SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 5ॐॐॐॐ निवेश्य स्वयमग्रे योजिताअलिविद्यामादास्पति, ततः स्फुरिष्यति । इत्येवं सर्वशास्त्राणि विनयेनैव सफलानि स्युः ॥२॥ बहुमानं मानसी भक्तिः। तस्यां छात्रस्यकथाएकस्य पण्डितस्य द्वौ छात्रौ । धन्यो धर्मश्च । धर्मः शास्त्रोपरि बहुमान विनयं विधत्ते । धन्यस्तु न तथा । अन्यदा पण्डितेन निमित्तमध्याप्य परिक्षार्थ प्रेषितौ छात्रो। राजमार्ग प्रौढपदानि वीक्ष्य धन्योऽवादीत्--" इमानि हस्तिनः पदानि । " धर्मेणोक्तं विचार्य--" हस्तिन्याः पदानि, सा च वामाक्षिकाणा, तस्यां चासन्नपुत्रप्रसवा राज्ञी चटिताऽस्तिा" एवं वातयन्तौ पुरा बहिर्गतौ । तादृशीमेव हस्तिनीं वीक्ष्य जवनिकान्तरिताया राज्याः पुत्रप्रसवं च श्रुत्वा पुनश्चलितो क्वापि ग्रामे सरस्तीरे निविष्टौ एकया वृद्धया पृष्टौ--" मम पुत्रो देशान्तरं गतः कदैष्यतीति ।" तावता कयाचिन्नार्या तोयेन भृत्वा शीर्ष रोप्यमाणो घटः पतित्वा भग्नस्ताभ्यां दृष्टः । धन्येनोक्तम्-"भद्रे विनष्टो हि तव पुत्रः ।" तदा धर्मेणोक्तम्-"मातः ! शीघं गृहं ब्रज, समेतस्ते पुत्रः ।" स्थविरा गृहं गता पुत्रं समेतं वीक्ष्य हृष्टाक्षतपात्र-कुंकुम-कुसुम-पुगीफलादिकमादाय सरस्यागत्य धर्म वर्धापयामास । ततो द्वावपि गती गुरुपार्श्व प्रोचतुः स्वं स्वं ज्ञानम् । गुरुणा कथमिति पृष्टे धन्योऽभणत्-" प्रौढपदानि दृष्ट्वा हस्तिनः पदानि,घटो भग्नो जलं गतं तथा देहो भग्नो जीवो गतो मयेत्युक्तम् ।" धर्मणोक्तम्-निरोधानुमानेन हस्तिनीम्, पथि वामदिग्वत्र्तिवृक्षपत्रादिरा-& For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy