________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| ओं अर्हम् ॥
॥ श्रीमदाचार्य श्रीमेरुतुङ्गसूरिविरचिता श्रुतज्ञानाराधनविराधनफलप्रदर्शिका
कामदेव नृपति कथा ॥
जयति का तिपूर्तिसुरद्रुमः, सुरनरोरगनाथनतक्रमः । कुशलपद्मविकाशदिनेश्वरः सुमतिपारगतः परमेश्वरः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इह किल सकलसामग्रीसंपूर्ण मानुषं भवमवाप्य भुक्तिमुक्तिसुख सिद्धये पुण्यमेव विधेयम् । पुण्यं च ज्ञानात्, ज्ञानं च गुरूपदेशात्, गुरूपदेशश्च शास्त्रात्, शास्त्रस्य च पुस्तकाधारः । अतः सर्वक्षेत्रे पुस्तक मेव प्रधानं पुण्यक्षेत्रम् | यदुक्तम्- सर्वक्षेत्रेषु पुण्यस्य पुस्तकक्षेत्रमुत्तमम् । यदन्यसर्वपुण्यानां जायतेऽस्माद्व्यवस्थितिः ॥ १ ॥ किञ्च पञ्चानामपि ज्ञानानां मध्ये श्रुतज्ञानमेव देव-दानव-मानवप्रतिबोधकारित्वान्मुरव्यम्, तच पुस्तकगजाधिरूढमेव राजलीलामनुभवज्जगति विजयते । उक्तं च
1
For Private and Personal Use Only