SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir REASOCIASRA% तैरेव स्वजनीभूतैर्भूर्भूपः शुभेऽहनि । अचीकरत वीवाहं महेन महता तयोः॥२॥ ततो व्यसर्जयद्राज्ञा राज्ञः सत्कारपूर्वकम् । वरवध्वोः प्रववृते दशाहं मङ्गालादिकम् ॥ ३॥ मा ज्ञासीत्कोऽपि मूर्खत्वमिति शीघ्र शुभक्षणे । सपत्नीकः कुमारोऽध चचाल स्वपुरं प्रति ॥ ४ ॥ निवृत्ते च सुरे राज्ञि प्रयाणत्रितयादनु । नद्यास्तीरेऽम्बरे ग्रामे कुमारोऽस्थात्ससैन्यकः ॥६॥ इतश्च सा तापसी सौभाग्यमअरी मूखपतिसंकटे पातिता, अथ परपुरुषापहारसंकटे तां पातया. मि,इति ध्यात्वा कान्तीपुरीपतेस्तिलङ्गादिदशदेशाधिपतिमहाकालादिदशनरेशसेव्यपादस्य स्वयंवरात्कान्तीं गच्छतः कालभूपालस्येति ज्ञापयामास--"कामदेवो बाल्यादपि महामूखः, कयाचिन्माययैवानेन सौभाग्यमञ्जरी जिता न तु विद्वत्तया। अत्रार्थे सभासमक्ष वादं याचध्वम्, यद्यसौ भाषितो वक्तुमपि वेत्ति तदाहं यथारुचि विडम्बनीया । परमीदृशं कन्यारत्नमस्थाने गच्छन्नैवोपेक्ष्यते ।" एतच्च श्रुत्वा कोऽयं वराकः संग्रामे वादे वाऽस्माकं पुरतः कामदेवः ? इति गर्जन्तो दधाविरे कालादयः । तापसी च स्वकृतकूटज्ञापनेन दुःखयामि सौभाग्यमअरीम्,इत्यम्बरग्रामे समेता । तत्र च नदीतटे खेलन्तीं चन्द्रलेखां वीक्ष्य " दृष्टं मदवज्ञाफलं भवत्स्वामिन्या, महामूढभर्तृसंकटे पातिताऽस्ति सा, पुनरद्य संकटान्तरे तां पातयिष्यामि इति बभाषे।" चन्द्रलेखा शीघ्रमागत्य सौभाग्यमअरी प्रति तदूचे । सौभाग्यमनरी प्राह-" सखि ! अग्रेऽप्येषाऽऽशंकाऽभूत, परं ज्ञातं यदि पुनले जया पतिः समयेऽपि किश्चिन्न वक्ति। ततस्तापसीमेवाकार्य पृच्छयते । यः SECURSLAS For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy