Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
जिनदत्तचरित्रे |
मालिन्योद्योतयोर्हेतू असत्सन्तौ स्वभावतः । गुणानां न तयो निन्दास्तुती तेन तनोम्यहम् ॥ ४ ॥ मनो मम चतुर्वर्गमार्गमुक्ताफलोज्ज्वलाम् । जिनदत्तकथाहारलतिकां कर्तुमीहते ॥ ५ ॥ अथास्ति भरतक्षेत्रे जम्बूद्वीपस्य दक्षिणे । श्रीमानंगाभिधो देशो देवावास इवापरः ॥ ६ ॥ क्रीडामत्तामरा यत्र कोपयन्ति स्वकामिनीः । उद्यानेषु विलासादयवनपालीविलोकिनः ॥ ७ ॥ सविभ्रमाः सपद्माश्च सर्वसेव्यपयोधराः । कुटिला यत्र राजन्ते नद्यः पण्याङ्गना इव ॥ ८ ॥ पन्थानं पथिका कामं नाक्रमन्ति समुत्सुकाः । अपि यद्गोपिकाकान्तरूपासक्ताः पदे पदे ॥ ९ ॥ भान्ति यत्र भुवो ग्राम्याः सर्वतः खलसंकुलाः । समृद्धिभिस्तथाप्युच्चैः सज्जनानन्दहेतवः ॥ १० ॥ निगमानां नचान्योन्यं यस्मिन् सीमावगम्यते । निष्पन्नैः सर्वतः सर्वसस्य जातैर्निरन्तरैः ११ ॥ सच्छायाः प्रोन्नता यत्र मार्गस्थाश्च विजातिभिः । सेव्यन्ते पादपा युक्तमेतन्ननु कुजन्मनाम् ॥ १२ ॥
१ दुर्जनसज्जनौ । २ इच्छति । ३ स्वर्ग इव । ४ नयस्तु हंसादिपक्षिसहिता जलभ्रमणसहिताश्च वेश्यापक्षे सकटाक्षाः नद्यस्तु सकमलाः वेश्यापक्षे सलक्ष्म्यः नद्यस्तु सर्वजनभोग्यजलधारिण्यः वेश्यापक्षे सर्वजनसेव्यकुचाः पण्याङ्गनात्वात् ५ ग्रामसम्बन्धिन्यो भुवः । ६ कुजन्मानो प्राणिनः विजातिभिरेव सेव्यन्ते कुजन्मा नस्तरवस्ते नानापक्षिभिः सेव्यन्त एव । कुः पृथ्वी वयः पक्षिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 102