Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प॥४२४ ॥
धिपतिः उदयनराजा । स हि विद्युन्माल्यर्पितदेवाधिदेवप्रतिमाऽर्चक श्राद्धार्पितगुटिका जाताऽद्भुतरूपाया देवदत्ताया दास्या अपहर्त्तारं चतुर्दशमुकुटवद्ध राजसेव्यं मालवाधिपं चण्डप्रद्योतं सङ्ग्रामे बद्ध्वा पश्चादागच्छन् दशपुरस्थाने वार्षिकपर्वणि कृतोपवासः सूपैः पृथग्रभोजनाय पृष्टे - विषभ्रान्त्या ममाऽप्यद्योपवासोऽस्तीति वदति धूर्तसाधम्मिकेऽपि अस्मिन् वद्धे मम कथं प्रतिक्रान्तिशुद्धिः ? इति विचिन्त्य तं मुक्त्वा क्षमयित्वा च 'मम दासीपतिः' इति पूर्वलिखिताक्षरस्थगनाथ भाले पवन्धं दत्त्वा अवन्तिदेशं दत्तवान् इति । न पुनः कुम्भकार - क्षुल्लकदृष्टान्तेन द्रव्यत एव क्षामणकं विधेयं । स चैवम् - कश्चित्कः कुम्भकारभाण्डानि कर्करैः सच्छिद्रीकुर्वन् ' मा कुरु इत्थं' कुलालेन निवारितो 'मिच्छामि दुक्कडं' इति वाङ्मात्रेण वदन्नपि पुनः पुनः तथाकुर्वन् एकदा कुलालेन कर्णमोटनपुरस्सरं कथमहं पीडये त्वया ? इति भणन् 'मिच्छामि दुकडं' इति क्षुल्लकवत् पाठमात्रमुच्चरता शिक्षितः । एवं मिथ्यादुष्कृतं द्रव्यतो न देयम् । उपशान्तोपस्थितस्य च मूलं दातव्यम् ||५८ ॥
( वासावास प० इह खलु निग्गंधाण वा निग्गंधीण वा अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जिज्जा; सेहे राइणिअं खामिजा, राइणिए वि सेहं खामिज्जा (१२०० ) । खमियन्वं खमावियन्धं उवसमियन्वं उवसमावयवं संमुइ (सुमइ) संपुच्छणाबहुलेण होयव्वं । जो उवसमइ तस्स अस्थि आराहणा, जो उन उवसमइ तस्स नत्थि आराहणा; तम्हा अध्पणा चेव उवसमियन्वं । से किमाह भंते ! उवसमसारं खु सामण्णं) ।। ५९ ।।
Jain Educationernational
For Private & Personal Use Only
किरणाव
टीका
व्या०
॥४२४॥
orary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458