Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 446
________________ श्रीकल्प ॥४२२॥ । वा लुश्चितशिरोजेन वा भवितव्यं स्यात् । 'लुक' ति लुञ्चिताः शिरोजाः केशा यस्य अपवादतो बालग्लानादिना ॥3 किरणावली क्षुरमुण्डेन; उत्सर्गतो-लुञ्चितशिरोजेन इत्यर्थः। तत्र च केवलं प्रामुकोदकेनात्मनो गृहीत्वा शिरःप्रक्षाल्य नापितस्याऽपि टीका तेन करौ क्षालयति । यस्तु क्षुरेणापि कारयितुमक्षमः व्रणादिमच्छिरो वा तस्य केशाः कर्तर्या कल्पनीयाः। 'पक्खिआ व्या०९ आरोवेण' त्ति पाक्षिकं बन्धदानं-संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्च इत्यर्थः। अथवाआरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं, वर्षासु विशेषतः। 'मासिए खुरमुंडे' ति-मासि मासि असहिष्णुना मुण्डनं कारणीयं । 'अद्धमासिए कर्तरिमुंडे' त्ति यदि कर्तर्या कारयति, तदा पक्षे पक्षे गुप्तं कारणीय, क्षुरकर्तर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्खयं लघु-गुरुमासलक्षणं ज्ञेयं । 'छम्मासिए लोए' ति पाण्मासिको लोचः 'संबछरिए थेरकप्पे' त्ति स्थविराणां-वृद्धानां जराजर्जरत्वेनाऽसामर्थ्यात् , दृष्टिरक्षार्थ वा अर्थात् तरुणानां चातुर्मासिकः । अत्र संवत्सरो वर्षारात्रः 'संवच्छरं वा वि परे पमाणं । बी व वासं न तहिं वसिज' ति वचनात् । तत:-संवत्सरे-वर्षासु भवः सांवत्सरिको वा लोचः कार्यः । स्थविरकल्पे-स्थविरकल्पस्थितानां ध्रुवो लोचः इति 'वा' शब्दो विकल्पार्थः । अपवादतो नित्यलोचाऽकरणेऽपि पर्युषणापर्वण्यवश्य लोचः कार्य इति सूचयति । अथवा-एष सर्वोऽपि उक्तविधिः-आपृच्छय भिक्षाचर्यागमनं विकृतिग्रहणादिः मात्रकावसानः सांवत्सरिकः-वर्षाकालसम्बन्धी स्थविरकल्पः-स्थविरमर्यादा । 'वा' शब्दः किश्चिज्जिनकल्पिकानामपि सामान्यमिति सूचयति । प्रायः स्थविराणामेवाऽयं कल्प इत्यर्थः ॥५॥ ॥४ ॥४२२॥ (वासावासं प० नो कप्पइ निग्गंधाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए । जे णं नवनवख Jain Eda Inamational For Privale & Personal use only MAimplibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458