Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
किरणावली टीका ब्या०९
॥३८४॥
SECRUC-%ACTERA
विंशत्या दिनैः 'वयं अत्र स्थिताः स्म' इति पृच्छता गृहस्थानां पुरो वदन्ति | गृहिज्ञातमात्रमेव, तदपि जैनटिप्पनकानुसारेण । यतः-तत्र युगमध्ये पौषः, युगान्ते च आषाढ एव वर्द्धते, नाऽन्ये मासाः । तच्चाऽधुना सम्यग् न ज्ञायते । अतः'पश्चाशतैव दिनैः पर्युषणा सङ्गता' इति वृद्धाः।
अत्र कश्चिद् उच्छ्वणः श्रावणिकः शङ्कते-ननु भोः! श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणापर्व युक्तं, न पुनर्भाद्रपदसितचतुर्था । दिनानामशीत्याऽऽपत्या 'समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कते वासावासं पज्जोसवेइ'त्ति श्रीकल्पसूत्रादिप्रवचनबाधा स्याद । इति चेत् । अहोश्चिद्देवानुप्रिय! आश्विनमासवृद्धौ आश्विनमास एव चतुर्दश्यां चतुससककृत्यं कर्तव्यं स्यात् , कार्तिकसितचतुर्दश्यां तु शतदिनाऽऽपत्त्या 'समणे भगवं महावीरे सवीसइराए मासे वक्ते सत्तरि राइंदियाएहिं सेसेहिं वासावासं पज्जोसवेइ'त्ति श्रीसमवायाङ्गादिप्रवचनबाधा स्याद् इत्यपि वक्तव्ये वाचालस्य ते किमयुक्तं स्यात् ? आगमन्यायस्य उभयत्राऽपि समानत्वात् । ननु भवेदेवं यदि चतुर्मासकानि आषाढादिमासप्रतिबद्धानि न स्युः। तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं । दिनगणनायां तु-'अधिकमासः कालचूला' इति अविवक्षणादिनानां सप्ततिरेव इति कुतः प्रवचनबाधा इति चेत् ? अहो सुदृगु ! पर्युषणापर्वाऽपि भाद्रपदप्रतिबद्धं भाद्रसितचतुर्थ्यामेव युक्तं । दिनगणनायां तु-'अधिकमास कालचूला' इति पञ्चाश देव दिनाः सम्पद्यन्ते, कुतः ! अशीतिवार्तापि । न च भाद्रपदप्रतिबद्धत्वं पर्युषणापर्वणोऽनागमिक ? बहुवागमेषु प्रतिपादनात् । तथाहि-'अण्णया पज्जोसवणा दिवसे आगए अज्जकालगेण सालवाहणो भणिओ-"भदवयजुण्डपंचमीए पज्जोसवणा रण्णा भणिओ" इत्यादि श्रीपर्युषणाकल्पचूणौं। तथा
॥३८४॥
Jain Educatnternational
For Privale & Personal use only
remibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458