________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
195
कामदेव
नृपति
॥१॥
SIN-
कथा
“जाता पञ्च मतिश्रुतावधिमनःकैवल्यपुत्राः प्रभोः, तन्मध्ये श्रुतनन्दनो भगवता संस्थापितः स्वे पदे। अङ्गोपाङ्गयुतश्च पुस्तकगजाध्यारोहलब्धोदयः, सिद्धान्ताभिधभूपतिर्गणधरामात्यश्चिरं नन्दतात् ॥१॥"
अतो ज्ञानस्य पुस्तकस्य च यथाशक्ति भक्तिः कार्या । यथाऽमुत्र परत्र च सर्वसौख्यसंपत्तिः स्यात् । सकलकलाश्च विलसन्ति । यश्च ज्ञानपुस्तकयोराशातनां करोति,स निबिडज्ञानावरणीयकर्म बद्ध्वाऽनेकदुःखवि भागी महामूर्खश्च जायते, यथा कामदेवः । यदि च पश्चादपि ज्ञान पुस्तकयोभक्तिं करोति, तदा सुखी भोगी विद्वांश्च भवति, यथा स एव कामदेवः पश्चात्प्रौढराज्य-प्रताप-विद्या-कला-पात्रं जातः । तथा यदि कोऽपिजीवो जन्मतोऽपि यावजीवं सर्वप्रकारानमाराधयति, तदा सर्वदेव स सर्वसौख्यपात्रं स्यात् महाप्राज्ञहूँ श्च, यथा कामदेवस्यैव भार्याऽभङ्गुरभाग्या सौभाग्यमञ्जरी । तथाहि
अत्रैव जम्बूद्वीपे भरतक्षेत्रे श्रीपञ्चमतीर्थकरश्रीसुमतिनाथवारकेऽयोध्या नाम नगरी वर्तते ।
पूर्व प्रभुश्रीऋषभस्य राज्य-प्राज्यप्रतिष्ठासमये निरीक्ष्य । विनीतलोकान् भरते विनीते-त्यारव्यां पुरी स्थापितवान् हरिर्याम् ॥१॥ असंख्यकालेऽतिगते विपक्ष-लक्षरयोध्यस्फुटवीरकोटेः। निवासभावादथ साप्ययोध्ये-त्याख्या क्षितौ लक्षणया प्रपेदे ॥१॥ तस्यामयोध्यानगर्या वर्या शुजालदेदीप्यमानभालः प्रबलपराक्रमाकान्तभूपाला प्रत्यर्थिसार्थिकालः
BAPESHABC
RECOR
For Private and Personal Use Only