Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 456
________________ श्रीकल्प ॥४३२॥ SECRECRAAAAAAAAS अथ प्रशस्तिः 18किरणावळी टीका श्री वर्द्धमान प्रभुशासनाऽभ्र--प्रभासने नव्यसहस्रभानोः । लीलां दधानोऽपि सुधैकधामा सुधर्मनामा गणभृद्धभूव ॥१॥ व्या०९ तत्पट्टपूर्वाऽचलचित्रभानवो-ऽनेके बभूवुभूवि सरिशेखराः। सम्प्राप्नुवन्तो गुणजां नवां नवां गच्छस्य सञज्ञां किल कौटिकादिकाम् ॥२॥ बृहदगणाम्भोनिधिचन्द्रसनिभाः श्रीमज्जगच्चन्द्रगुरुत्तमा क्रमात । तेषामशेषागमपारगामिनो समुदबभूवुर्भुवनैकभूषकाः॥३॥ तपोभिदुस्तपैः प्रापुर्येन 'तपा' इति विश्रुतम् । बिरुदं वाण नागेन्द्र द्वि'चन्द्राङ्कितवत्सरे (१२८५) ॥४॥ ततःप्रभृति गच्छोऽयं 'तपागच्छ' इति क्षितौ । विख्यातोऽभूज्जनानन्द-कन्दकन्दलनैकभूः ॥५॥ तत्परम्परया श्रीमदानन्दविमलाहयाः। मरीन्द्राः समजायन्त जगदानन्ददायिनः ॥६॥ मिथ्यामततमस्तोम-समाक्रान्तमिदं जगत् । पतत्श्वभ्रे समुद्दधे यैः कियोद्धारपूर्वकम् ॥७॥ तत्पट्टकुम्भिकुम्भस्थलैकसिन्दूरपूरसङ्काशाः । श्री विजयदानसूरीश्वरा बभूवुर्जगद्विदिताः ॥८॥ तेषां पट्टे सम्प्रति विजयन्ते हीरविजयसूरीशाः । ये श्वेताम्बरयतिनां सर्वेषामाधिपत्यभृतः ॥९॥ कलिकालेऽपि प्रकटीकृत-तीर्थकरसमानमहिमानः । सङ्गीयन्ते सकलैरद्भुतमाहात्म्यदर्शनतः ॥१०॥ तेषां विजयिनि राज्ये राजन्ते सकलवाचकोत्तंसाः । श्री धर्मसागराहाः निखिलागमकनककषपट्टाः ॥११॥ कुमतिमतङ्गजकुम्भस्थलपाटनपाटवेन सिंहसमाः । दुर्दमवादिविवादादपि सततं लब्धजयवादाः ॥१२॥ ॥४३२॥ AIRIRLARGAUGERRIGLICKS Jain Educatie mational For Private & Personal use only nelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458