________________
श्रीकल्प
किरणावली टीका ब्या०९
॥३८४॥
SECRUC-%ACTERA
विंशत्या दिनैः 'वयं अत्र स्थिताः स्म' इति पृच्छता गृहस्थानां पुरो वदन्ति | गृहिज्ञातमात्रमेव, तदपि जैनटिप्पनकानुसारेण । यतः-तत्र युगमध्ये पौषः, युगान्ते च आषाढ एव वर्द्धते, नाऽन्ये मासाः । तच्चाऽधुना सम्यग् न ज्ञायते । अतः'पश्चाशतैव दिनैः पर्युषणा सङ्गता' इति वृद्धाः।
अत्र कश्चिद् उच्छ्वणः श्रावणिकः शङ्कते-ननु भोः! श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणापर्व युक्तं, न पुनर्भाद्रपदसितचतुर्था । दिनानामशीत्याऽऽपत्या 'समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कते वासावासं पज्जोसवेइ'त्ति श्रीकल्पसूत्रादिप्रवचनबाधा स्याद । इति चेत् । अहोश्चिद्देवानुप्रिय! आश्विनमासवृद्धौ आश्विनमास एव चतुर्दश्यां चतुससककृत्यं कर्तव्यं स्यात् , कार्तिकसितचतुर्दश्यां तु शतदिनाऽऽपत्त्या 'समणे भगवं महावीरे सवीसइराए मासे वक्ते सत्तरि राइंदियाएहिं सेसेहिं वासावासं पज्जोसवेइ'त्ति श्रीसमवायाङ्गादिप्रवचनबाधा स्याद् इत्यपि वक्तव्ये वाचालस्य ते किमयुक्तं स्यात् ? आगमन्यायस्य उभयत्राऽपि समानत्वात् । ननु भवेदेवं यदि चतुर्मासकानि आषाढादिमासप्रतिबद्धानि न स्युः। तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं । दिनगणनायां तु-'अधिकमासः कालचूला' इति अविवक्षणादिनानां सप्ततिरेव इति कुतः प्रवचनबाधा इति चेत् ? अहो सुदृगु ! पर्युषणापर्वाऽपि भाद्रपदप्रतिबद्धं भाद्रसितचतुर्थ्यामेव युक्तं । दिनगणनायां तु-'अधिकमास कालचूला' इति पञ्चाश देव दिनाः सम्पद्यन्ते, कुतः ! अशीतिवार्तापि । न च भाद्रपदप्रतिबद्धत्वं पर्युषणापर्वणोऽनागमिक ? बहुवागमेषु प्रतिपादनात् । तथाहि-'अण्णया पज्जोसवणा दिवसे आगए अज्जकालगेण सालवाहणो भणिओ-"भदवयजुण्डपंचमीए पज्जोसवणा रण्णा भणिओ" इत्यादि श्रीपर्युषणाकल्पचूणौं। तथा
॥३८४॥
Jain Educatnternational
For Privale & Personal use only
remibrary.org