Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कामदेव ॥१३॥
नृपतिकथा।
| रूपाश्चेत् ? न ।
सत्यं ब्रह्म, तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः। सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणम् ॥१॥
इत्युक्तिप्रामाण्यात् । अहिसादिरूपक्रियायाश्च ब्राह्मण्यमस्माकमपि संमतसेवेति ।" तथा नोदनालक्षणो धर्म इत्यप्ययुक्तम् । यतो नोदना यागादिक्रियापवर्तकवचोरूपा। यागादिक्रियाश्च हिंसात्मिकाः । सा ध. माय चेति प्रोच्यमानं "नीली गेहधवलनाय"इति वत् कस्य नाम न हास्याय । अत एवोक्तम् -
यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्यवं गम्यते स्वर्ग नरके केन गम्यते ॥१॥ ततोऽहिंसैव धर्मः । एवं सतिमोक्षदाता वीतरागः क्रियावान् भवतारकः । शर्मदायी दयाधर्म इति तत्वत्रयी स्फुटम् ॥१॥
इति पाञ्चालीप्रतिष्ठिततत्त्वत्रयीश्रवणेनारजितापि रनिता राजकन्या कामदेवकण्ठे यावद्वरमा. लां क्षिपति तावत् सर्वानपि भूपान् कामदेवसरूपरूपानिरीक्ष्य क्षोभमवाप । ततः "अहो आश्चर्य हा कि भावि"इत्यादि जल्पति लोके कुमार्या परमेष्ठिमंत्राभिमंत्रिततोयेन यदि"सत्यः श्रीमान् जैनधर्मस्तदा विलीयतां माया" इति तारं श्रावयित्वा वारत्रयं छटा चिक्षेपे । ततो विलीना माया । जाताः स्वभावरूपा भूपाः । हृष्टाः सर्वे लोकाः । बाला कुमारकण्ठे वरमालामक्षिपत् ।
अथो जयजयध्वानपूर्व धवलमङ्गलः । गीयमानैर्नृपः पुत्रीयुक कुमारं गृहेऽनयत् ॥ १॥
वन
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52