Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्युना सर्वार्थसिद्धिं गत्वान्त्रैव भरते श्रावस्त्यां सुग्रीवराजस्य वैमात्रेयाः पुत्रा जज्ञिरे हंसः कंसः कामः कुंभश्च । कालेऽचिरात्सकलकलाः कलयित्वा वयःस्थाः सुखक्रीडां क्रीडन्तो वर्त्तन्ते । इतश्च कोशलायां प्रतापराजचतसृणां राज्ञीनां चतस्रः कन्याः सामश्री - सत्यश्री - धनश्री-गुणश्रीनामाना वर्त्तन्ते । ताश्चान्यदा प्रीत्या खेलन्त्यः स्वं स्वं मनोरथं क्रमात्प्रकाइयैवं प्रतिज्ञामकार्षुः- “ यो यामेन श्लोकसहस्रपाठां दत्ते स मे भर्त्ता ? एकari श्लोकसहस्रं श्रुतं धारयति स मे पतिः २, यो यामेन श्लोकसहस्रं नव्यं करोति स मामुद्रहति २, एकैकस्य श्लोकस्य यः सहस्रमर्थ वक्ति स मे वाढा ४ । ” इत्येतत्तासां वाचः श्रुत्वा पिता स्वयंवरोत्सवार्थ राज्ञो राजकुमारांश्चाकारयत् । तदा च सुग्रीवोऽपि सपुत्रस्तत्रागात् । अथ स्वयंवरमण्डपे निविष्टे राजलोके समागता नरविमानारूढाश्चतस्रोऽपि कुमार्यः प्रतिहार्या राजवर्णने कृते निजनिजप्रतिज्ञां प्रकटयामासुः । ततस्तत्प्रतिज्ञापूरणेऽशक्तत्वात्तूष्णीस्थिते सर्वराजवर्गे सुग्रीवराजादेशाच्चतुर्भिरपि कुमारैः क्रमात् पूरितास्तासां प्रतिज्ञाः । क्षिप्ता बालाभिस्तेषां कण्ठे वरमाला । जातो. जयजयारवः । तदा च तद्गुणरञ्जितचेतोभिभूपस्तेषां प्रत्येकं प्रत्येकं दत्ता द्वात्रिंशद् द्वात्रिंशत्कन्यकाः । निष्पन्नो विवाहोत्सवः । सर्वेऽपि सम्मानिता राजानः स्वं स्वं स्थानं ययुः । अतीते दशाहोत्सवे सवधूकैः कुमारैः सह सुग्रीवो राजा स्वपुरीं गत्वा राज्यमपालयत् । कुमाराश्चत्वारोऽपि महाप्राज्ञतया ख्यातिं प्राप्ताः । अतो दूरदेशवासिनोऽनेके राजानो राजकुमाराश्च महापण्डितयुक्ताः सर्वशास्त्र सन्देहा पनोदार्थं तत्रागत्य राजस भास्थितांस्तान्समुपासन्ते । एवं पितुः
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52