________________
श्रीकल्प
किरणार
टीका व्या०
॥३८८॥
SAESAERAEAAAA
स च यद्यभिवद्धितः तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते । दिनगणनायां स्वस्य अन्यस्य वा मासस्य वृद्धौ सम्भवन्तोऽप्यशीतिदिनाः पश्चाशदेव गण्यन्ते । यथा-तवाऽप्यभिमता पञ्चमास्यपि चतुर्मासीति । यच्चोक्तं-'साधुदानादेः प्रयासमात्रता' इति, तदयुक्तमेव । यतः-साधुदानजिनपूजादिकं न मासप्रतिबद्धं, किन्तु दिनमात्रप्रतिबद्धं । तच्च यं कञ्चनदिनमवाप्याऽपि कर्तव्यमेव । तत्रापि क्षणविशेषनियतत्वेन रात्रिकदेवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोतवेलामतिक्रम्य परावर्त्य वा करणेऽना व । पाक्षिककृत्यमपि पाक्षिकप्रतिक्रमणादिकं । तच्च चतुर्दशी नियतं तच्च या काश्चनचतुर्दशीमवाप्यापि कर्त्तव्यं । तथा-तन्मासि किं पातकं न भवति ? उत बुभुक्षा न लगति ? इत्याद्युपहसनेऽपि इयमेव रीतिरनुसर्तव्या यतः-पातकं तु प्रतिपाणिनं प्रतिसमयं तथाविधाऽध्यवसायादि-सामय्यनुरूपमुत्पद्यते, न पुनर्नियतमासाद्यपेक्षया इति । एवं बुभुक्षाऽपि तथाविधवेदनीयकर्मोदयादेव भवति, न पुनर्दिवसमासाद्यपेक्षया । अन्यथा मनुष्यक्षेत्रादबहिर्वतिनां तिरश्चां दिवसमासादिरूपकालाऽसम्भवेन बुभुक्षाया अभाव एव सम्पद्यत इत्यादि स्वयमेवालोच्य बालचेष्टितं परिहर्त्तव्यं । न च पर्युषणापर्वणो मासनैयत्येऽपि तिथिरपि चूादिषु पञ्चम्येव नियता दृश्यते । तत्कथं चतुर्थी कथनम् ? इति शक्यं । युगप्रधानश्रीकालकसूरेः पूर्व पश्चम्येव, इदानीं तु सर्वसङ्गाभिमततत्प्रवर्तिता चतुर्युव । एवमागमयुक्तियुक्ते भाद्रपदविशेवितपर्युषणापर्वणि सत्यपि भो श्रावणिक ! स्वकीयकदाग्रहादश्राव्यमपि श्रावणपर्युषणापर्व न त्यक्षसि तर्हि त्वत्तः सहकारादयः प्रशस्तवनस्पतयोऽचेतना अपि शस्ताः। यतः-तेऽप्यधिकमासे प्रथमपासं परित्यज्य द्वितीयमासे एव निजपुष्पफलादिकं प्रयच्छन्ति । यत उक्तं
ला॥३८८
Jain Educa
For Private & Personal use only
JArary.org