Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ ॥४३१॥ ति 'अननुपालयतः अमी दोषाः' इति दोषदर्शन हेतुः। अथवा-हेतुः-निमित्तं यथा-'सविसइराए मासे वइक्कंते पज्जोसवेअव्वं' इत्युक्ते किं निमित्त ? 'पाएणं अगारीणं अगाराई' इत्यादिको हेतुः। तेन सहितं सहेतुकं । तथा सकारणं-कारणम्अपवादः। यथा-'आरेणापि कप्पइ पज्जोसवित्तए' ति तेन सहितं सकारणं । ससूत्रं सार्थ सोभयमिति प्रतीतम् । अथ सार्थत्वं कथमध्ययनस्य ? नात्र टीकादाविव अर्थः पृथग व्याख्यातोऽस्ति । सत्यं, सूत्रस्य अर्थनान्तरीयकत्वाददोषः । तथा सव्याकरणं-पृष्टाऽपृष्टार्थकथनं व्याकरणं तत्सहितमिति । इति भद्रबाहुस्वामी स्वशिष्यान् ब्रूते, नेदं स्वमनीषिकया ब्रवीमि, किन्तु तीर्थकरगणधरोपदेशेन इति । अनेन च गुरुपारतन्त्र्यमभिहितमिति ॥६४॥ CRETTEHREHSAAGAGANA इति श्री जैनशासनसौधसम्भायमानः महामहोपाध्याय-श्री धर्मसागरगणिवरविरचितायां कल्पकिरणावल्यां नवमं व्याख्यानं समाप्तम् । व्याख्योपयोगिनिश्शेष-वाच्यरुच्या वचस्विनाम् । स्फूर्तिकी सदस्येपा श्री कल्पकिरणावलिः ॥१॥ विक्रमादष्टयुक्षक-शशाङ्काङ्कित (१६२८) वत्सरे । दीपोत्सवदिने दृब्धा राजधन्यपुरे पुरे ॥२॥ युग्मम् ॥ अनुष्टुभां द्विपश्चाशच्छतान्यक्षरसङ्ख्यया । पोडशोपरि वर्णाश्च ग्रन्धमानमिहोदितम् ॥३॥ इति श्री कल्पकिरणावलीनाम्नी वृत्तिः सम्पूर्णा । 15AP ॥४३१॥ Jan EPA For Private & Personal use only KEnelbrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458