Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org SEASOURCUL संकटीभूतभूगोलो गजाश्वरथपत्तिभिः । विद्याभृतां विमानस्तु सम्पूर्णव्योममण्डपः ॥ १॥ हृयवायपटुवान-बधिरीकृतदिग्गणः । कान्तादयसमायुक्तः पट्टमातङ्गमाश्रितः ॥ २॥ पित्रानुगाम्यमानाध्या महाऋचा विक्षितः|शुभेऽहि स्फारशृङ्गारः कुमारः प्राविशत्पुरीम्॥३॥त्रिभिविशेषकं । अथ राजा बहुमानपूर्व सर्वान् भूचरान् खेचरान् समस्तभूपालान् विसृज्य कुमारसेव्यमानपादश्विर राज्य पालयामास । अथ वर्दापयदागत्य भूपालं वनपालकः । स एव केवलज्ञानी त्वदाराममुपागमत् ॥१॥ कः स एवेति राज्ञोक्ते वभाषे वनपालकः । स्वयंवरात्कुमारणागच्छताऽवन्दि यः पथि ॥२॥ दत्त्वा दानं ततस्तस्मै नृपतिः पारितोषिकम् । वनं गत्वा मुनि नत्वा श्रुत्वा तवार्थदेशनाम् ॥३॥ मध्ये पुरं समागत्य सत्यवैराग्यरङ्गतः । पुत्र राज्येऽभिषिच्याथ प्रवव्राजान्तिके मुनेः॥४॥ युग्मम् ॥ ततो राज्यं पितुः प्राप्य कामदेवनरेश्वरः। पितेवातुल्यवात्सल्यापालयत्यनिशं प्रजाः ॥ ५॥ सम्पूर्णान् भारतीकोशान् चतुरश्चतुरो नृपः । निर्माल्यार्चयति स्वान्तशुद्धया सिद्धान्तयुक्तिभिः॥६॥ तथाहि-जीवाभिगमे विजयदेवोत्पाते राजप्रश्नीये सूर्याभदेवोत्पाते एवं दृश्यते-"साए सभाए पुत्थ| यरण लोमहत्थएणं पमज्जइ । दिव्याए उदगधाराए अभिमिचइ । सरसेण गोसीसचंदणेण अणुलिंपइ । अ४ ग्गेहिं बरेहिं गंधेहिं अग्विणइ । जाव धूवं दलह।" इत्यागमवचनाद्वीतरागपूजावत पुस्तकपूजाविधिः । RECER For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52