________________
1३९३॥
REACREENSECRECIPAT
जडाध यावदुदकं स दकसङ्घटः, नाभिर्यावल्लेपः, तत्परतः, लेपोपरि । तत्र-ऋतुबद्ध काले भिक्षाचर्यायां यत्र त्रयो दकसङ्घट्टाः, वर्षासु सप्त भवेयुः तत्र क्षेत्रं नोपहन्यते । चतुरादिभिः अष्टादिभिश्च तैः उपहन्यते । ते च ऋतुबद्ध गतागतेन षट् वर्षासु च चतुर्दश स्युः। लेपश्चैकोऽपि क्षेत्रं हन्ति, किं पुनः लेपोपरि । तथा यदि चतुरो मासान् एक-द्वि-व्यादिदिनान् वा उपोषित: स्थातुमशक्तः, तदा जघन्यतोऽपि पूर्वक्रियमाणनमस्कारसहितादेः पौरुष्यादि तपोवृद्धिं कुर्याद् इति ॥१३॥
(वासावासं पन्जोसवियाणं अत्थेगइयाण-एवं बुत्तपुवं भवइ-दावे भंते ?, एवं से कप्पह दावित्तए नो से कप्पह पडिगाहित्तए) ॥१४॥
[वासावासं' इत्यादितः 'पडिगाहित्तए' त्ति पर्यन्तम् ] तत्र-'अत्थेगइयाणं' ति अस्त्येतत् यदेकेषां साधूनां पुरतः-एवमुक्तपूर्व भवति 'गुरूभिः' इति गम्यते । चूणौँ तु-'अत्थेगइया आयरिया' इत्युक्तं । 'अस्थं भासइ आयरिओ' त्ति वचनात् । अर्थ एव-अनुयोग एव एकायिता-एकाग्रचेतसः अर्थेकायिताः तेषाम् । अथवा अस्त्येतत् एकेषाम् आचार्याणाम् इदमुकपूर्व भवतीति व्याख्येयं । तत्र च षष्ठी तृतीयार्थे । ततश्च-आचार्यैः एवमुक्तं भवति यत्- 'दावे भंते' त्ति हे भदन्त ! कल्याणिन् ! साधो ! 'दावे' इति ग्लानाय दद्याः, 'स्वार्थिक णौ वा' दापयेः-दद्याः 'अशनादिकमानीय' इति गम्यते । अनेन च ग्लानदानादेशेन अद्य-चतुर्मासकादौ स्वयं मा प्रतिगृह्णीया इत्युक्तं एवमुके 'से' तस्य साधोः कल्पते दातुम् । अर्थात ग्लानाय स्वयं प्रतिगृहीतुं गुरुणा अननुज्ञातत्वात् ॥ १४॥
(वासावासं पज्जोसवियाणं अस्थेगइयाण एवं वुत्तपुव्वं भवह-पडिगाहेहि भंते , एवं से कप्पइ
॥३९३॥
Jain Ecd
emnational
For Private & Personal use only
W
alelibrary.org