________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ करिष्यथ, तदाऽस्मत्स्वामी संग्रामे सज्ज एवास्ति । पश्यत परितः सैन्यानि । सर्वत्र धर्मो जयति, नाधर्मः, इति ज्ञात्वा यथोचितं कुरुध्वम् । " ततः सर्वतः स्वसैन्यं वैरिभिर्वेष्टितं दृष्ट्वा महाकालकुमारो. ऽभाषिष्ट-" भो भट्ट ! साधूक्तम्-धर्मो जयति नाधर्मः' परं यद्येवं भवत्स्वामी वेत्ति तदा किमेवमधर्ममाचरति-'यत्पाञ्चालीछद्मना कन्यां परिणयति। न्यायधमैकनिष्ठोऽस्मत्स्वामी सर्वथैतन्न सहते। अथ नैवं त. हिं विद्वत्समक्षं वादेऽस्मानिर्जित्य राजपुत्रीं गृह्णातु भवत्प्रभुः । ततो भमुखादेतां वैरिवाचमाकर्ण्य मन्त्री द्वेधापि कालक्षेपाय पुनस्तन्मुखेनैवेदं वैरिणो ज्ञापयामास-" भवत्वेवम् । परं सम्यगविद्वांसः काश्मीरदेशे सन्तीति । तत एव तानाकारयध्वम्, यथा दयते कौतुकम् । " अर्थतस्मिन् वचने कालकुमारेण प्रतिपन्ने बाभ्यामपि कुमाराभ्यां स्वस्वसैन्यानि भव्यस्थाने निवेश्य काश्मीरदेशे पण्डिताकरणाय पृथ्वीपतिभिः स्वस्वपौरुषाः प्रेष्यन्ते।
इतश्च तापसी पुनर्यक्षमाराध्य "यावज्जीवं कामदेवस्य पाण्डित्यं देहि"इत्ययाचत । यक्षोऽवोचत्-"नहि पूर्वजन्मार्जितकर्मदोषोच्छेदे मम शक्तिः। परं नवमदिने श्रीवज्रनाभः केवली तत्रायास्यति । तदर्शनात्तस्य सर्वे मनोरथाः सिद्धि यास्यन्ति।" इति यक्षवाचं तापसी विमलबोधायावदत् । हृष्टः सर्वः कोऽपि तस्या वचनेन ॥
अन्यदा केवली तत्रागत्य देवतानिर्मितस्वर्णाम्भोजमलञ्चक्रे । अथ कुमारः सपरीवार। कालादयश्च
1BSCRCLEARCLOSEXCUSEUCH
For Private and Personal Use Only