Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEESEASABASEARCASH जन्मस्नेहान्मिथोचितक्रीडायुक्ताःक्रीडन्तिापरं रुद्रस्य वदतो जिह्वा विलगति। मेघस्यान्यबदतोऽन्यदेवायाति । धीरस्य वाणी अस्फुटत्वान्न परैरीप्स्यते । वीरो मूकत्वाद्वक्तुं न शक्नोति । अन्यदा ते चत्वारोऽपि षोडशवर्षा यौवनान्तर्गताः । तदा साधु ध्यानलीनं वीक्ष्य वितर्क कुर्वन्तः साधुना पृष्टा:--" भोः ? कुतः समेता भवन्तः । " रुद्रेणोक्तम्-" किं पृच्छयते ! ननु नगरादागता वयम् ।" मुनिः प्रोचे-“ नाहं तत्पृच्छामि । कुतो भवादागता इति पृच्छामि । रुद्रो जल्पति-"भोभोः ! पाखण्डिन् ! किमेवं वक्रां वाचं वदसि । किं कोऽपि पूर्वभवानपि वेत्ति?" ऋषिर्वभाषे-" कोऽपि कोऽपि वेत्ति । यदि कौतुकम्, श्रुणुत श्वानभवाद्भवन्तोऽभ्येताः।" इत्याकर्ण्य कोपादुकोशान् खड्गानुत्पाद्य रे रे ! असम्बद्धं लपसि । पश्य किं कुर्म इत्याको शन्तो हन्तुं धावितास्तपःप्रभावाच्च स्तम्भीभूता दीनास्या इत्यूचुः-"ऋषे ! सत्यमुक्तं कोऽत्र प्रत्ययः।" साधुनोक्तम्-" वीक्ष्यध्वं प्रत्ययम् । पुराऽत्रैव पुरे सम्यग्दृष्टिर्मज्जाजैनोऽग्निशर्मा विप्रोऽभूत् । तस्य चत्वारः पुत्राः पूर्ण पद्म-पञ्चानन-भीमाख्या आर्यवेदान् पठित्वा नवतरवादिविचारग्रन्थान् भणिताः विचारज्ञा जाताः परिणीताश्च । अन्यदा पिता पुत्रान् कुटुम्बभारे नियोज्य दीक्षां चादाय तपसाऽवधिज्ञानी जज्ञे । तत्पुत्रास्तु यदा विद्वद्गोष्ठी कुर्वन्ति तदा प्रज्ञामदेन पूर्णः सूत्रभेदं कुरुते-' यथा धम्मो मंगलमुक्किहमिति पुण्णं कल्लाणमुक्कोसम् ।' पद्मश्वार्थभेदं विधत्ते यथा-'धम्मो मंगलमुक्कट्ठ धर्मों धातुरर्थात् सुवर्णमुत्कृष्टं मङ्गलं सर्वार्थसाधकत्वात् ।' पञ्चाननश्चोभयभेदं करोति यथा-'धर्मों मङ्गलमुत्कृष्ट धर्मों धातुर्मङ्गलग्रहवन्मयाधिकारात क्रौर्यल PROCEAECAE 3 9 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52