Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
मुखमर्कटिकापूर्व तापसी गले गृहीत्वा निष्काशिता ।साथ"दक्षत्वगवितामेता यावज्जीवं महामूर्खस्य पत्युः | संकटे पातयामि" इति कोपात् क्वापि सातिशयं यक्षमाराध्य 'सौभाग्यमञ्जरी मूर्खेण वादे जित्वा परिणेत-- व्या" इति वरं ययाचे । यक्षोऽपि “ कामदेवकुमारान्नान्यो मूर्खस्ततस्तं तस्याः पति विधास्यामि" इत्युक्तवा “कामदेवः स्वयंवरे सौभाग्यमञ्जरी परिणेष्यति" इति स्वप्नं विमलबोधाय दत्त्वा "मया कामदेवामात्यायैष स्वप्नो दत्तोऽस्ति" इति तापस्या ज्ञापयामास । मन्त्री चासंभाव्यमेतदिति चेत्तस्येव स्वप्नमस्थापयतू । ___अथ प्रातःप्रयाणान्ते सभानिविष्टे कुमारे सा तापसी “वाञ्छितसिद्धिर्भवतात्" इत्याशिषं दत्वा सो| त्साहा पुरोऽस्थात् । मन्त्री प्राह-"कथमेतत्?"सा स्माह-"कुमारः कन्यां वादे जित्वा परिणेष्यति । अत्रार्थऽद्य रात्री त्वया स्वप्नोऽदीति प्रत्यया"ततो"अहो सत्यमेतद्" इति मन्त्री कुमाराय स्वप्नमुत्तवा तापसी सस्कृत्य विससर्ज ।"अवश्यमिदमपि कथंचित् सेत्स्यति" इति स्वस्थचित्ती कुमारामात्यो मुदं भेजतुः। इतश्च | सौभाग्यमरी सौधोपरि चन्द्रशालायां निविष्टाऽऽकाशे मधुरं घर्घरीस्वरं श्रुत्वा यावत्पश्यति । तावच्चन्द्रबिम्बादिवोत्तीण स्वर्णघर्घरीभूषितकण्ठं रक्तचञ्चचरणलोचनं राजहंसहयं गवाक्षे समेत्य सलीलं खेलन्मिथो बभाषे-एकेनोक्तं द्वितीयस्य, “कस्त्वं कुतः किमर्थ समेतः।" सोऽवोचत्-" अहं ब्रह्मलोके ब्रह्मणो वाहनम्, ब्रह्मणो बदनाकामदेवः सौभाग्यमञ्जरीपतिर्भावोति श्रुत्वा तं वीक्ष्य तत्पत्नी द्रष्टुमागतोऽस्मि । परं त्वं कः कस्येति । " सोऽप्यूचे-" अहमपि तत्रैव वाग्देवीवाहनम्, वाग्देवीवदना
CHECAESARISSA
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52