Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदौ दिन वा रात्रिी बीजं वाथ तदङ्करः । कर्मोपक्रमयोर्मध्ये बलीयान् घटतेऽथ कः ॥१५॥ सौभाग्यमअरी पृच्छाइयोत्तरमजानती । तदा तृतीयपृच्छाया दातुमुत्तरमित्यवक् ।। १६ ।। कमैव कारणं विद्धि सत्त्वानां सुखदुःखयोः । उपक्रमादतः कर्म बलीय इति मे मतिः ॥ १७ ॥ पाञ्चाली चावदत् कार्यसिद्धिश्चेत्कर्मणव ते । वादे विजयहेतोस्त्वं तन्मा कार्षीरुपक्रमम् ॥१८॥ अथो निरुत्तरा कन्या प्राह पाश्चालिका प्रति । साध्वहं विजिता किन्तु त्वमप्युत्तरमर्पय ॥ १९॥
ततः समस्याग्रहेलिकाक्रियागुप्तकादिविनोदप्रश्नोत्तरेषु पाश्चलिकया दत्तेषु कुमारी प्रोचे-" पाश्वालि ! पीता तव प्रश्नोत्तरैः, परं यन्मया महीपतयः पृष्टास्तस्योत्तरं जल्प इति ।" प्राह पाश्चालिका राजपुत्रि ! सम्यग् निशम्यताम् । त्वदुक्तं नो नृपैर्बुद्धं तत्प्रत्युतयते कथम् ॥१॥
तच्चेदम्-इह किल सकलकलाकलापकुशला अपि तत्त्वत्रयीस्वरूपं सम्यगविन्दमाना मानावेशतो मोक्षहेतवे हरिहरादीन् देवान् ब्राह्मणादीन् गुरून् यागादिक्रियाश्च धर्म प्रमाणयन्ति । ते पुनरेवं वाच्या:M" ननु हरिर्मुक्तिदातेति यदुच्यते? तत्र स हरिः सरागो वा नीरागो वा? सराग इति चेत् ? न, सरागस्यामु
क्तस्य मुक्तिदाने सामर्थ्यात् अस्मदादिवत्,नीरागश्चेत्तर्हि वीतराग एव नामान्तरेण प्रपन्नः,एवमन्यदेवेष्वपि” तथा "ब्राह्मणस्तरति तारयति चेत्यत्रापि स ब्राह्मणो वेषेण वा क्रियया वा ? वेषेण चेत्? न, नटादेरपि ब्राह्मण्यप्रसङ्गात् । क्रियया चेत् ? तहिं सा क्रियाऽहिंसासत्यास्तेयशीलाकिञ्चन्यरूपाऽन्यरूपा वा ? अन्य
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52