Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥४१९॥
तथा च स्वाध्यायपलिमन्थादयो दोषाः। यदि वा एकाङ्गि चम्पकादिपट्टकं लभ्यते तदा तदेव ग्राह्य, बन्धनादिप्रक्रिया|| परिहारात् । 'अमिआसणिअस्स' त्ति अमितासनिकस्य-अबद्धासनस्य स्थानात् स्थानान्तरं हि मुहुर्मुहुः सङ्कामन् सत्यवधः || स्यात् , अनेकानि वा सेवमानस्य । 'अणाताविअस्स' ति अनातापिन:-संस्तारकपात्रादीनामातपेऽदातुः। तत्र च पनकसंसक्त्यादयो दोषाः, उपभोगे च जीववधः, उपभोगाऽभावे च उपकरणमधिकरणमेवेति । असमितस्य ईर्यादिषु तत्रआद्यतुर्यपञ्चमसमितिष्यसमितो जीवान् हन्ति, भाषाऽसमितः सम्पातिमान् , एषणा असमितो हस्तमात्रादौ अप्कायः परिणतो न वा इति न वेत्ति । अभीक्ष्णम् अभीक्ष्णं-पुनः पुनरप्रतिलेखनाशीलस्य-चक्षुषा अदृष्ट्वा । अप्रमार्जनाशीलस्य-रजोहरणादिनाः अप्रमृज्य, स्थानादिकर्तुः। आभ्यां च दुःप्रतिलेखितदुःप्रमाणिते सङ्गृहीते। नत्रः कुत्सार्थत्वात् । तथा तथा-तेन तेन प्रकारेण संयमो दुराराध्यो दुःप्रतिपाल्यो भवति । यथा यथा तानि तानि स्थानानि करोति, तथा तथा संयमाराधना दुष्करा इत्यर्थः ॥५३॥
(अगायाणमेअं अभिग्गहिअसिज्जासणिअस्स उच्चाकूइ अस्स अट्टाबंधिअस्स मियासणियस्स आयाविअस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स तहा तहा णं सुआराहए संजमे भवइ) ॥५४॥
आदानमुक्त्वाऽनादानमाह-[ 'अणायाणं' इत्यादितः 'संजमे सुआराहए भवई' ति पर्यन्तम् ] तत्र-कर्मणाम् असंयमस्य वा अनादानमेतत्-शय्याऽऽसनाभिग्रहवता भाव्यम् । उच्चाकुचा शय्या कर्तव्या, अर्थाय-सकृच्च पक्षान्तवन्धनाय
॥४१९
NAGEMARACAAAAACC
Jain Education
Acational
For Private & Personal use only
www.a
library.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458