Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कामदेव ॥ ९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
afroकुलीना इत्यादि यदुक्तं तदपि कृत्रिमम् । परं -
ज्ञानाद्भवेत्कुलीनत्वं ज्ञानान्मुच्यते पातकात् । ज्ञानात्परं न हि श्रेष्ठं ज्ञानमर्जय तत्सखे ! ॥ ३ ॥ इदं सत्यम् । बुभुक्षितैर्व्याकरणमित्याद्यपि न सात्त्विकम् । यद्गुरुप्रसादाप्तज्ञानलेशो लीलयापि सुवर्णकोटीरुपार्जयति । ज्ञानं च विना पशुपक्षिवृक्षा हेमकोटिभिरपि किं साध्यं साधयन्ति । तथा
लक्ष्मीः सुवर्णरूपापि हस्तपादावलम्बिनी । भूषयन्त्यन्तरात्मानं वर्णरूपापि भारती ॥ ४ ॥ " इति कन्योक्तं श्रुत्वा पण्डितोऽवोचत् -" राजकुमारि ! विचारय मद्रचः -
वयोवृद्धास्तपोवृडा ये च वृद्धा बहुश्रुताः । सव ते धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः ? 11 "" अथ कन्या, "अवधारयन्तु भाग्यलभ्या सभ्याः ! लक्ष्मीवांस्तातः, सरस्वतीवान् पण्डितः, यदि लक्ष्मीरेव सारतया मान्या, तर्हि पण्डितः समुत्थाय राजानं प्रणमतु, नो चेत् ? सरस्वती मान्या ।" इति कन्यावाचमाकर्ण्य रा जानं कथं नमति ? इति । विद्वानपि पण्डितो विलक्षमुखोऽधो वीक्षामास ।" अहो ! कुमार्या बुद्धि:, पण्डितो - sपि कथं जितः इति सभ्यैर्घोषितेऽतीव संतुष्टो नरेशो” वत्से ! वरं वृणु घृणु इति प्रोचे । कन्याऽप्याह - " तात ! यदि संतुष्टोऽसि तदा यः कोपि कलासु मां जेष्यति स एव मां परिणेष्यति इति वरं देहि, राजाऽप्येतत्प्रतिश्रुत्यामात्येन सहालोच्य पुरोपवने भूमिशुद्धिपूर्व स्वयंवरमण्डपं समाहृतभूपस्थानार्थं सौधांश्च कारयन् सर्वत्र राज्ञां राजकुमाराणां चाकारणाय दूतान् प्रेषीत् । अहं पुनर्महाराज ! तव सपुत्रस्याह्वानार्थं प्रेषितः ।
For Private and Personal Use Only
नृपति
कथा ।
118 11

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52