Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नां लक्ष्मीः सिद्धिनिबन्धनम् ।न तां विना यदेकोऽपि निर्मातुं शक्यते क्वचित्॥१॥"आस्तां सर्वकार्यप्रसाधकत्वम्, अस्याः प्रसादेन सर्वे दोषा अपि गुणा एव स्युः । यदुक्तम्कोपस्तेज इति ग्रहः स्थितिरिति क्रीडेति दुश्चेष्टितं, मायित्वं व्यवहारकौशलमिति स्वच्छत्वमित्यज्ञता। दौजन्यं स्फुटवादितेति धनिनामग्रे बुधैर्यशाद्, दोषेऽपि व्यपदिश्यते गुणतया तस्यै नमोऽस्तु श्रिये ॥१॥
धननिष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनन्निस्तरन्ति धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यजयध्वं धनान्यजयध्वम् ॥२॥ बुभुक्षिाकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते ।
न छन्दसा केनचिदुद्धृतं कुल, हिरण्यमेवाजय निष्फलाः कलाः ॥७॥" इति पण्डितेनोक्त कोकिलावत्कलरवं कुर्वती कन्या स्माह--" पण्डितराज ! मैवं बोचः। मदुक्तमवधारय । अस्मिन्नसारे संसारे सारं भगवती सरस्वती, सर्वकार्यसाधकत्वात् । तथाहि
धर्मार्थकामसिद्धीनां मुख्यबीजं सरस्वती । ज्ञानं विना यदेकोऽपि न कर्तुं शक्यते क्वचित् ॥१॥ तथा लक्ष्मीप्रसादादोषाणां यो गुणव्यपदेशः स कृत्रिमः। परं सरस्वत्याः प्रसादादोषा गुणीभवन्तीति सत्यमेव तथाहिहै कोप-कदाग्रह-दुश्चेष्टितानि दोर्जन्य-मान-लोभायाः । ज्ञानप्रसादतोऽमी दोषाः क्षणतो भवन्ति गुणाः ॥२॥
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52