Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ जल्प लोकनेत्रप्लोषणमापनीपत नतत्कालज्वालाकुलोपिक समकालमुष्णानुष्णखा वस्तुनस्तुषारस्पर्शवतः कालान्तरेण तरणिकरनिकरव्यतिकरवशादुष्णस्पर्शनात् । समसमयं विरुद्धोभयमयो न प्रमीयत इति चेत्, तदप्यकमनीयम्, पावकस्यैकस्यैव समकालमुष्णानुष्णखभावस्योपलम्भात् । वहिर्हि दहनखभावः स्पर्शरूपेण नतूत्फालज्वालाकुलोऽपि रूपरूपेण, अन्यथा रूपसंनिकर्षेण तदालोकने लोकनेत्रप्लोषणमापनीपद्यतेति अवोचाम चान्यत्र-“गत्वा यौगमतेऽक्षिपाणियुगपच्छीतेतरस्पर्शतः, स्थाद्वादं जगदीशदर्शितमसावातिष्ठिपद्विष्टपे । तत्पुण्यादिव देवतावनतामग्निर्जगाम वजडूमव्याजमघब्रजं निजमजत्यानर्ज तेजखिताम् ॥ २१॥ तदेवं जातवेदसि स्पर्शरूपगतयोर्दाहादाहयोरिवाकाशे निष्पदेशेऽपि पर्यायद्रव्यविषययोः कृतत्वाकृतत्वयोरैककालिकी वृत्तिरविरुद्धैव । न च नमो निष्पदेशं, पूर्वोक्तयुक्त्या नभः सप्रदेशं युगपन्नानामूतैः सम्बध्यमानत्वावसुधावदित्यादिप्रमाणैश्च तस्य सप्रदेशत्वसिद्धेः, तथाच सत्येकस्मिंश्चीवरावयविन्यावृतानावृतरक्ताऽरक्तचलाचलतादय इव वियति विरुद्धयोरपि तयोः प्रदे-10 |शभेदेन वृत्तौ (कुतः) कृतौजास्सञ्जायते विरोधारातिरनेकान्तधरानेतुःतथास्मानित्येऽप्याकाशे कृतबुद्ध्युत्पादादनेकान्तकृतान्तदन्तान्तरालप्रवेशनितान्तव्याकुलो हेतुः । निःस्वश्रेष्ठिखमान्ताकार्तखरकटाहोत्पाटनपटभरणन्यायेन भागासिद्धोऽप्ययम् । कूपौकःप्राकारादिष्विव पर्वतो/तर्वादिषु कृतमितिप्रतिभोत्पादस्याभावात् । प्रामाणिकानां तत्र वर्तत एव सेति चेत्, तर्हि भो! बर्हिणा इव बहुलसन्देहलोलाहिनिस्तहणाः केन प्रमाणेन तेषां तदुत्पत्तिः। न प्रत्यक्षेणातीन्द्रियतया क्षित्यादि कुर्वाणे शर्वाणीपतौ तस्याप्रवृत्तेः । अनु

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56