SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कामदेव ॥ १२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असौ पूर्वदिशः स्वामी चामीकरवरद्युतिः । राजा गुणाकरः सर्वकलानामेकमास्पदम् ॥ २ ॥ दक्षिणाशापतिः पृथ्वीचन्द्रः सैव नरेश्वरः । पश्चिमायां महीसेनः सिन्धुदेशप्रभुत्वसौ ॥ ३ ॥ असावयोध्याधीशः श्री सुरदेवनृपाङ्गजः । कामदेवः कामदेवतुल्यरूपो विराजते ॥ ४ ॥ अङ्गवङ्गकलिङ्गश्रीतिलङ्गमगधाधिपाः । वत्से कियन्तः शक्यन्तेऽधुना कीर्त्तयितुं नृपाः ॥ ५ ॥ सर्वेऽप्यमी गुणशतैः कलिताः कुलीनाः, प्रौढप्रतापदहनज्वलितारिमीनाः । एषां सुधीर्जयति यो भवतीं स भूयाद् भर्त्ता तवेति कुरु संप्रति पूर्वपक्षम् ॥ ६ ॥ गद्यपद्यैरथ कन्या पूर्वपक्षं तथाकरोत् । आस्तां यथोत्तरं भूपास्तदर्थमपि नाविदन् ॥ ७ ॥ ततो निरुत्तरीभूते राजवर्गेऽखिला जनाः । हाहाकारपराः प्रोचुः पुंस्पक्षो विजितः स्त्रिया ॥ ८ ॥ वीक्ष्योदन्तममुं दध्यौ वैरिसिंहनृपस्तदा । कुमार्येबासको यावज्जीवं स्थाप्या कथं हहा ॥ ९ ॥ यक्षावेशादथामात्य विज्ञप्तः सूरदेवस्ः । गर्जन् पर्जन्यवत्प्रोचे कन्यां सौभाग्यमञ्जरीम् ॥ १० ॥ अवधारय मद्रचः शुभे ! न वयं किचिदधीतिनः श्रुते । तव पुण्यवशात् प्रदद्महे ऽखिल पृच्छोत्तरमुत्तरं परम् ॥ प्राग्जन्मान्तरमपि प्रियं प्रेक्ष्य मुदं दधौ । राजकन्या चकोरीव जीमूतान्तरितं विधुम् ॥ १२ ॥ प्राग्जन्मपत्नी प्रेक्ष्याथ कामदेवः प्रमोदतः । स्वपद्महस्तं स्तम्भस्थपाञ्चालीमस्तके ददौ ॥ १३ ॥ ततः प्रोवाच पाञ्चाली कोकिलामज्जुलं स्वरम् । वत्से ! पृच्छात्रयस्यास्य ददस्वोत्तरमद्य मे ॥ १४ ॥ For Private and Personal Use Only नृपतिकथा | |१२||
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy