Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥४२३॥
निग्गंथो वा निग्गंधी वा परंपज्जोसवणाओ अहिगरणं वयइ,सेणं अकप्पेणं अजो! वयसीति बत्तन्वं सिया; जे णं निग्गंथाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं क्यह, से निज्जूहियव्वे सिया)॥५८॥
['वासावासं' इत्यादितः 'से निज्जूहियवे सिआ' ति पर्यन्तम् ] तत्र-'अहिगरणं त्ति अधिकरणं-रादिः तत्कर वचनमप्यधिकरणं । 'वइत्तए' ति वदितुं । 'अकप्पेणं' त्ति हे आर्य ! अकल्पेन-अनाचारेण वदतीति वक्तव्यः । यत:पर्युषणादिनतोऽर्वाग् पर्युषणादिन एव वा यदधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं, यच्च त्वं पर्युषणानः परमधिकरणं | वदसि, सोऽयमकल्प्य [अनाचार] इति भावः । 'निज्जूहियव्वे सिआ' इति निहितव्यः-जाम्बूलिपत्रदृष्टान्तेन सङ्घाद् बहिः कर्त्तव्यः । यथा-ताम्बूलिकेन विनष्ट पत्रम् अन्यानि पत्राणि विनाशयद बहिरेव क्रियते, तद्वदयमपि अनन्तानुबन्धिक्रोधाधाविष्टो विनष्ट एवेत्यतो बहिः कर्तव्य हति भावः । तथा-अन्योऽपि द्विजदृष्टान्तो यथा-खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् क्रष्टुं हलं लाथा क्षेत्रं गतः। हलं वाहयतस्तस्य गलिबलिवई उपविष्टः, तोत्रेण ताडयमानोऽपि यावन्नोत्तिष्ठति, तदा क्रुधाऽऽकुलेन केदारत्रय[स्थ] मृत्खण्डैरेवाऽऽहन्यमानो निःश्वासरोधान्मृतः। पश्चात्स पश्चात्तापं विदधानो महास्थाने गत्वा स्ववृत्तान्तं कथयन्नुपशान्तोऽनुपशान्तो वेति ? महास्थानस्थैः पुरुषैः पृष्टे 'नाऽद्यापि ममोपशान्तिः' इत्युक्तेऽयोग्योऽयम् अनुपशान्तकषायत्वाद् अपाङ्कतेयो द्विजैश्चक्रे । एवं वार्षिकपर्वण्यपि 'साहम्मिए अहिगरणं करेमाणे' ति वचनात् साधर्मिकैः सममधिकरणं कुर्वाणः सङ्घबाह्यो भवति । अत एव सापराधोऽपि 'चण्डप्रद्योतः साधर्मिक' इतिकृत्वा उदयनराज्ञा मुक्तः । तद्वयतिकरस्त्वेवम्-सिन्धुदेशे महसेनप्रभृति-दश-मुकुटबद्धनृपसेव्यमानो वीतभयपुरा
मा॥४२३॥
Sain Educa
t ional
For Privale & Personal Use Only
WWW
rary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458