Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ श्रीकल्प ॥ ३९८ ॥ ['वासावासं इत्यादितः 'अव्यंजणजायएण वा' इति पर्यन्तम् ] तत्र - 'निचभत्तिअस्स' ति नित्यमेकाशनिनः । ' एगं गोअरकाल' एकस्मिन् गोचरचर्याकाले-सूत्रपौरुषी - अर्थपौरुष्यनन्तरमित्यर्थः । ' गाहावइकुलं' गृहस्थवेश्म 'भत्ताए' भक्तार्थ 'पाणाए' पानार्थ 'णण्णस्थ' इत्यादि 'णं' वाक्यालङ्कारे । अन्यत्राऽऽचार्यवैयावृत्यात् तद्वर्जयित्वेत्यर्थः । एकवारमतेन यदि तत्कर्तुं न पारयति तदा द्विरपि भुङ्क्ते । यतः - 'तपोऽपेक्षया वैयावृत्यं गरीयः' । एवमुपाध्यायादिष्वपि वाच्यम् । 'अव्यंजणजायएण' ति न व्यञ्जनानि - वस्तिकूर्च कक्षादिरोमाणि जातानि यस्याऽसौ अव्यञ्जनजातः । ततःस्वार्थे कः । तस्मात् - क्षुल्लकादन्यत्र यावत् तस्य व्यञ्जनानि नो भिद्यन्ते तावत् तस्य द्विरपि भुञ्जानस्य न दोषः । यद्वा' वैयावृत्यम् अस्य अस्ति' इति अभ्रादित्वाद् 'अ' प्रत्यये वैयावृत्यः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यौ ताभ्यामन्यत्र । एवमुपाध्यायादिष्वपि नेयम् । आचार्योपाध्यायतपस्विग्लानक्षुल्लकानां द्विभक्तस्याऽपि अनुज्ञातत्वात् ॥२०॥ ( वासावास प० चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे-जं से पाओ निक्खम्म पुग्वामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिअ संपमजिअ से अ संथरिजा कप्पड़ से तद्दिवसं तेणेव भत्तणं पज्जोसवित्तए, से अ नो संथरिजा एवं से कप्पइ दुच्चं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) ॥ २१ ॥ [ 'वासवासं' इत्यादितः 'पविसित्तए वा' इति यावत् ] तत्र - 'अयं एवइए' इत्यादि । अयं वक्ष्यमाण एतावान् विशेषः - ' यत्स - आचार्योपाध्यायादिभ्यो ऽन्यः साधुचतुर्थभोजी प्रातर्निष्क्रम्य - उपाश्रयान्निर्गत्य पूर्वमेव विकटम् - Jain Educational For Private & Personal Use Only किरणावल टीका व्या० ९ ॥ ३९८ ॥ eibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458