Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 412
________________ श्रीकल्प किरणार टीका व्या० ॥३८८॥ SAESAERAEAAAA स च यद्यभिवद्धितः तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते । दिनगणनायां स्वस्य अन्यस्य वा मासस्य वृद्धौ सम्भवन्तोऽप्यशीतिदिनाः पश्चाशदेव गण्यन्ते । यथा-तवाऽप्यभिमता पञ्चमास्यपि चतुर्मासीति । यच्चोक्तं-'साधुदानादेः प्रयासमात्रता' इति, तदयुक्तमेव । यतः-साधुदानजिनपूजादिकं न मासप्रतिबद्धं, किन्तु दिनमात्रप्रतिबद्धं । तच्च यं कञ्चनदिनमवाप्याऽपि कर्तव्यमेव । तत्रापि क्षणविशेषनियतत्वेन रात्रिकदेवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोतवेलामतिक्रम्य परावर्त्य वा करणेऽना व । पाक्षिककृत्यमपि पाक्षिकप्रतिक्रमणादिकं । तच्च चतुर्दशी नियतं तच्च या काश्चनचतुर्दशीमवाप्यापि कर्त्तव्यं । तथा-तन्मासि किं पातकं न भवति ? उत बुभुक्षा न लगति ? इत्याद्युपहसनेऽपि इयमेव रीतिरनुसर्तव्या यतः-पातकं तु प्रतिपाणिनं प्रतिसमयं तथाविधाऽध्यवसायादि-सामय्यनुरूपमुत्पद्यते, न पुनर्नियतमासाद्यपेक्षया इति । एवं बुभुक्षाऽपि तथाविधवेदनीयकर्मोदयादेव भवति, न पुनर्दिवसमासाद्यपेक्षया । अन्यथा मनुष्यक्षेत्रादबहिर्वतिनां तिरश्चां दिवसमासादिरूपकालाऽसम्भवेन बुभुक्षाया अभाव एव सम्पद्यत इत्यादि स्वयमेवालोच्य बालचेष्टितं परिहर्त्तव्यं । न च पर्युषणापर्वणो मासनैयत्येऽपि तिथिरपि चूादिषु पञ्चम्येव नियता दृश्यते । तत्कथं चतुर्थी कथनम् ? इति शक्यं । युगप्रधानश्रीकालकसूरेः पूर्व पश्चम्येव, इदानीं तु सर्वसङ्गाभिमततत्प्रवर्तिता चतुर्युव । एवमागमयुक्तियुक्ते भाद्रपदविशेवितपर्युषणापर्वणि सत्यपि भो श्रावणिक ! स्वकीयकदाग्रहादश्राव्यमपि श्रावणपर्युषणापर्व न त्यक्षसि तर्हि त्वत्तः सहकारादयः प्रशस्तवनस्पतयोऽचेतना अपि शस्ताः। यतः-तेऽप्यधिकमासे प्रथमपासं परित्यज्य द्वितीयमासे एव निजपुष्पफलादिकं प्रयच्छन्ति । यत उक्तं ला॥३८८ Jain Educa For Private & Personal use only JArary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458