Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ P जल्प क. ल. प्रस्ता० नदर्शिता उपाधिभेदा अपि । स्तबके चास्तोकयुक्तिस्तबके तृतीयस्मिन्नुदीराम्बभूवे महाप्रभावेण यत्स्रष्टुः सृष्टेरैक्यमि- तरद्वा, व्यापकत्वे तस्य वपुषाऽशुचिपदार्थपतिपरीतता, ज्ञानरूपेण तु तथात्वे न विधायिता विश्वस्य, असार्वश्याविनाभूता यथार्थोदितिनोदनपटिष्ठता पशुपतेरिव द्रव्यादिनवानवार्थतावादिनः, तमश्छाययोरप्यपराभवनीयच्छाययोरबाधबोधविषयत्वात् । पर्यन्ते प्रस्पष्टं स्पष्टितं च धर्माधर्माकाशकालपुद्गलादीनां यथायथं रूपं संक्षेपेणातितमेनावगम्य चागमेशितृशयवासपवित्रपवित्राङ्गे यथार्थमवगमं सोऽबीभणदर्भकभारत्यभिधया यतिवर्यम् । सर्व चैतच्छ्रीमद्रत्नमण्डनसिद्धान्ततत्त्वरत्नमण्डितात्मान आविर्भावितवन्तः श्रीमन्तो रत्नमण्डनाः। श्रीमन्तश्च श्रीमद्रनशेखरसूरिवर्येषु भासमानेषु श्रीमजिनशासननभोभागभानुमालिषु श्रीमन्नन्दिरत्नपादमकरन्दमुग्धमनोमधुपाः । सूरिवराणां भूमण्डलभामिनीमण्डनकालश्च षोडशशतीयो वैक्रम इति श्रीहीरसौभाग्यसोमसौभाग्यविजयप्रशस्तिप्रभृतिग्रन्थतत्यवलोकनतो निश्चेचीयते निर्णयचणैर्मनीषिभिरिति श्रीप्रभूणामपि स एवानेहा, नचोपलब्धिमृतिमायाता इतरे श्रीमतीया ग्रन्थाः, भविष्यन्ति परमष्टमपत्रेऽवोचाम चेत्युपलब्धेरनुमितेः, परं स्युश्चेदवगता निपुणैर्जापनीयोऽहमिति प्रार्थये सुध्यनघकृपावृष्टिमभिलाषुकःx x x x x x ॥ वीरात् २४३८ तम वर्षे भाद्रपद-पूर्णिमायां लिखितम् ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56