वृणु घृणु इति प्रोचे । कन्याऽप्याह - " तात ! यदि संतुष्टोऽसि तदा यः कोपि कलासु मां जेष्यति स एव मां परिणेष्यति इति वरं देहि, राजाऽप्येतत्प्रतिश्रुत्यामात्येन सहालोच्य पुरोपवने भूमिशुद्धिपूर्व स्वयंवरमण्डपं समाहृतभूपस्थानार्थं सौधांश्च कारयन् सर्वत्र राज्ञां राजकुमाराणां चाकारणाय दूतान् प्रेषीत् । अहं पुनर्महाराज ! तव सपुत्रस्याह्वानार्थं प्रेषितः । For Private and Personal Use Only नृपति कथा । 118 11 Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ASUSCLOSUESIASTIGHOST अद्यतनदिनात् त्रिंशत्तमदिने स्वयंवरमुहूर्तम् । ततः पादमवधारयतु देव !"। इति दूतेन प्रोक्ते श्रीसूरदेवः कामदेवमुखमालोक्य "वत्स ! स्वयंवरं गच्छ, स्वच्छमत्या षोडशव. आंधीतकलाप्रमाणतः कन्यां परिणीय जयलक्ष्मी वृणु।" इत्यादिश्य दूतं सत्कृत्य विसृष्टवान् । अथ ताता६. देशात्कुमारः शुभेऽहि कृतप्रस्थानमङ्गलः स्वीयं जाड्यस्वरूपं रहो ज्ञापयित्वा विमलबोधमन्त्रिणं तस्य बुद्धथा बाणचन्द्र--बालसरस्वत्याख्यं पण्डितद्वयं च सहादाय प्राचालीत् । इतश्च परिवाजिकैका पर्यटन्ती सौभाग्यमार्या आशिषं दत्वा पुरो निविश्य "वत्से ! यौवनायुलंक्ष्मीणां लाभं गृह्णासि न वा?” इत्यपृच्छत् । “को लाभः?" इति कन्ययोक्ते तापसी स्माह--स्वेच्छया खादनपानादि । तथाहिपिब स्वाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते। न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् कन्यया०"आयुयौवनलक्ष्मीणां नश्वरीणां प्रतिक्षणम् । पुण्यमेव फलं ग्राह्य परिणामसुधारसम् ।। २॥" तापसी० "न पुण्यं न पापं न जीवोऽस्ति भोक्ता, न च स्वर्गमोक्षादिभावोऽपि कश्चित् । तदेषां महाभ्रान्तिभावं विमुच्य, प्रबुद्धैः सदा पूरणीया स्ववाञ्छा ॥ ३॥" CLASSICOSOCIACIONES For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कामदेव नृपतिकथा। १०॥ मत, तर्हि ज्ञानिनाममादा तत्कृतं पुण्यं पाप COMKHESACCESSROGRAM ति इति चेत् ? कन्या स्माह-कथं नाम ज्ञायते जीवो नास्ति इति ? प्रत्यक्षेणादृश्यमानत्वात्, इति चेत् ? तहिं त्वदीया पूर्वजा अपि तेनैव हेतुना नाभूवन्निति वक्ष्यामः, तत्कालवर्तमानमानवैष्टत्वात् । पूर्वजा अभूषन् , इति चेत्,तहि तत्तत्कालवत्तिज्ञानिभिदृष्टत्वाजीवोऽप्यस्ति । अथ को वेत्ति ज्ञानिनस्तेऽभूषन्नवा इति चेत् ? तर्हि तत्कालवर्तिमानवा अप्यभवन्नवा इति तुल्यमेव । अथ पूर्वजानामभावे वयं कथं भवामः ? इति अनुमानात्पूर्वजा आसन्निति मन्यते, तर्हि ज्ञानिनामभावेऽविसंवाद्यागमवचांसि कथं भवेयुरिति ज्ञानिनः, तदृष्टश्च जीवः किं न मन्यते । एवं च यदि जीवोऽस्ति, तदा तत्कृतं पुण्यं पापं चाप्यस्ति, अन्यथा सुखिदुःखित्वादिजगद्वैचित्र्यानुपपत्तेः। अथ जन्मक्षणादौ शुभाशुभग्रहयोगात्तद् भवति इति चेत् ? तर्हि शुभाशुभग्रहयोगोऽपि पुण्यपापनिमित्त एव घाच्योऽन्यनिमित्तादर्शनात् । अथैकस्मादेव पाषाणाज्जातयोबिम्बसोपानयोः पूज्यापूज्यत्ववन्निनिमित्तं सुखिदुःखित्वमिति चेत् ? न, मतिष्ठितबिम्बाभिधानधनिकसे सोपानयोः पुण्यपुण्याभावावेव तत्र हेतुः, अन्यथा कस्यापि पुण्यवतो नाम प्रतिष्ठां बिना किं नाम बिम्ब न पूज्यते । एवं पापिनो मूतिः पादप्रहारथुत्कृत्यादिविडम्बनान्यायमपि स्थाप्यम् । ततो यदीत्थं पुण्यपापे | विद्येते, तदा तन्निमित्तौ स्वर्गनरको जायमानौ केन वार्यते । किश्च-"पुण्यपापक्षये मोक्षः" इति वचनाज्जीव | इव मोक्षोऽप्यस्तीति सर्व सुस्थम् । परं प्रबुद्धः सदा पूरणोया स्ववाञ्छा इति चेत्तव मतम् तदाऽदृश्यमुखी त्वं निष्काश्येवेत्यधुनास्माकं वाञ्छास्ति तां पूरयिष्यामः । इत्युक्त्वा दृकूसंज्ञया कन्यया दास्यः प्रेरिता,ताभिश्च RECEमकवाकर For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir मुखमर्कटिकापूर्व तापसी गले गृहीत्वा निष्काशिता ।साथ"दक्षत्वगवितामेता यावज्जीवं महामूर्खस्य पत्युः | संकटे पातयामि" इति कोपात् क्वापि सातिशयं यक्षमाराध्य 'सौभाग्यमञ्जरी मूर्खेण वादे जित्वा परिणेत-- व्या" इति वरं ययाचे । यक्षोऽपि “ कामदेवकुमारान्नान्यो मूर्खस्ततस्तं तस्याः पति विधास्यामि" इत्युक्तवा “कामदेवः स्वयंवरे सौभाग्यमञ्जरी परिणेष्यति" इति स्वप्नं विमलबोधाय दत्त्वा "मया कामदेवामात्यायैष स्वप्नो दत्तोऽस्ति" इति तापस्या ज्ञापयामास । मन्त्री चासंभाव्यमेतदिति चेत्तस्येव स्वप्नमस्थापयतू । ___अथ प्रातःप्रयाणान्ते सभानिविष्टे कुमारे सा तापसी “वाञ्छितसिद्धिर्भवतात्" इत्याशिषं दत्वा सो| त्साहा पुरोऽस्थात् । मन्त्री प्राह-"कथमेतत्?"सा स्माह-"कुमारः कन्यां वादे जित्वा परिणेष्यति । अत्रार्थऽद्य रात्री त्वया स्वप्नोऽदीति प्रत्यया"ततो"अहो सत्यमेतद्" इति मन्त्री कुमाराय स्वप्नमुत्तवा तापसी सस्कृत्य विससर्ज ।"अवश्यमिदमपि कथंचित् सेत्स्यति" इति स्वस्थचित्ती कुमारामात्यो मुदं भेजतुः। इतश्च | सौभाग्यमरी सौधोपरि चन्द्रशालायां निविष्टाऽऽकाशे मधुरं घर्घरीस्वरं श्रुत्वा यावत्पश्यति । तावच्चन्द्रबिम्बादिवोत्तीण स्वर्णघर्घरीभूषितकण्ठं रक्तचञ्चचरणलोचनं राजहंसहयं गवाक्षे समेत्य सलीलं खेलन्मिथो बभाषे-एकेनोक्तं द्वितीयस्य, “कस्त्वं कुतः किमर्थ समेतः।" सोऽवोचत्-" अहं ब्रह्मलोके ब्रह्मणो वाहनम्, ब्रह्मणो बदनाकामदेवः सौभाग्यमञ्जरीपतिर्भावोति श्रुत्वा तं वीक्ष्य तत्पत्नी द्रष्टुमागतोऽस्मि । परं त्वं कः कस्येति । " सोऽप्यूचे-" अहमपि तत्रैव वाग्देवीवाहनम्, वाग्देवीवदना CHECAESARISSA For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नृपति कामदेव ॐन्मत्प्रतिबिम्बं कामदेवो म.प्रतिबिम्बसौभाग्यमञ्जरीपतिर्भविष्यतीति श्रुत्वा तं वीक्ष्य तत्पत्नीदर्शनार्थमन्त्राग॥१२॥ कथा। तोऽस्मि ।" इति राजहंसयोर्वचः श्रुत्वाकः कामदेवः? यद्वा एतावेव पृच्छामि" इति कुमारी यावदचिन्तयत् । श्रीकामदेव इति वदन्तावुत्पतिती । अथ विषण्णा कन्या चन्द्रलेखां सखीमूचे-"सखि ! कथं स युवा ज्ञेयः?" सख्यूचे-"मा विषादीः, वादक्षणे स स्वयमेव प्रादुर्भविष्यति" इति कन्या स्वास्थ्यं भेजे । इतच का. ४ मदेवः प्रतिप्रयाणं सभानिविष्टो विद्वद्गोष्ठीक्षणे पाश्चैव्यस्थपण्डितयोमिथः कथां कुर्वतोरन्तरा स्मितास्यः शिरोधूननेनैव स्वं गोपायन् क्रमाबाणारसीं प्राप्तः। श्रीवरिसिंहेन राज्ञा सर्वेऽपि स्वयंवराहूता राजानो महोत्सवपुरःसरं यथोचितस्थाने स्थापिताः, विशेषतः कामदेवश्च । अथ प्रवेशोत्सवक्षगे वीक्षणार्थागतदासीमुखाद् भूपालागमनं श्रुत्वा तत्परीक्षार्थ कु मार्या प्रेषिता चन्द्रलेखा मखी । सा च पत्रपुष्पचन्दनादिपूर्णपटलीपाणिदासीशतपरिवृता निशामुखे भोगापणव्याजेन सर्वभूपानां चरित्राणि निरीक्ष्याईराने समेत्य कन्याग्रेप्रोवाच-"स्वामिनि ! किमुच्यते,रत्नदोषीच. तुर्मुखःायतः कोऽपि कोपेन,कोऽपि कार्पण्येन,कोऽप्यसत्येन,कोऽप्यनौचित्येन,कोऽप्यहंकारेण,कोऽपि विकारेण, एवं प्रभूतभूपान् दोषविरूपान् वयं पश्यन्न्यः कामदेवस्यावासे सिंहबार एव यावत्पश्यामस्तावसमान्तर्निविष्टो. ऽनुच्छिष्टरूपलावण्याङ्गभङ्गमौभाग्यादिगुणाश्लिष्टः कुमारो दृष्टः । चिन्तितं च-"राजहंसाभ्यां योऽस्मत्स्वामिनीपतिः प्रोक्तः सोऽयं कामदेवः । परं प्रेक्ष्यते क्षणमस्य मुखम् ।" तावता विबगोष्टीक्षणे प्रवर्तमाने सस्मितं M ।११॥ For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5वाकर शिरोधूननमेव कुर्वाणं कुमारं दृष्ट्वा निर्णीतमस्माभिः-"नून युक्तायुक्तस्थाने शिरोधूननं ज्ञापयति पदेष किचिन्न वेत्ति इति । ततः स्वामिनि! सोऽन्यः कामदेवः,यो राजहंसाभ्यां प्रोक्तः। एतच श्रुत्वा कन्या'यद्भाव्यं तद्भविष्यति" इति जल्पन्ती दीध निःश्वस्य सहसा शय्यायां लुलोठ । चन्द्रलेखापि श्रान्ता तत्राशेत । अथ कन्या-"हा ! प्रातः स्वयंवरे किंभावि? मृत्युरेवाथ श्रेयान्" इति ध्यात्वा कण्ठे पाशक्षेपाय यावदुत्तिष्ठ. ति,तावन् “मा विषीद,त्वत्पतिरेवासौ,यो ब्रह्मवाग्देवीभ्यामुक्तः" इति वारत्रयं यक्षप्रोक्तामाकाशवाणीमाकण्ये 'कल्पान्तेऽप्याकाशवाणी नान्यथा स्यात"इति सहर्ष सुखं सुष्वाप । इतश्च"प्रातःस्वयंवरमुहौऽस्ति, सत्वरं यथोपदिष्टकर्माणि कुरुध्वम्। इति पारहिकेन पटहं वादयित्वोपुष्टे स्वयंवरमण्डपे च सजीकृते सर्वेऽप्याहूता राजानः प्रातःस्नातानुलिप्तभूषितानना यानाधिरूढा महत्या छत्रचामरादिऋदया राजमाना: "को भव्यः ? कोऽभव्यः?" इत्याकुलैलोकैरालोक्यमाना अनेकवादिननादैदिग्मण्डलान्यापूरयमाणाः स्वयंवरमण्डपं प्रविश्य मञ्चस्थापितसिंहासनानि यथाकममलंचक्रुः। राजकन्यापि राजादेशात्पूर्व स्नाता ततो विलेपनपुष्पाद्यलंकृता कृतार्हत्पूजना जनानुरागसागरविहितमज्जना स्त्रीसहस्रपरिजनाध्यारूढयाप्ययाना सखीभिर्गीयमाना पाPणिस्थितवरमालाशोभमाना स्वयंवरमण्डपं विवेश । तदा च तत्रोपविष्टा भूपा भूपपुत्राश्च दर्पणदर्शन-भाल प्रणाम स्पर्शन-क्षुरिकानर्तन-केतकीपत्रकर्तनादिनानाचेष्टाः कुर्वन्ति स्म । अथ प्राह प्रतीहारी-“पश्य प्रीतिस्पृशा दृशा । त्वत्सौभाग्यगुणाकृष्टाः समेताः सखि ! भूभुजः ॥२॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कामदेव ॥ १२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असौ पूर्वदिशः स्वामी चामीकरवरद्युतिः । राजा गुणाकरः सर्वकलानामेकमास्पदम् ॥ २ ॥ दक्षिणाशापतिः पृथ्वीचन्द्रः सैव नरेश्वरः । पश्चिमायां महीसेनः सिन्धुदेशप्रभुत्वसौ ॥ ३ ॥ असावयोध्याधीशः श्री सुरदेवनृपाङ्गजः । कामदेवः कामदेवतुल्यरूपो विराजते ॥ ४ ॥ अङ्गवङ्गकलिङ्गश्रीतिलङ्गमगधाधिपाः । वत्से कियन्तः शक्यन्तेऽधुना कीर्त्तयितुं नृपाः ॥ ५ ॥ सर्वेऽप्यमी गुणशतैः कलिताः कुलीनाः, प्रौढप्रतापदहनज्वलितारिमीनाः । एषां सुधीर्जयति यो भवतीं स भूयाद् भर्त्ता तवेति कुरु संप्रति पूर्वपक्षम् ॥ ६ ॥ गद्यपद्यैरथ कन्या पूर्वपक्षं तथाकरोत् । आस्तां यथोत्तरं भूपास्तदर्थमपि नाविदन् ॥ ७ ॥ ततो निरुत्तरीभूते राजवर्गेऽखिला जनाः । हाहाकारपराः प्रोचुः पुंस्पक्षो विजितः स्त्रिया ॥ ८ ॥ वीक्ष्योदन्तममुं दध्यौ वैरिसिंहनृपस्तदा । कुमार्येबासको यावज्जीवं स्थाप्या कथं हहा ॥ ९ ॥ यक्षावेशादथामात्य विज्ञप्तः सूरदेवस्ः । गर्जन् पर्जन्यवत्प्रोचे कन्यां सौभाग्यमञ्जरीम् ॥ १० ॥ अवधारय मद्रचः शुभे ! न वयं किचिदधीतिनः श्रुते । तव पुण्यवशात् प्रदद्महे ऽखिल पृच्छोत्तरमुत्तरं परम् ॥ प्राग्जन्मान्तरमपि प्रियं प्रेक्ष्य मुदं दधौ । राजकन्या चकोरीव जीमूतान्तरितं विधुम् ॥ १२ ॥ प्राग्जन्मपत्नी प्रेक्ष्याथ कामदेवः प्रमोदतः । स्वपद्महस्तं स्तम्भस्थपाञ्चालीमस्तके ददौ ॥ १३ ॥ ततः प्रोवाच पाञ्चाली कोकिलामज्जुलं स्वरम् । वत्से ! पृच्छात्रयस्यास्य ददस्वोत्तरमद्य मे ॥ १४ ॥ For Private and Personal Use Only नृपतिकथा | |१२|| Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir आदौ दिन वा रात्रिी बीजं वाथ तदङ्करः । कर्मोपक्रमयोर्मध्ये बलीयान् घटतेऽथ कः ॥१५॥ सौभाग्यमअरी पृच्छाइयोत्तरमजानती । तदा तृतीयपृच्छाया दातुमुत्तरमित्यवक् ।। १६ ।। कमैव कारणं विद्धि सत्त्वानां सुखदुःखयोः । उपक्रमादतः कर्म बलीय इति मे मतिः ॥ १७ ॥ पाञ्चाली चावदत् कार्यसिद्धिश्चेत्कर्मणव ते । वादे विजयहेतोस्त्वं तन्मा कार्षीरुपक्रमम् ॥१८॥ अथो निरुत्तरा कन्या प्राह पाश्चालिका प्रति । साध्वहं विजिता किन्तु त्वमप्युत्तरमर्पय ॥ १९॥ ततः समस्याग्रहेलिकाक्रियागुप्तकादिविनोदप्रश्नोत्तरेषु पाश्चलिकया दत्तेषु कुमारी प्रोचे-" पाश्वालि ! पीता तव प्रश्नोत्तरैः, परं यन्मया महीपतयः पृष्टास्तस्योत्तरं जल्प इति ।" प्राह पाश्चालिका राजपुत्रि ! सम्यग् निशम्यताम् । त्वदुक्तं नो नृपैर्बुद्धं तत्प्रत्युतयते कथम् ॥१॥ तच्चेदम्-इह किल सकलकलाकलापकुशला अपि तत्त्वत्रयीस्वरूपं सम्यगविन्दमाना मानावेशतो मोक्षहेतवे हरिहरादीन् देवान् ब्राह्मणादीन् गुरून् यागादिक्रियाश्च धर्म प्रमाणयन्ति । ते पुनरेवं वाच्या:M" ननु हरिर्मुक्तिदातेति यदुच्यते? तत्र स हरिः सरागो वा नीरागो वा? सराग इति चेत् ? न, सरागस्यामु क्तस्य मुक्तिदाने सामर्थ्यात् अस्मदादिवत्,नीरागश्चेत्तर्हि वीतराग एव नामान्तरेण प्रपन्नः,एवमन्यदेवेष्वपि” तथा "ब्राह्मणस्तरति तारयति चेत्यत्रापि स ब्राह्मणो वेषेण वा क्रियया वा ? वेषेण चेत्? न, नटादेरपि ब्राह्मण्यप्रसङ्गात् । क्रियया चेत् ? तहिं सा क्रियाऽहिंसासत्यास्तेयशीलाकिञ्चन्यरूपाऽन्यरूपा वा ? अन्य For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कामदेव ॥१३॥ नृपतिकथा। | रूपाश्चेत् ? न । सत्यं ब्रह्म, तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः। सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणम् ॥१॥ इत्युक्तिप्रामाण्यात् । अहिसादिरूपक्रियायाश्च ब्राह्मण्यमस्माकमपि संमतसेवेति ।" तथा नोदनालक्षणो धर्म इत्यप्ययुक्तम् । यतो नोदना यागादिक्रियापवर्तकवचोरूपा। यागादिक्रियाश्च हिंसात्मिकाः । सा ध. माय चेति प्रोच्यमानं "नीली गेहधवलनाय"इति वत् कस्य नाम न हास्याय । अत एवोक्तम् - यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्यवं गम्यते स्वर्ग नरके केन गम्यते ॥१॥ ततोऽहिंसैव धर्मः । एवं सतिमोक्षदाता वीतरागः क्रियावान् भवतारकः । शर्मदायी दयाधर्म इति तत्वत्रयी स्फुटम् ॥१॥ इति पाञ्चालीप्रतिष्ठिततत्त्वत्रयीश्रवणेनारजितापि रनिता राजकन्या कामदेवकण्ठे यावद्वरमा. लां क्षिपति तावत् सर्वानपि भूपान् कामदेवसरूपरूपानिरीक्ष्य क्षोभमवाप । ततः "अहो आश्चर्य हा कि भावि"इत्यादि जल्पति लोके कुमार्या परमेष्ठिमंत्राभिमंत्रिततोयेन यदि"सत्यः श्रीमान् जैनधर्मस्तदा विलीयतां माया" इति तारं श्रावयित्वा वारत्रयं छटा चिक्षेपे । ततो विलीना माया । जाताः स्वभावरूपा भूपाः । हृष्टाः सर्वे लोकाः । बाला कुमारकण्ठे वरमालामक्षिपत् । अथो जयजयध्वानपूर्व धवलमङ्गलः । गीयमानैर्नृपः पुत्रीयुक कुमारं गृहेऽनयत् ॥ १॥ वन For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir REASOCIASRA% तैरेव स्वजनीभूतैर्भूर्भूपः शुभेऽहनि । अचीकरत वीवाहं महेन महता तयोः॥२॥ ततो व्यसर्जयद्राज्ञा राज्ञः सत्कारपूर्वकम् । वरवध्वोः प्रववृते दशाहं मङ्गालादिकम् ॥ ३॥ मा ज्ञासीत्कोऽपि मूर्खत्वमिति शीघ्र शुभक्षणे । सपत्नीकः कुमारोऽध चचाल स्वपुरं प्रति ॥ ४ ॥ निवृत्ते च सुरे राज्ञि प्रयाणत्रितयादनु । नद्यास्तीरेऽम्बरे ग्रामे कुमारोऽस्थात्ससैन्यकः ॥६॥ इतश्च सा तापसी सौभाग्यमअरी मूखपतिसंकटे पातिता, अथ परपुरुषापहारसंकटे तां पातया. मि,इति ध्यात्वा कान्तीपुरीपतेस्तिलङ्गादिदशदेशाधिपतिमहाकालादिदशनरेशसेव्यपादस्य स्वयंवरात्कान्तीं गच्छतः कालभूपालस्येति ज्ञापयामास--"कामदेवो बाल्यादपि महामूखः, कयाचिन्माययैवानेन सौभाग्यमञ्जरी जिता न तु विद्वत्तया। अत्रार्थे सभासमक्ष वादं याचध्वम्, यद्यसौ भाषितो वक्तुमपि वेत्ति तदाहं यथारुचि विडम्बनीया । परमीदृशं कन्यारत्नमस्थाने गच्छन्नैवोपेक्ष्यते ।" एतच्च श्रुत्वा कोऽयं वराकः संग्रामे वादे वाऽस्माकं पुरतः कामदेवः ? इति गर्जन्तो दधाविरे कालादयः । तापसी च स्वकृतकूटज्ञापनेन दुःखयामि सौभाग्यमअरीम्,इत्यम्बरग्रामे समेता । तत्र च नदीतटे खेलन्तीं चन्द्रलेखां वीक्ष्य " दृष्टं मदवज्ञाफलं भवत्स्वामिन्या, महामूढभर्तृसंकटे पातिताऽस्ति सा, पुनरद्य संकटान्तरे तां पातयिष्यामि इति बभाषे।" चन्द्रलेखा शीघ्रमागत्य सौभाग्यमअरी प्रति तदूचे । सौभाग्यमनरी प्राह-" सखि ! अग्रेऽप्येषाऽऽशंकाऽभूत, परं ज्ञातं यदि पुनले जया पतिः समयेऽपि किश्चिन्न वक्ति। ततस्तापसीमेवाकार्य पृच्छयते । यः SECURSLAS For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कामदेव १४॥ नृपतिकथा। था सर्व ज्ञायते।" इति तापसीमाकार्य तन्मुखेनैव सर्व मूलतः श्रुत्वा राजपुत्री विषण्णेत्यचिन्तयत् समर्थेनापि सन्ताप्योऽसमर्थोऽपि हि न क्वचित् । भूपतिाकुलीचक्रे दुर्बलैरपि मूषकैः ॥१॥ । केनचिद्राज्ञा वस्त्रपेटापार्श्वे भ्राम्यन् मूषकः कम्बया ताड्यमानो नष्टोऽन्यमूषकैः सह कोपात्कोशस्थाः सर्वचर्मरज्जूभक्षयित्वा प्रथमवृष्टौ. गजवन्धरज्जूरप्यभक्षयत् । ततो मुत्कलाङ्गानां वृष्टिसिक्तपृथ्वीगन्धमदोन्मत्तानां प्रतोल्यादि पातयतां हस्तिनां बन्धरज्जर्मूषकभक्षिताः श्रुत्वा कथं करिष्यते, इत्याकुलीभूतो भूपो मूषकैः प्रोचे--" समर्थेनापीत्यादि । अथो क्षमयाम्येताम् इति तापसी बाहौ धृत्वा विनयवाचा क्षमयित्वा"यक्षमाराध्य यावज्जीव मत्पतेमूर्खतादोषमपनय,इत्यवोचत् । तापसी स्माह-"एवं विधास्ये,परं कालादयो दशभूपाला मत्प्रेरिता भवदपहारायायान्तः सन्ति,इति ते केनाप्युपायेन तावत्प्रतीक्षयितव्याः" इति शिक्षा दत्वा साऽचालीत । विमलबोधश्च तदैव चन्द्रलेखामुखात्तत्स्वरूपं ज्ञात्वा स्वं सैन्यं चतुर्विभागीकृत्य शिक्षा दत्त्वा चतुदिक्षु प्रेष्य स्वयं सारसैन्ययुक्तः कुमारान्तोऽस्थात् । यावता कालः कालवनिःस्वानध्वानर्दिशः पूरयंस्तत्रागतः, तावता चतसृषु दिक्षु चमूचतुष्टयी समुद्रचतुष्कवद्गजगर्जित-हयहेषित- रथचक्रचीत्कार-पत्तिपूरहक्का-ढक्का| नादब्रह्माण्डमण्डपं स्फोटयन्ती प्रादुर्भूता । तां च दृष्टवा किमेतत् ? इति क्षोभं प्राप्ते कालसैन्ये विमलबोधेन प्रेषितो भट्टः संमुखं गत्वा दक्षिणं करमूर्वीकृत्य तारं वभाषे-" भो भो वीराः । किं मुधा वैरं क्रियते ? ॐC%ECECACEARCH For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अथ करिष्यथ, तदाऽस्मत्स्वामी संग्रामे सज्ज एवास्ति । पश्यत परितः सैन्यानि । सर्वत्र धर्मो जयति, नाधर्मः, इति ज्ञात्वा यथोचितं कुरुध्वम् । " ततः सर्वतः स्वसैन्यं वैरिभिर्वेष्टितं दृष्ट्वा महाकालकुमारो. ऽभाषिष्ट-" भो भट्ट ! साधूक्तम्-धर्मो जयति नाधर्मः' परं यद्येवं भवत्स्वामी वेत्ति तदा किमेवमधर्ममाचरति-'यत्पाञ्चालीछद्मना कन्यां परिणयति। न्यायधमैकनिष्ठोऽस्मत्स्वामी सर्वथैतन्न सहते। अथ नैवं त. हिं विद्वत्समक्षं वादेऽस्मानिर्जित्य राजपुत्रीं गृह्णातु भवत्प्रभुः । ततो भमुखादेतां वैरिवाचमाकर्ण्य मन्त्री द्वेधापि कालक्षेपाय पुनस्तन्मुखेनैवेदं वैरिणो ज्ञापयामास-" भवत्वेवम् । परं सम्यगविद्वांसः काश्मीरदेशे सन्तीति । तत एव तानाकारयध्वम्, यथा दयते कौतुकम् । " अर्थतस्मिन् वचने कालकुमारेण प्रतिपन्ने बाभ्यामपि कुमाराभ्यां स्वस्वसैन्यानि भव्यस्थाने निवेश्य काश्मीरदेशे पण्डिताकरणाय पृथ्वीपतिभिः स्वस्वपौरुषाः प्रेष्यन्ते। इतश्च तापसी पुनर्यक्षमाराध्य "यावज्जीवं कामदेवस्य पाण्डित्यं देहि"इत्ययाचत । यक्षोऽवोचत्-"नहि पूर्वजन्मार्जितकर्मदोषोच्छेदे मम शक्तिः। परं नवमदिने श्रीवज्रनाभः केवली तत्रायास्यति । तदर्शनात्तस्य सर्वे मनोरथाः सिद्धि यास्यन्ति।" इति यक्षवाचं तापसी विमलबोधायावदत् । हृष्टः सर्वः कोऽपि तस्या वचनेन ॥ अन्यदा केवली तत्रागत्य देवतानिर्मितस्वर्णाम्भोजमलञ्चक्रे । अथ कुमारः सपरीवार। कालादयश्च 1BSCRCLEARCLOSEXCUSEUCH For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नामदेव नृपति कथा। भूपालाः केवलिनं नि:प्रदक्षिणीकृत्य भत्त्या नत्वा पुरः समुपाविशन् । केवली धर्मदेशनां चक्र--- अयमुपचितकर्मव्याधिविध्वंसवैद्यः, सकलसुरनरश्रीलाभकल्पमोऽयम् । अयमपि च समस्तक्लेशनिर्मुक्तमुक्तिं, दिशति विशदभावाराधितः शुद्धधर्मः ॥ १ ॥ तत्राष्टानामपि कर्मणां स्वरूपबन्धादिहेतंश्चीपादिशत्, तद्यथा“पटप्रतीहारखड्गमचं हडिश्च चित्रकृत् । कुलालकोशाधिक्षौ च कर्माष्टकनिदर्शनम् ॥१॥ तत्र ज्ञानस्यावारकत्वाज्ज्ञानावरणीयम्, चक्षुषः पटवत् । चक्षुरचक्षुदर्शनादीनामावारकत्वादशनावरणीयम् , द्रष्टुकामस्यापि राज्ञोऽनभिप्रेतलोकस्खलनकृत्प्रतीहारवत् । विद्यते सुख दुखं वा येन तवेदनी. यम् , जिह्वया लिह्यमानमधुलिप्ततीक्ष्णखड्गधारावत् । मुह्यते जीवो येन तन्मोहनीयम्, मद्यवत् , तच द्वेधा, दर्शनमोहनीय-चारित्रमोहनीयभेदात, आद्य सम्यक्त्वलाभान्तरायकृत् , द्वितीयं चारित्रलाभान्तरायकृत् । एति याति चतुर्गतिसत्कदेहस्थजीवस्य वारकतामित्यायुः, चौरादिपादस्य हडिवत् । नामयति जीवं शुभाशुभगत्यादिभेदेष्विति नाम, शुभाशुभरूपकृच्चित्रकारवत् । गुशब्दे गयते उच्चीचैर्भावेन जीवो यस्मात्तद्गोत्रम्, शुभाशुभत्वशब्दयमानपात्रकृत्कुंभकारवत् । दानादि कुर्वतो जीवस्यान्तरायता यातीत्यन्त. रायम् , तहानादि कुर्वतो राज्ञो निषेधकभाण्डारिकवत् ।" इति सर्वकर्मस्वरूपमुत्तवा कुमारेण ज्ञानावरणीयस्य बन्धहेतौ पृष्टे पुनः केवली पाह SACARECTROCIPES For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 46 प्रत्यनीकत्वान्तरायोपघातद्वेषतः श्रुतेः । बध्नाति जीवः कर्मायं महाशातनयापि च ॥ १ ॥ तत्रायबन्धहेतुचतुष्कोपरि मकरध्वज कुमारदृष्टान्तः । तथाहि मथुरायां हेमाङ्गदो राजा लीलावती राज्ञी । तयोरनेकोपयाचितकलब्धोऽत्यन्तवल्लभो महारूपवान् मकरध्वजः पुत्रः । स पञ्चवर्षीयः पितृभ्यां प्रौढमहोत्सबैर्लेखशालायां मुक्तो यथा यथा पठति तथा तथा रोगैर्ग्रस्यते । तेन नवीनं पठनं न संचरति, पूर्वपठितं च विस्मरति । एवं बाल्यवयोऽतिक्रमे यौवने च समेते यदा गोष्टीनिमित्तं विद्वत्सभायां निवसति, तदा प्रतिजिह्वारोगेण भिन्नस्वरत्वात् सभ्यानामनिष्टो भवतीति । तच्छान्त्यै यान् यानुपचारान् करोति, तैस्तैरधिकाधिकं वपुः क्षीयते । अतो महाकष्टपतितो मृत्यु वाछति । तेन मातरपितॄणामपि महादुःखम् ॥ एवं काले व्रजत्यन्यदा केवलिनं तत्रागतं श्रुत्वा राजा सपुत्रप रीवारः सन् जगत्रयस्वरूपवेत्तारं केवलिनं नत्वा देशनां श्रुत्वा पुत्रस्य क्लेशहेतुं प्रपच्छ । केवली प्राह- 'राजन् ! पूर्वभवे श्री शीलरत्नसूरीणां विप्रसुतौ द्वौ शिष्यावभूताम् । लघुः प्रज्ञावानिति लोकैः क्रियमाणां प्रशंसामसहमानो ज्येष्ठः प्रद्वेषात्प्रत्यनीकतां विभ्राणो लघोः पाठान्तरायोपघातनिन्दाः प्रकुरुते । अन्यदा 'पडिणीयमतराइ उवधाए तप्पओसनिह्नवणे' इत्यादिकर्मबन्धहेतुप्ररूपणगाथाः पठन्निवृत्तस्तस्मात्पापात् । निरतिचारं चारित्रं प्रतिपालय प्रान्तेऽपि नमनालोच्य साधितानशनो मृत्वा ब्रह्मलोके स्वर्गसुखानि भुक्तवा तवासौ पुत्रोsaतीर्णः । पूर्वोपार्जितज्ञानावरणीयोदयादेवं क्लेशं च प्राप्तः ।' इत्याकर्ण्य जातिस्मरणं प्राप्य जातसंवेगः कु Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नामदेव १६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारः पादयोगित्वा पूर्वपापान्यालोच्य केवलिप्रोक्तप्रायश्चित्तेन स्वं विशोध्य क्रमेणोत्समार्थमाराधयामास । " पञ्चमो हेतुर्महाशातना । साच काल-विनय बहुमानोपधान निहव-व्यञ्जनभेदार्थभेदो भयभेदप्रकारैरष्टधा । तत्र कालाशातनायां सोमकुमार दृष्टान्तः " पूर्व श्रीजिनदास सूरीणां शिष्यो धर्मदासगणिः कदाचित्कालवेलायामपि सिद्धान्तं वाचयन् केनापि निषिद्धः कालवेलायां पठितं किमपठितं स्यात् ? मुधासौ पाठान्तरायः ' इति बुद्धधा तथैव वाचयन् ज्ञानावरणीयं कर्म बद्ध्वाऽनालोचितोऽप्रतिक्रान्तः कालं कृत्वा सौधर्मदेवलोकं गत्वा च्युत्वा च चन्द्रनरेन्द्रपुत्रः सोमकुमारोऽजनि । स च ' ताडयित्वा पाठयोऽसौ प्रत्यहम् इति राजादे - शादेव पण्डितेन सर्वाः कलाः शिक्षितः । 'सोमकुमारसदृशः कोऽपि न कलावान्' इति वसुधापीठे ख्यातिं प्रा. प्तः । इतश्च कान्तीपतिश्रीषेणराजसुता सकलकलाकुशला सर्वोत्तमरूपा सुरूपाभिधाना 'स्वेच्छया वरं वृणीer' इति कलातिशयसन्तुष्टतातदत्तादेशान्महत्या सेनादिसामग्रथा प्रतिदेशं राजकुमारान् परीक्ष्यमाणा सोमकुमारं सर्वगुणाधारं श्रुत्वा चम्पां समेता सा । तच्च ज्ञात्वा चन्द्रेण राज्ञैकान्ते पण्डितः पृष्टः - 'अस्ति सर्वकलासु परीक्षाक्षमः कुमारः?' पण्डितः प्राह-न वेत्ति तन्न हि त्रैलोक्ये' राज्ञोक्तम्- 'सत्यमिदम्? ।' पण्डितेनोक्तम्'देव! किंकथ्यते कुमारस्य ? सा कला नास्ति, यामसौ न जानाति । वाचस्पतिमपि वादे जयति । साक्षात्पुरु पा सरस्वती । अनेकशो वारान् परीक्षितोऽस्ति ।' अथ हृष्टेन राज्ञाऽमात्यैः कारितः कुमार्याः प्रवेशोत्सवादिस For Private and Personal Use Only नृपतिकथा । १६।। Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir स्कारः । निर्मापितः परीक्षामण्डपः । गृहीतं शुभ मुहूर्तम् । आहूता विख्याता भूपालाः । मिलिता अस्तोका लोकाः अथ परीक्षादिने राज्ञा मण्डपे निविश्य सर्वभूभुजः सभ्यांश्च मञ्चषुः निवेश्य सपण्डितं सोमकुमारमा४ कार्य सगौरवमानीता तत्र कुमारी।ततो राजादेशानिवृत्ते कलकले कन्या परोक्षांकरिष्यति'इति साश्चर्ये सर्वलो के कुमारस्य रूपलावण्यादिगुणान् दृष्ट्वा कलाकौशल्यपरीक्षां कर्तुकामा सरस्वतीवास्खलितगद्यपद्यलहरीभिर्भूभृतोऽपि प्लावयन्ती क्षणमात्रं सर्वविद्यासु हृद्याभ्यासं दर्शयित्वा 'दर्शयतु निज नैपुण्यं कुमारः, प्रीणयतु सभ्यमनांसि' इति गदित्वा यावदस्थाकुमारी । तावत्पूर्वकृतकर्मोदयात्सोमकुमारस्य गलिता मतिः, स्खलि. ता जिह्वा, विस्मृतानि शास्त्राणि, विकृतानि सर्वेन्द्रियाणीत्यधोमुखो जातः । तदा च किमचापि न वक्ति कुमारः, इति साशंके सर्वलोके राजप्रेरितपण्डितोऽवादीत-" वत्स ! वेत्सि सर्वशास्त्राणि, ततस्त्यज पाम्, कुरु कृपाम्, पूरय मनोरथम्, जल्पानल्पविद्यारहस्यम्, विधेहि विश्व वश्यम्, धवलय नि कुलम्, प्रीणय कन्यामनो विमलम्, । " एवं पुनः पुनः पण्डितेनोक्तेऽपि यदा न वक्ति किश्चित्कुमारः। तदा रे पाप ! 'त्वयैव बोलितास्तववचोविश्वासेनैव सर्वमिदमारब्धम् । हा! कथं विगोपिताः स्मः' इति कोपाद्भूपेन पण्डितो बन्धयित्वा वधार्थ बहिः पहितः । तावत्तत्र समवस्तः केवली। तत्प्रभावाच प्रहारेष्वलगत्सु लोकमुखात्तत् ४ श्रुत्वा राजा सपरिवारः कुमारमग्रेकृत्य पण्डितेन सह तत्रागत्य केवलिनं नत्वा कुमारोदन्तं पपृच्छ । केवली च पूर्वभवं श्रावयित्वा इत्यवोचत्-" यः कालवेलायामस्वाध्याये ईर्यापथीप्रतिक्रमणाद्यविधिना वागममधी CRECERESECRUARY For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % ॥ कथा ॥१७॥ कामदेव ते तस्य प्राज्ञस्याप्यवसरे कला नैव स्फुरति।" इत्याकर्ण्य कुमारो जातपश्चात्तापः साधु नत्वाऽऽत्मानमित्थं निनिन्द-"हा हा ऽज्ञानिना मया चिन्तामणिः कर्करतया, स्वर्भाणुतया नभोमणिः, करीरतया कल्पवृक्षः, कृ. ष्णपक्षतया श्वतपक्षः, कोलतया महागजः, सर्पतया महाध्वजा, काकतया हंसः, शिरोवन्धनतयाऽवतंसा, कालकूटतयाऽमृतम्, तैलतया गोघृतम्, कामिकतया दुग्धम्, रुक्षतया स्निग्धम्, किङ्करतया नरेशः, कुटवाक्यतया सर्वज्ञोपदेशश्चित्ते चिन्तितः।"तेनैवं विगुप्तोऽस्मि ।ततो भगवन् ! दीक्षा दावा मामस्मात्पापान्मोचये. ति । तदा च कुमारी तानि तद्वचांस्याकांहो सम्यक्त्वलाभकौशल्यं विना कथमीदृशोक्तिः स्फुरति ।त. न्नूनमेष महाविद्वानपि कर्मोदयादेव तदा किञ्चिन्नोवाच । अतोऽत्र भवेऽसावेव मत्पतिरिति निश्चित्य केवलि. Mनमप्राक्षीत्-" अस्ति मे भगवन् ! दीक्षा न वा इति ।" केवल्यवोचत्-" अस्ति युवयोभोंगफलकर्मोदयाद नु दीक्षा!" ततः केवलिदत्तप्रायश्चित्तनात्मानं विशोध्य कुमारः कुमारी परिणीय चिरं भोगान् भुक्त्वा सभार्यों दीक्षामादाय प्रान्तेऽनशनात्सर्वार्थसिद्धिमवाप ॥१॥" विनयाशातनायां भाविनः श्रेणिकराजस्य कथाकिल भाविनोऽपश्चिमश्रीवीरजिनस्य वारके राजगृहे श्रेणिको राजा भावी। स च सिंहासने निवेश्य मातङ्गमग्रे ऊर्व संस्थाप्य खड्गमाकृष्याकृष्टिविद्यां पृच्छति । मातङ्गश्च भीतो वक्ष्यति परं राज्ञो न स्फुरति । ततो देव ! विनयं विना विद्या न स्फुरति" इत्यभयकुमारमन्त्रिवचसा महीशो मातङ्गमासने स्वकीये ॐॐॐॐॐॐॐ ECIPESUCHERGESSESPRM For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 5ॐॐॐॐ निवेश्य स्वयमग्रे योजिताअलिविद्यामादास्पति, ततः स्फुरिष्यति । इत्येवं सर्वशास्त्राणि विनयेनैव सफलानि स्युः ॥२॥ बहुमानं मानसी भक्तिः। तस्यां छात्रस्यकथाएकस्य पण्डितस्य द्वौ छात्रौ । धन्यो धर्मश्च । धर्मः शास्त्रोपरि बहुमान विनयं विधत्ते । धन्यस्तु न तथा । अन्यदा पण्डितेन निमित्तमध्याप्य परिक्षार्थ प्रेषितौ छात्रो। राजमार्ग प्रौढपदानि वीक्ष्य धन्योऽवादीत्--" इमानि हस्तिनः पदानि । " धर्मेणोक्तं विचार्य--" हस्तिन्याः पदानि, सा च वामाक्षिकाणा, तस्यां चासन्नपुत्रप्रसवा राज्ञी चटिताऽस्तिा" एवं वातयन्तौ पुरा बहिर्गतौ । तादृशीमेव हस्तिनीं वीक्ष्य जवनिकान्तरिताया राज्याः पुत्रप्रसवं च श्रुत्वा पुनश्चलितो क्वापि ग्रामे सरस्तीरे निविष्टौ एकया वृद्धया पृष्टौ--" मम पुत्रो देशान्तरं गतः कदैष्यतीति ।" तावता कयाचिन्नार्या तोयेन भृत्वा शीर्ष रोप्यमाणो घटः पतित्वा भग्नस्ताभ्यां दृष्टः । धन्येनोक्तम्-"भद्रे विनष्टो हि तव पुत्रः ।" तदा धर्मेणोक्तम्-"मातः ! शीघं गृहं ब्रज, समेतस्ते पुत्रः ।" स्थविरा गृहं गता पुत्रं समेतं वीक्ष्य हृष्टाक्षतपात्र-कुंकुम-कुसुम-पुगीफलादिकमादाय सरस्यागत्य धर्म वर्धापयामास । ततो द्वावपि गती गुरुपार्श्व प्रोचतुः स्वं स्वं ज्ञानम् । गुरुणा कथमिति पृष्टे धन्योऽभणत्-" प्रौढपदानि दृष्ट्वा हस्तिनः पदानि,घटो भग्नो जलं गतं तथा देहो भग्नो जीवो गतो मयेत्युक्तम् ।" धर्मणोक्तम्-निरोधानुमानेन हस्तिनीम्, पथि वामदिग्वत्र्तिवृक्षपत्रादिरा-& For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ कथा कामदेवकृष्टमिति वामाक्षिकाणा, तस्यां च राजा वा राज्ञी वाऽन्यः, परं कौसंभतंतवो वृत्तिकण्टकेषु दृष्टा इति ॥१८॥ राज्ञी, तस्याश्च वटस्थाधो विश्रम्य हस्ताभ्यां भुवमाक्रम्योत्तिष्ठन्त्या दक्षिणपाणेनिमग्नतमं प्रतिबिम्ब दृष्ट्या प्रत्यासन्नपुत्रप्रसवा । तथा या घटमृत्तिका भूमितः पृथग गता सा तस्या मिलिता, यच जलं सरोजलात्पृथककृतं तदपि तस्य मिलितम्, ततो नूनं खायाः पुत्रः पृथग्भूतोऽस्या मिलन्येव।" इति द्वयोरपि बुद्धिं श्रुत्वा गुरुणोचे-"वत्सो यः सयमानं गुरूं सेवते तस्य सम्यग्धीः स्फुरति, नान्यस्यैवेति बहुमानाद् गुरुः सेव्यः ॥३॥ यदिवा श्रुतं प्रत्यबहुमाने बहुमाने वा शकटपितोदाहरणम्गडाकूलवासिनौ हौ बन्धू एकत्र गच्छे प्रवजितौ । तत्रैको बहुश्रुतत्वादाचार्यों जातः । सर्व दिनं शि&ध्यैः शास्त्रार्थ सेव्यमानो विश्राम कदापि नाप्नोति । रात्रावपि सूत्रार्थचिन्तनव्याख्यादिभिः सुखनिद्रा नल भते । अन्यदा स सूरिमध्येऽपवरके मूर्ख सुखोपविष्टं निजं बन्धु दृष्टवाऽचिन्तयत्-"अहो? धन्यो मे भ्राता मूर्खत्वात् केनापि नो खेद्यते । अहं पुनरजाखड्गतुल्येन ज्ञानेन क्लेशं प्राप्तः सदा । तद्यक्तं केनापि यतः-- ४ मूर्खत्वं हि सखे ? ममापि रुचितं यस्मिन्निमेऽष्टौ गुणा । निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । * कार्याकार्यविचारणान्धवधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मुर्खः सुखं जीवति ॥१॥ नैवं भावितवान् यत:-- नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां । येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । HEACHECARRY ।१८।। For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवविवेक विकलैर्भू भारभूतैर्नरैः ॥ २ ॥ एवं चासौ ज्ञानाबहुमानाज्ज्ञानावरणीयं कर्म बद्ध्वानालो चिताप्रतिकान्तः कृतानशनो मृत्वा देवलोके गत्वामरसौख्यं भुक्त्वा प्रान्ते च्युत्वाऽत्रैव भरते क्वाप्याभीरकुले सुतो जातः । यौवने पितृभ्यां परिणागितस्तस्य सुरूपेति कन्याऽभूत् । अन्यदा स आभीरो यौवनप्राप्तां तां शकटधुरि निवेश्यान्याभीरैः सह घृत विक्रेतुं पुरं प्रति चचाल । मार्गे आभीराणां तामेव पश्यतां शकटान्युत्पथं गतान्यास्फाल्य भग्नानीति । तैस्तयोरशकटाऽशकट पितेति नाम्नी दत्ते । ततोऽशकटपिता काले कन्यां विवाह्य वैराग्यात् क्वापि गच्छे प्रव्रज्य योगोद्वहन पूर्वमुत्तराध्ययनान्तश्चतुर्थमसंख्यमध्ययनं पठितुं लग्नः । परं पूर्वार्जितज्ञानावरणकमदयादाचा लद्वयेनाप्येकापि गाथा नागात् । ततो गुरुणाऽनुज्ञाप्यतेऽखेदमित्युक्तं कीदृशोऽस्य योग इति सोऽपृच्छत् । गुरुराह - " यावदिदं नैति तावदाचाम्लानीति । " सोऽप्येतामेव प्रतिज्ञां कृत्वा नित्याचाम्लत पास्तत्पठति, तथापि नायाति । ततः "अहो ? मूर्खोऽयं नित्यमेतदेवाधीते" इति निन्द्यमानो रुष्यति । केऽपीदं कथयन्ति - "अहो ? धन्योऽयं कथं सोद्यमः पठति ।" इति स्तूयमानस्तुष्यति, इति ज्ञात्वा गुरुणोक्तः - "वत्स इदमध्ययनं मुक्त्वा 'म रूसि मतूसि ' इत्येवं पठ । " स च तीव्रकर्मोदयात्तस्य स्थाने स्मार्यमाणोऽपि 'मास तुस ' इत्यधीयते । तस्यैवमाचाम्लतपसा द्वादशवर्षातिक्रमेऽशेषं तत्कर्म क्षीणम् । ततः सर्वज्ञानविभागी जातः । अतः श्रतं बहु मन्तव्यम् ॥ ३ ॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श॥ कथा जामदेव उपधान योगतपः । तद्विना सिद्धान्तवाचने आशातनायो सिंहकथा कौशाम्ब्यां सिंहो राजा बलीयान् । स कुगुरुसेवया खेटकं कुर्वनरण्ये साधुना बोधितः पापभीका श्रीदमघोषाचार्यपार्श्व प्रव्रज्य योगोबहनपूर्व चत्वार्यङ्गानि प्रवाचितवान् । ततो गुरुभिर्विहारे कृते सुकुमारस्वाषाण्मासिकयोगोद्वहनाभावेऽपि भगवत्याद्यङ्गानि वाचयन् कुष्टी जातो महावेदनां भुक्क्ते । अथो गुरुभिः स्तत्रागत्याविधिवाचनातो मिथ्याग्देव्या छलितोऽसाविति ध्यानाज्ज्ञात्वा कायोत्सर्गाकृष्टाशासनदेवीव. लात् प्रत्यनीकादेवीं शमयित्वा राजर्षिनिरामयः कृतः। अथ सम्यगालोच्य प्रायश्चित्तेन स्वं विशोध्य सर्व योगोदहनादिना ज्ञानमाराध्य मुक्तिसौख्यभाग् बभूव ॥४॥ नियो गुरोरपलापः । तत्राविप्रकथा-- P कोऽपि ब्राह्मणो दुर्भिक्षभावाद्विदेशं गतो विद्याबलादाकाशस्थया भण्डिकया सह गच्छन्तं नापितं 2वीक्ष्य तत्सेवया तां विद्यां लब्ध्वा प्रतिष्ठां श्रियं च प्राप्तः । सुभिक्षे स्वं देशं गतो लोकैः पृष्टः-"कस्ते गुरुः" सोऽपि नीचगुरुलजया महत्त्ववन्तं गुरुं वदस्तत्कालं भ्रष्टविद्यो जातो धौतपोतिश्चाकाशात्पतित इति ॥५॥ व्यञ्जनं सिद्धान्ताक्षरम, तस्य भेदो बिन्दुमात्रादिना परावतों न्यूनाधिकता। एवमर्थस्य, तदुभयस्यापिभेदो वाच्य एषः । तत्राशातनायां मित्रचतुष्ककथा वसन्तपुरे जितारिराजस्य चतमृणां राज्ञीनां क्रमेण चत्वारः पुत्रा रुद्र-मेघ-धीर-धीरनामानः प्राग For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEESEASABASEARCASH जन्मस्नेहान्मिथोचितक्रीडायुक्ताःक्रीडन्तिापरं रुद्रस्य वदतो जिह्वा विलगति। मेघस्यान्यबदतोऽन्यदेवायाति । धीरस्य वाणी अस्फुटत्वान्न परैरीप्स्यते । वीरो मूकत्वाद्वक्तुं न शक्नोति । अन्यदा ते चत्वारोऽपि षोडशवर्षा यौवनान्तर्गताः । तदा साधु ध्यानलीनं वीक्ष्य वितर्क कुर्वन्तः साधुना पृष्टा:--" भोः ? कुतः समेता भवन्तः । " रुद्रेणोक्तम्-" किं पृच्छयते ! ननु नगरादागता वयम् ।" मुनिः प्रोचे-“ नाहं तत्पृच्छामि । कुतो भवादागता इति पृच्छामि । रुद्रो जल्पति-"भोभोः ! पाखण्डिन् ! किमेवं वक्रां वाचं वदसि । किं कोऽपि पूर्वभवानपि वेत्ति?" ऋषिर्वभाषे-" कोऽपि कोऽपि वेत्ति । यदि कौतुकम्, श्रुणुत श्वानभवाद्भवन्तोऽभ्येताः।" इत्याकर्ण्य कोपादुकोशान् खड्गानुत्पाद्य रे रे ! असम्बद्धं लपसि । पश्य किं कुर्म इत्याको शन्तो हन्तुं धावितास्तपःप्रभावाच्च स्तम्भीभूता दीनास्या इत्यूचुः-"ऋषे ! सत्यमुक्तं कोऽत्र प्रत्ययः।" साधुनोक्तम्-" वीक्ष्यध्वं प्रत्ययम् । पुराऽत्रैव पुरे सम्यग्दृष्टिर्मज्जाजैनोऽग्निशर्मा विप्रोऽभूत् । तस्य चत्वारः पुत्राः पूर्ण पद्म-पञ्चानन-भीमाख्या आर्यवेदान् पठित्वा नवतरवादिविचारग्रन्थान् भणिताः विचारज्ञा जाताः परिणीताश्च । अन्यदा पिता पुत्रान् कुटुम्बभारे नियोज्य दीक्षां चादाय तपसाऽवधिज्ञानी जज्ञे । तत्पुत्रास्तु यदा विद्वद्गोष्ठी कुर्वन्ति तदा प्रज्ञामदेन पूर्णः सूत्रभेदं कुरुते-' यथा धम्मो मंगलमुक्किहमिति पुण्णं कल्लाणमुक्कोसम् ।' पद्मश्वार्थभेदं विधत्ते यथा-'धम्मो मंगलमुक्कट्ठ धर्मों धातुरर्थात् सुवर्णमुत्कृष्टं मङ्गलं सर्वार्थसाधकत्वात् ।' पञ्चाननश्चोभयभेदं करोति यथा-'धर्मों मङ्गलमुत्कृष्ट धर्मों धातुर्मङ्गलग्रहवन्मयाधिकारात क्रौर्यल PROCEAECAE 3 9 For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir हामदेव BIKASIS म्या उत्कृष्टः।' भीमः सिहान्तार्थ विपरीतं व्याख्याय धर्मस्यावर्णवादं करोति यथा-'धर्म उत्कृष्टमङ्गलं ॥ कथा शान्तरसत्वेनाकिश्चित्करत्वात् । ततः पापं मङ्गलमुत्कृष्टं हिंसाऽसत्यचौर्यादितभेदानां सर्वकार्यकरत्वात्।' एवं ते तीव्र ज्ञानावरणीयं कर्म बध्नन्ति स्म । तथालाभादुन्मार्गदेशनेन सन्मार्गनाशनेन च तिर्यग्गतिमज्जपन्ति स्म । अन्यदा ग्रीष्मे मध्याहूने प्रदीपने तीव्र लग्ने सारभाण्डाकर्षणाय गृहान्तःप्रविष्टा आर्तध्यानेन विनष्टास्तत्रैव पुरे मातङ्गपाटके श्वाना जाताः। ते च जन प्रति धावन्तः कदाचिन्मा पूर्वजन्मपितरं पथ्यागच्छतं दृष्ट्वा तारस्वरं भाषन्तो धाविताः,सनामग्राहं च मया नामतो वादिताः, मामवलोकयन्तो जातिस्मरणं प्रापुः । अथ च स्मृतनिजपापाज्जातपश्चात्तापाः साधितानशना राजपाटिकां गच्छता राज्ञा पूज्यमाना राजधान्यामेव मृता राजपुत्रा भवन्तोऽवतीर्णाः। अहं तु संसारसम्बन्धे भवत्पिताऽग्निशर्मा ।"इति यतिवाचं कुमारपरिवारमुखाच्छुत्वा राजा तत्राययौ । तदा कौतुकान्मिलितेन लोकेन मुनिरूपलक्षितो वन्दितश्च । राज्ञाऽथ किमेतदिति पृष्टे साधुनोचे-"भवत्पुत्राः सर्वे ते प्राग्भवनिजावासकुटुम्बादि वीक्ष्य प्रत्ययमुत्पादयि. व्यन्ति । "ततो राज्ञा लोकादग्निशर्मगृहं ज्ञात्वा पुत्रास्तत्रानीताः पूर्वानुभूतस्वकुटुम्बादि निरीक्ष्य जाति स्मृत्वा "हा ! कथं हारितो मानुषो भवः । अथ प्रव्रज्य पापाच्छुटामः" इति वैराग्यात्पितरौ महाग्रहेण परीप्सित्वा मुनिना सह श्रीगुणाकरसूरिपार्श्व गत्वा दीक्षां जगृहुः । ततो ज्ञानस्य कालाधष्टाशातनात्यागेन सर्व । २० ।। गर्व मुक्तवा ज्ञानिनां भक्तपानानयनविश्रामणादिभत्तया च बहु ज्ञानावरणीयं कर्म क्षपयित्वा पण्डितमृ. CAREGALA For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्युना सर्वार्थसिद्धिं गत्वान्त्रैव भरते श्रावस्त्यां सुग्रीवराजस्य वैमात्रेयाः पुत्रा जज्ञिरे हंसः कंसः कामः कुंभश्च । कालेऽचिरात्सकलकलाः कलयित्वा वयःस्थाः सुखक्रीडां क्रीडन्तो वर्त्तन्ते । इतश्च कोशलायां प्रतापराजचतसृणां राज्ञीनां चतस्रः कन्याः सामश्री - सत्यश्री - धनश्री-गुणश्रीनामाना वर्त्तन्ते । ताश्चान्यदा प्रीत्या खेलन्त्यः स्वं स्वं मनोरथं क्रमात्प्रकाइयैवं प्रतिज्ञामकार्षुः- “ यो यामेन श्लोकसहस्रपाठां दत्ते स मे भर्त्ता ? एकari श्लोकसहस्रं श्रुतं धारयति स मे पतिः २, यो यामेन श्लोकसहस्रं नव्यं करोति स मामुद्रहति २, एकैकस्य श्लोकस्य यः सहस्रमर्थ वक्ति स मे वाढा ४ । ” इत्येतत्तासां वाचः श्रुत्वा पिता स्वयंवरोत्सवार्थ राज्ञो राजकुमारांश्चाकारयत् । तदा च सुग्रीवोऽपि सपुत्रस्तत्रागात् । अथ स्वयंवरमण्डपे निविष्टे राजलोके समागता नरविमानारूढाश्चतस्रोऽपि कुमार्यः प्रतिहार्या राजवर्णने कृते निजनिजप्रतिज्ञां प्रकटयामासुः । ततस्तत्प्रतिज्ञापूरणेऽशक्तत्वात्तूष्णीस्थिते सर्वराजवर्गे सुग्रीवराजादेशाच्चतुर्भिरपि कुमारैः क्रमात् पूरितास्तासां प्रतिज्ञाः । क्षिप्ता बालाभिस्तेषां कण्ठे वरमाला । जातो. जयजयारवः । तदा च तद्गुणरञ्जितचेतोभिभूपस्तेषां प्रत्येकं प्रत्येकं दत्ता द्वात्रिंशद् द्वात्रिंशत्कन्यकाः । निष्पन्नो विवाहोत्सवः । सर्वेऽपि सम्मानिता राजानः स्वं स्वं स्थानं ययुः । अतीते दशाहोत्सवे सवधूकैः कुमारैः सह सुग्रीवो राजा स्वपुरीं गत्वा राज्यमपालयत् । कुमाराश्चत्वारोऽपि महाप्राज्ञतया ख्यातिं प्राप्ताः । अतो दूरदेशवासिनोऽनेके राजानो राजकुमाराश्च महापण्डितयुक्ताः सर्वशास्त्र सन्देहा पनोदार्थं तत्रागत्य राजस भास्थितांस्तान्समुपासन्ते । एवं पितुः For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ कथा REAKH कामदेव प्रसादात्सकलसुखानि भुञ्जानानां तेषां बहुकालोऽतिक्रान्तः । अन्यदा पुत्रादिपरिवारसहितो नरेश्वरो वने ॥२१॥ केवलिनं साधु समवसृतं नत्वाऽमाक्षीत्-"प्रभो! केन सुकृतेनामी मत्पुत्रा महाप्राज्ञा जज्ञिरे ।" केवली चाग्निशमविप्रपुत्रप्रमुखां भवचतुष्कका सर्वामुक्तवा तृतीयभवे दीक्षामादाय ज्ञानस्य सर्वाशातनात्यागेना. राधनाया ज्ञानिना चाहङ्कारत्यागेन भक्तपानादिशुश्रुषयाऽमीभिरेतत्फलं प्राप्तमित्यवादीत् । तथाकर्ण्य ते ४ राजपुत्रा यकस्य ज्ञानस्याराधनादेतत्फलं जातं, तदा ज्ञानदर्शनचारित्राणां संपूर्णाराधमाच्यास्वतसुखावलासानं फलं भाषीति तीव्रसंवेगात्कथमपि पितरावापृच्छय सान्तःपुरं परिवारादिपरिकरं परिहत्य श्रीकेवलि पार्षे प्रव्रज्य निर्मलचारित्रात्केवलज्ञानमवाप्य सिद्धिपदः प्रायः ॥ ८॥ स एवं च कामदेवकुमारः केवलिमुखाज्ज्ञानावरणीयकर्मणो बन्धहेतून् श्रुत्वा लोकलज्जया निजाज्ञान&ताहेतुमपृष्टवैव केवलिनं नत्वा स्वसैन्यं गतः । कालादयोऽपि वैरं मुत्सवा स्वस्थानं गताः। ततो रात्री सुप्त सर्व जनं मुक्त्तवा कामदेवो देवतोपास्पमानं केवलिनं प्रणम्य निजपूर्वभवकथा पप्रच्छ । अथ भगवान् मोवाच. " उज्जयिन्यां भीमः क्षत्रियो घूतेन खेलन्महाचौरोऽभूत् । स च मातापितृभ्यां निष्कासितोऽरण्ये स्थितशौर्येण निर्वहति । अन्यदा काश्मीरदेशादागच्छन्तं जैन ब्रावणं हत्वा पुस्तकभृतं वृषभ गृहीत्वा यावदुन्मुद्रयति तावन्मीषीपोतसमानमलिनखण्डस्यूतवनवेष्टितपुस्तकान्येव वीक्ष्य कोपात्पादाभ्यां हत्वा हत्वा जज्वाल । तब ज्ञात्वोज्जयिनीशेन घातितो भीमो रौद्रध्यानाचतुर्थ मरकं दशसागरोपमान्यायु तवा तन्दुली RECIPESASSSS ननवालमुखाजामा RS For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मत्स्योऽभवत् । तत्रान्तर्मुहुर्तजीविताच्च महारौद्रध्यानात्सप्तमं नरकं गत्वा त्रयस्त्रिंशत्सागराण्यायुमुत्तवा ब्राह्मणगृहे भारवाहकः पृष्टिवाह जातः । स च तत्र त्रीणि वर्षसहस्राणि भारमुत्पारय छुटितो भूमौ पतितो भिक्षार्थमागतान् साधून दृष्ट्वा प्रान्ते भद्रकभावान्मृत्वा कौशाम्पा भद्रष्ठिकरहे सोमनामा कर्मकरोऽजनि । सोऽथ श्रेष्ठिना प्रकृत्या पाल्यादपि सर्वप्रकारानज्ञानविद्भक्त्या सोमश्रीनामकुलपुत्रिकया विवाहितः। तोच बावप्यासन्नसाधुसङ्गत्या दयातत्परतया निर्मलचित्तौ श्रेष्ठिगृहे सर्वकर्माणि कुर्वन्तो कालमतिचक्रमतुः । अन्यदा चतुर्मासकदिने चैत्यपरिपाटी कुर्वता सकटुम्बेन धनेन सार्द्ध तो शवपि प्रतित्यं देवान पूजपन्ती साधूलत्वा दानाधिकारे इस्युपदेशं शुश्रुवतुः-- 'सुक्षेत्रे यथा बीजमुप्तं दत्ते फलं बहु । तपैह पुण्यक्षेत्रोप्तं वित्तमल्पमपि भुवम् ॥१॥ पुण्यक्षेत्राणि चामूनि-- नियदब्वमउव्वजिणिंदभवणजिणविपवरपाडासु । वियरइ पसइस्थपुत्थयसुतित्थतिस्थयरजसासु ॥१॥ तत्रापि पुस्तकक्षेत्रस्य पुण्यमधिकं सर्वेषां पुण्यमार्गाणां प्रकाशकत्वात असंख्पजीवप्रतिबोधोपकारस्वाच्च । किञ्चसयलमिवि जीयलोए तेण इह घोसियो इमो चाओ । इपि जो दहतं सत्तं बोहेर जिणवपणे ॥१॥ ततो ययेकेन जीवेन बोधितेन सर्वजीवलोककृतामायुपोषणायाः फलम् । तदाऽनेकजीवमतिबोधस्य For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कामदेव ॥ २२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir फलं केन वक्तुं शक्यते । एकोऽपि जीवो बोध्यते शास्त्रोपदेशेन । शास्त्रस्य च पुस्तकमेवाधारः । ततो येन ॥ कथा. पुस्तकक्षेत्र सत्यापितं तेन सर्वाणि पुण्यक्षेत्राणि सर्वे च पुण्यविधयः सत्यापिताः' इत्यादि श्रुत्वा सोम-सोम feat धनश्रेष्ठिना सहोपवासं कृत्वा गृहं गत्वा स्वद्रव्यसामर्थ्येन सर्वपुण्यक्षेत्रमुख्यं पुस्तकपुण्यक्षेत्र मेवाराध्यते । इति पर्यालोच्य प्रातः स्वधनेनैष सिताघृतपायसं योगं कृत्वा मिथः स्थाले परिवेष्य यावद्भोक्तुमुपविशतस्तावन्मासक्षमणसाधुसमेतं वीक्ष्य सम्यग्भावतया तस्मै पायसं दावा भोगफलमज्जयतः स्म । ततः षोडशदीनारैः सोमो द्वादशदीना रैः सोमश्री' पुस्तकं लेखयामासतुः । प्रान्तकाले द्वावप्यनशनतो मृत्या सौधमंदेवलोके स्वर्गसुखानि भुक्तवा सोमो भवानवतीर्णः सोमश्रीश्च सौभाग्यमञ्जरीति । पुस्तकानामाशामना करणामूर्खोऽभूत् । अथ च पुस्तक लेखनपुण्यात्षोडशमा सधैँ त सर्व कश्मलोऽतीव विद्वान् भविष्यसि । " इति केव लिवचः श्रुत्वा पादयोर्लगित्वा 'भगवन् ! अज्ञानतः कृतज्ञानाशातनायाः प्रायश्चित्तं देहि ।' इति कुमारेण विज्ञप्ते केवली प्रोचे - " कुमार ! संप्रति मध्यमद्वाविंशतितीर्थंकरवारकेऽष्टमासिकं निर्मलं तपस्तच्च षोडशमासैरेकान्तरोपवासैर्विधेहीति । " अत्रान्तरे तत्र स्थिता सरस्वती देवताऽवोचत्-" चतुरो ज्ञानकोशान् कारय यथा विशेषलाभः स्यात् । " तावन्मंत्रिणोक्तम्- " देवि ! धर्मान्तरायकृदेष वादसमुद्रः कथं तार्यः । " देव्यो क्तम् - " श्रीवज्रनाभकेव लिप्रसादान्निश्चितैर्भाव्यम् । सर्वमहं जाने । किञ्च सौभाग्यमञ्जर्याः सौधे राजहसौ स्वयंवरे पाञ्चालीवादोमारूपिणीति सबै तापस्थाराधितो यक्षोऽकार्षीत् । अथ सम्प्रत्त्वमूलं श्राद्धधर्म भजस्व I 1 For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा सर्ववातिसिद्धिः स्यात् । मतः कुमारः सपत्नीकः केवलीपार्श्वतं प्रतिपद्य स्वसैन्यं ययौ । केवली लोक प्रतिबोधाय विजहार । तावत्पाप्ताः काश्मीर देशात्पण्डिताः पूर्वमाहूताः सर्वेपि विख्याता भूभुजः । निष्पन वादमण्डपः । सौभाग्यमअरी परपुरुषं स्वप्नेऽपि नेच्छति । परं यो हारयिष्यति स यावज्जीवमन्यस्थ सेवां विधास्यति, इति पणो जातः । भव्यदिने मिलिताः सभ्याः, निविष्ठा मञ्चेषु भूपाः । उपवेशिता पण्डिताः । जातो वादः । सरस्वतीप्रसादाज्जीतं कामदेवेन । जयजयारवः । भूषितं यशसा विश्वम् । ततः सेवकीभूतैः कालादिभिः सह महोत्सवपुर: संचलितः स कुमारः स्वपुरं प्रति । अथ राजा श्रीसुरदेवः स्वपुत्रस्य कीर्त्ति Marsतीव हृष्टोऽविच्छिन्नप्रयाणैः आसन्नागतस्य सन्मुखो जगाम । कुमारो भूतललुठन्मौलिस्तातं ननाम | अथो मिथोचितकथादिरने जायमाने पुरे च प्रत्यासन्नीभूते राजा प्रवेशोत्सवविधापनाय पुरो भूत्वा पुरं । कुमारः सरस्तीरे ससैन्यः स्थितः । चन्द्रलेखा कदलीवने क्रीडार्थं गता सुवर्णपिच्छं केकिनं दृष्ट्वा कुमारायाकथयत् । कुमारोऽपि कौतुकाक्षिप्तचेताः शनैः शनैस्तत्र गत्वा लीलयोस्प्लुत्य यावन्मयूरमारुरोह तात्केकी सहसोत्पपात । एष यात्येष यातीति क्षणाददृशोऽभूत् । तदा चास्तंगतो रविः । प्रसृतं विश्वे तमः शोकेन पूर्ण सैन्यं तारमरोदीत् । सौभाग्यमञ्जरी नैमित्तिकं गत्वा फलादिकं दत्त्वा पृष्टः सः प्रोचे- “ न धापाप शोकधीः । सार्द्धवर्षेण कुमारः प्राप्तेश्वर्योऽत्रैवैष्यतीति । " जातो हर्षः । अथामात्यः कुमारागमं यावदत्रैव स्थीयतामिति तत्रैव सेनामस्थापयत् । इतश्च कलापी कुमारं गृहीत्वा वैतादयगिरौ विद्याधरच For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथा कामदेव वर्तिनो रत्नाङ्गदस्य रथनूपुरपुरोद्याने मुमोच । ततो रत्नाङ्गदचक्री संमुखमागत्य विनयपूर्वकं पुरान्तःसौध. ॥२३॥ मध्ये प्रवेश्य सिंहासने निवेश्योवाच-" कुमारेन्द्र ! श्रृणु-मत्पुत्री रत्नमअरी सिद्धायतने देवान् पूजयित्वा मण्डपे मधुरस्वरेण स्तोत्रमेकचित्ता पठन्ती देवार्चनार्थ तत्रागतया लक्ष्म्या दृष्टा सस्वरा श्रुता। ततस्तुष्टया बरो दत्तः-'कामदेवस्ते वरो भूयात् । स चाधुना सौभाग्यमञ्जरी परिणीयायोध्यां स्वां पुरी प्रतिव्रजमस्ति । ४ इति लक्ष्मीवचो मया ज्ञात्वा केकिछद्मना त्वमत्रानायितः ततोऽस्या मत्पुत्र्याः पाणिग्रहणं कुरु।" कुमारोऽवादीत्-" राजेन्द्र ! षोडशमासीमेकान्तरोपवासान् कृत्वा मया कार्यान्तराणि कार्याणि |" चक्री पाह"साधय स्ववाञ्छितम्। ततः कुमारश्चक्रिसानिध्यातत्रिकालं सिहायतने देवपूजां कुर्वन्नकचित्तःप्रायश्चित्ततपः सम्पूर्णमकरोत् ।अथ च क्षीणे ज्ञानान्तगयकर्मणि लक्ष्मी दत्ता रोहिण्यादयो महाविद्या लीलया साधयामास । अथ शुभलग्ने नवनवैर्महोत्सवैः रत्नमअरीं परिणीय तत्रान्यत्र च सर्वविद्याधराधीशबहुमानं लभमानो मासदयं तत्र स्थित्वा दिव्यं विमानमारुह्य सपत्नीको विद्याधरसहस्रपरिवृतो महत्या छत्रचामरादिऋद्धचा राजमानो दिव्यवाद्यनादेन ब्रह्माण्डमापूरयन्नेष महानन्द एष महोत्सव समेतीति सैन्यकैरुत्फुल्ललोचनमी. क्ष्यमाणः सार्द्धवर्षातिक्रमे निजसैन्यमागात् । राजा सूरदेवोऽपि तज्ज्ञात्वा निवृत्तशोकप्रमोदमेदुरश्रीः सान्तःपुरपरिवारः कुमारदर्शनोत्कण्ठया तत्रागत्य दुरादपि लुठन्तं भालेन पादौ स्पृशन्तं हर्षाश्रुधारा वर्षन्तं सुतं । कराभ्यामूवीकृत्योभयकराभ्यां गाढमालिङ्गयन् परमानन्दमबाप। तं स एवाज्ञासीत् केवली वेति । अथ च ॐASS-ESSAGE For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org SEASOURCUL संकटीभूतभूगोलो गजाश्वरथपत्तिभिः । विद्याभृतां विमानस्तु सम्पूर्णव्योममण्डपः ॥ १॥ हृयवायपटुवान-बधिरीकृतदिग्गणः । कान्तादयसमायुक्तः पट्टमातङ्गमाश्रितः ॥ २॥ पित्रानुगाम्यमानाध्या महाऋचा विक्षितः|शुभेऽहि स्फारशृङ्गारः कुमारः प्राविशत्पुरीम्॥३॥त्रिभिविशेषकं । अथ राजा बहुमानपूर्व सर्वान् भूचरान् खेचरान् समस्तभूपालान् विसृज्य कुमारसेव्यमानपादश्विर राज्य पालयामास । अथ वर्दापयदागत्य भूपालं वनपालकः । स एव केवलज्ञानी त्वदाराममुपागमत् ॥१॥ कः स एवेति राज्ञोक्ते वभाषे वनपालकः । स्वयंवरात्कुमारणागच्छताऽवन्दि यः पथि ॥२॥ दत्त्वा दानं ततस्तस्मै नृपतिः पारितोषिकम् । वनं गत्वा मुनि नत्वा श्रुत्वा तवार्थदेशनाम् ॥३॥ मध्ये पुरं समागत्य सत्यवैराग्यरङ्गतः । पुत्र राज्येऽभिषिच्याथ प्रवव्राजान्तिके मुनेः॥४॥ युग्मम् ॥ ततो राज्यं पितुः प्राप्य कामदेवनरेश्वरः। पितेवातुल्यवात्सल्यापालयत्यनिशं प्रजाः ॥ ५॥ सम्पूर्णान् भारतीकोशान् चतुरश्चतुरो नृपः । निर्माल्यार्चयति स्वान्तशुद्धया सिद्धान्तयुक्तिभिः॥६॥ तथाहि-जीवाभिगमे विजयदेवोत्पाते राजप्रश्नीये सूर्याभदेवोत्पाते एवं दृश्यते-"साए सभाए पुत्थ| यरण लोमहत्थएणं पमज्जइ । दिव्याए उदगधाराए अभिमिचइ । सरसेण गोसीसचंदणेण अणुलिंपइ । अ४ ग्गेहिं बरेहिं गंधेहिं अग्विणइ । जाव धूवं दलह।" इत्यागमवचनाद्वीतरागपूजावत पुस्तकपूजाविधिः । RECER For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कामदेव ॥ २४॥ भाग्येन विदधे तस्य लक्ष्मीरक्षीणकोशताम् ।अतोऽसौ सर्वलोकानां मुमुचे सकलान्करान् ॥१॥ प्रजास्तस्मिन्नृपेऽभवन्निरातङ्का निरामयाः । चिरायुषो महासौख्याः शुद्धसन्ततिशालिनः ॥ २॥ अथो पृथिव्यां सर्वत्र परहोद्घोषपूर्वकम् । प्रावर्तयन्महाज्ञानसत्रागारं नराधिपः ॥ ३ ॥ प्रतिद्वगं प्रतिव्रजं... ... ... ।राजा नियोजयामास पाठकान्शास्त्रशिक्षणे ॥ ४ ॥ सम्यकशास्त्राण्येकचित्तो यः पठिष्यत्यनारतम् । प्रयिष्यामि तस्याहं भोजनाच्छादनादिकम् ॥५॥ राजनिर्मापितां श्रुत्वा घोषणामिति सर्वतः । अजायन्त प्रजाः सर्वाः शास्त्राभ्यासकलालसाः ॥ ६॥ लक्ष्मी सरस्वती चापि विरोधं स्वस्वभावजम् । विमुच्य भूपं भेजाते रेजाते ते ततोऽधिकम् ॥७॥ ये भूपा भरतार्डेऽस्मिन् विक्रमाक्रान्तशत्रवः । तैरप्यसेवि तत्पादवयी पुण्यानुभावतः ॥ ८ ॥ तस्य विद्याबलेनाथ नाथा विद्याभृतामपि । वशीभूताः पदाम्भोजसेवाहेवाकिनोऽभवन् ॥ ९॥ एवं षोडशभिर्भपसहस्रैः सेवितक्रमः । वासुदेव इव श्रीमान् कामदेवो व्यराजत ॥१०॥ सौभाग्यमञ्जरीकुक्षिसरस्यां राजहंसवत् । राजहंसकुमारोऽभूद्गुणानामेककास्पदम् ।। ११ ।। अन्यदा देहकार्याणि कृत्वालस्कृतभूषितः । भेजे भद्रासनं भूपः सर्वऋद्धिसमन्वितः ॥ १२ ॥ इतश्च-राज-युवराज-महाराज-राजमन्त्रि-श्रेष्ठि-सार्थवाह-सेनापतिसहस्रसंपूर्णायां सप्रभायां तस्यां सभायां जायमानेऽभरे नाट्यादिरके, प्रवृतासु पौराणिकानां पूर्वपुरुषसंकथासु, निषाद्यमाने विपश्चि Micles For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तामपमादे शास्त्रसंवादे. विधीयमानेषु कारणिकै राज्यसारेषु व्यवहारेषु, सत्याप्यमानासु नियोगिभिलेखका दिचिन्तासु समानीतस्तत्र बालहारैरुदारसारशृङ्गारः श्रीराजहंसः कुमारः।तं च पश्चवार्षिक मरालवालमिव सकलभूपालोत्सङ्गकमलेषु संचरन्त निरीक्ष्य महामोहोन्नुह्यमाने मानसे चिन्तितवान्महीपतिः श्रीकामदेव:& "अहो । कोऽयम्, कस्य सुतः, को वेत्ति, कुतः समेतः, क्व यास्यति ततः कोऽनेन सम्बन्धः। केवलं वृथैवासी * सर्वस्नेहसम्यन्धः____एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे १॥ किश्च एगो मे सासओ अप्या नाणदंसणसंजुओ। सेसा मे याहिरा भावा सम्वे संजोगलक्खणा ॥१॥ संजोगमूला जीवेण पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्यं भावेण वोसिरे ॥ २ ॥ इत्योधेकत्वभावनां भावयन् भूमीपतिः क्षपकश्रेणीमारूढः क्षीणेषु चतुष्वपि कर्मसु केवलज्ञानमवाप । ततो "जयतु समुत्पन्नकेवलज्ञानश्रीकामदेवराजर्षिः" इत्याकाशवाणीमुच्चरन्त्या शासनदेवतया दत्तो वेषः श्रीकामदेवमहामुनिः केवलानन्दमहोत्सवान्तरमहो किमेतदिति साश्चर्यै राजसहस्रैरनुगम्यमानो महीमण्डले चिरं विहत्यानेकलोकान्मतिबोध्य महोदयपदं भेजे। भRESOUS55 For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir कथा कामदेव // 25 // राजहंसकुमारस्तु सर्वराजप्रधानपुरुषस्तस्य पढे प्रतिष्ठितः प्राज्यराज्यं पालयन् सकलश्रेयासुरवानि मुश्क्ते। एवं श्रीकामदेवक्षितिपतिचरितं तत्वषड्वाद्धिभूमीसंख्ये श्रीमेसतुङ्गाभिधगणगुरूणा वत्सरे मोक्तमेतत् / भुत्वा ये पुस्तकानां विदधति विबुधा लेखन वाचना मुख्यां भक्ति च ते स्युः सकलशिवसुखपाज्यलक्ष्मीनिवासाः // 1 // श्लोकसप्तशतान्यष्टाचत्वारिंशच निश्चिता / अत्र सप्ताक्षराणीति प्रत्यक्षरनिरीक्षणात् // 1 // SHEK SHESECREKHA 5555555555555555 // इति कामदेवकथा समाप्ता // 55555555555555555555555 For Private and Personal Use Only