Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
1३९३॥
REACREENSECRECIPAT
जडाध यावदुदकं स दकसङ्घटः, नाभिर्यावल्लेपः, तत्परतः, लेपोपरि । तत्र-ऋतुबद्ध काले भिक्षाचर्यायां यत्र त्रयो दकसङ्घट्टाः, वर्षासु सप्त भवेयुः तत्र क्षेत्रं नोपहन्यते । चतुरादिभिः अष्टादिभिश्च तैः उपहन्यते । ते च ऋतुबद्ध गतागतेन षट् वर्षासु च चतुर्दश स्युः। लेपश्चैकोऽपि क्षेत्रं हन्ति, किं पुनः लेपोपरि । तथा यदि चतुरो मासान् एक-द्वि-व्यादिदिनान् वा उपोषित: स्थातुमशक्तः, तदा जघन्यतोऽपि पूर्वक्रियमाणनमस्कारसहितादेः पौरुष्यादि तपोवृद्धिं कुर्याद् इति ॥१३॥
(वासावासं पन्जोसवियाणं अत्थेगइयाण-एवं बुत्तपुवं भवइ-दावे भंते ?, एवं से कप्पह दावित्तए नो से कप्पह पडिगाहित्तए) ॥१४॥
[वासावासं' इत्यादितः 'पडिगाहित्तए' त्ति पर्यन्तम् ] तत्र-'अत्थेगइयाणं' ति अस्त्येतत् यदेकेषां साधूनां पुरतः-एवमुक्तपूर्व भवति 'गुरूभिः' इति गम्यते । चूणौँ तु-'अत्थेगइया आयरिया' इत्युक्तं । 'अस्थं भासइ आयरिओ' त्ति वचनात् । अर्थ एव-अनुयोग एव एकायिता-एकाग्रचेतसः अर्थेकायिताः तेषाम् । अथवा अस्त्येतत् एकेषाम् आचार्याणाम् इदमुकपूर्व भवतीति व्याख्येयं । तत्र च षष्ठी तृतीयार्थे । ततश्च-आचार्यैः एवमुक्तं भवति यत्- 'दावे भंते' त्ति हे भदन्त ! कल्याणिन् ! साधो ! 'दावे' इति ग्लानाय दद्याः, 'स्वार्थिक णौ वा' दापयेः-दद्याः 'अशनादिकमानीय' इति गम्यते । अनेन च ग्लानदानादेशेन अद्य-चतुर्मासकादौ स्वयं मा प्रतिगृह्णीया इत्युक्तं एवमुके 'से' तस्य साधोः कल्पते दातुम् । अर्थात ग्लानाय स्वयं प्रतिगृहीतुं गुरुणा अननुज्ञातत्वात् ॥ १४॥
(वासावासं पज्जोसवियाणं अस्थेगइयाण एवं वुत्तपुव्वं भवह-पडिगाहेहि भंते , एवं से कप्पइ
॥३९३॥
Jain Ecd
emnational
For Private & Personal use only
W
alelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458