________________
श्रीकल्प
॥ ३९८ ॥
['वासावासं इत्यादितः 'अव्यंजणजायएण वा' इति पर्यन्तम् ] तत्र - 'निचभत्तिअस्स' ति नित्यमेकाशनिनः । ' एगं गोअरकाल' एकस्मिन् गोचरचर्याकाले-सूत्रपौरुषी - अर्थपौरुष्यनन्तरमित्यर्थः । ' गाहावइकुलं' गृहस्थवेश्म 'भत्ताए' भक्तार्थ 'पाणाए' पानार्थ 'णण्णस्थ' इत्यादि 'णं' वाक्यालङ्कारे । अन्यत्राऽऽचार्यवैयावृत्यात् तद्वर्जयित्वेत्यर्थः । एकवारमतेन यदि तत्कर्तुं न पारयति तदा द्विरपि भुङ्क्ते । यतः - 'तपोऽपेक्षया वैयावृत्यं गरीयः' । एवमुपाध्यायादिष्वपि वाच्यम् । 'अव्यंजणजायएण' ति न व्यञ्जनानि - वस्तिकूर्च कक्षादिरोमाणि जातानि यस्याऽसौ अव्यञ्जनजातः । ततःस्वार्थे कः । तस्मात् - क्षुल्लकादन्यत्र यावत् तस्य व्यञ्जनानि नो भिद्यन्ते तावत् तस्य द्विरपि भुञ्जानस्य न दोषः । यद्वा' वैयावृत्यम् अस्य अस्ति' इति अभ्रादित्वाद् 'अ' प्रत्यये वैयावृत्यः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यौ ताभ्यामन्यत्र । एवमुपाध्यायादिष्वपि नेयम् । आचार्योपाध्यायतपस्विग्लानक्षुल्लकानां द्विभक्तस्याऽपि अनुज्ञातत्वात् ॥२०॥
( वासावास प० चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे-जं से पाओ निक्खम्म पुग्वामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिअ संपमजिअ से अ संथरिजा कप्पड़ से तद्दिवसं तेणेव भत्तणं पज्जोसवित्तए, से अ नो संथरिजा एवं से कप्पइ दुच्चं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) ॥ २१ ॥
[ 'वासवासं' इत्यादितः 'पविसित्तए वा' इति यावत् ] तत्र - 'अयं एवइए' इत्यादि । अयं वक्ष्यमाण एतावान् विशेषः - ' यत्स - आचार्योपाध्यायादिभ्यो ऽन्यः साधुचतुर्थभोजी प्रातर्निष्क्रम्य - उपाश्रयान्निर्गत्य पूर्वमेव विकटम् -
Jain Educational
For Private & Personal Use Only
किरणावल टीका व्या० ९
॥ ३९८ ॥
eibrary.org