Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नामदेव नृपति कथा। भूपालाः केवलिनं नि:प्रदक्षिणीकृत्य भत्त्या नत्वा पुरः समुपाविशन् । केवली धर्मदेशनां चक्र--- अयमुपचितकर्मव्याधिविध्वंसवैद्यः, सकलसुरनरश्रीलाभकल्पमोऽयम् । अयमपि च समस्तक्लेशनिर्मुक्तमुक्तिं, दिशति विशदभावाराधितः शुद्धधर्मः ॥ १ ॥ तत्राष्टानामपि कर्मणां स्वरूपबन्धादिहेतंश्चीपादिशत्, तद्यथा“पटप्रतीहारखड्गमचं हडिश्च चित्रकृत् । कुलालकोशाधिक्षौ च कर्माष्टकनिदर्शनम् ॥१॥ तत्र ज्ञानस्यावारकत्वाज्ज्ञानावरणीयम्, चक्षुषः पटवत् । चक्षुरचक्षुदर्शनादीनामावारकत्वादशनावरणीयम् , द्रष्टुकामस्यापि राज्ञोऽनभिप्रेतलोकस्खलनकृत्प्रतीहारवत् । विद्यते सुख दुखं वा येन तवेदनी. यम् , जिह्वया लिह्यमानमधुलिप्ततीक्ष्णखड्गधारावत् । मुह्यते जीवो येन तन्मोहनीयम्, मद्यवत् , तच द्वेधा, दर्शनमोहनीय-चारित्रमोहनीयभेदात, आद्य सम्यक्त्वलाभान्तरायकृत् , द्वितीयं चारित्रलाभान्तरायकृत् । एति याति चतुर्गतिसत्कदेहस्थजीवस्य वारकतामित्यायुः, चौरादिपादस्य हडिवत् । नामयति जीवं शुभाशुभगत्यादिभेदेष्विति नाम, शुभाशुभरूपकृच्चित्रकारवत् । गुशब्दे गयते उच्चीचैर्भावेन जीवो यस्मात्तद्गोत्रम्, शुभाशुभत्वशब्दयमानपात्रकृत्कुंभकारवत् । दानादि कुर्वतो जीवस्यान्तरायता यातीत्यन्त. रायम् , तहानादि कुर्वतो राज्ञो निषेधकभाण्डारिकवत् ।" इति सर्वकर्मस्वरूपमुत्तवा कुमारेण ज्ञानावरणीयस्य बन्धहेतौ पृष्टे पुनः केवली पाह SACARECTROCIPES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52